Ṛk 1.82.6
Saṃhitā
यु॒नज्मि॑ ते॒ ब्रह्म॑णा के॒शिना॒ हरी॒ उप॒ प्र या॑हि दधि॒षे गभ॑स्त्योः ।
उत्त्वा॑ सु॒तासो॑ रभ॒सा अ॑मंदिषुः पूष॒ण्वान्व॑ज्रि॒न्त्समु॒ पत्न्या॑मदः ॥
युनज्मि ते ब्रह्मणा केशिना हरी उप प्र याहि दधिषे गभस्त्योः |
उत् त्वा सुतासो रभसा अमन्दिषुः पूषण्वान् वज्रिन् सम् उ पत्न्यामदः ||
yunájmi te bráhmaṇā keśínā hárī úpa prá yāhi dadhiṣé gábhastyoḥ ǀ
úttvā sutā́so rabhasā́ amandiṣuḥ pūṣaṇvā́nvajrintsámu pátnyāmadaḥ ǁ
yunajmi te brahmaṇā keśinā harī upa pra yāhi dadhiṣe gabhastyoḥ |
ut tvā sutāso rabhasā amandiṣuḥ pūṣaṇvān vajrin sam u patnyāmadaḥ ||
Padapāṭha
यु॒नज्मि॑ । ते॒ । ब्रह्म॑णा । के॒शिना॑ । हरी॒ इति॑ । उप॑ । प्र । या॒हि॒ । द॒धि॒षे । गभ॑स्त्योः ।
उत् । त्वा॒ । सु॒तासः॑ । र॒भ॒साः । अ॒म॒न्दि॒षुः॒ । पू॒ष॒ण्ऽवान् । व॒ज्रि॒न् । सम् । ऊं॒ इति॑ । पत्न्या॑ । अ॒म॒दः॒ ॥
युनज्मि । ते । ब्रह्मणा । केशिना । हरी इति । उप । प्र । याहि । दधिषे । गभस्त्योः ।
उत् । त्वा । सुतासः । रभसाः । अमन्दिषुः । पूषण्ऽवान् । वज्रिन् । सम् । ऊं इति । पत्न्या । अमदः ॥
yunájmi ǀ te ǀ bráhmaṇā ǀ keśínā ǀ hárī íti ǀ úpa ǀ prá ǀ yāhi ǀ dadhiṣé ǀ gábhastyoḥ ǀ
út ǀ tvā ǀ sutā́saḥ ǀ rabhasā́ḥ ǀ amandiṣuḥ ǀ pūṣaṇ-vā́n ǀ vajrin ǀ sám ǀ ūṃ íti ǀ pátnyā ǀ amadaḥ ǁ
yunajmi ǀ te ǀ brahmaṇā ǀ keśinā ǀ harī iti ǀ upa ǀ pra ǀ yāhi ǀ dadhiṣe ǀ gabhastyoḥ ǀ
ut ǀ tvā ǀ sutāsaḥ ǀ rabhasāḥ ǀ amandiṣuḥ ǀ pūṣaṇ-vān ǀ vajrin ǀ sam ǀ ūṃ iti ǀ patnyā ǀ amadaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.082.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.6.03.00
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gotama Rāhūgaṇa
- Chandas छन्दस्
- Paṅkti, Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.