Ṛgveda · Maṇḍala 1

Sūkta 129

Indra · Parucchepa Daivodāsi · 11 ṛks

Link
Devatā देवता
Indra
Ṛṣi ऋषि
Parucchepa Daivodāsi
Chandas छन्दस्
Atyaṣṭi, Atiśakvarī, Aṣṭi
Metres by ṛk

1st set of styles nicṛdatyaṣṭiḥ (1, 2); bhurigaṣṭiḥ (6, 11); svarāṭśakvarī (8, 9); virāḍatyaṣṭiḥ (3); aṣṭiḥ (4); bhurigatiśakvarī (5); svarāḍatiśakvarī (7); nicṛdaṣṭiḥ (10)

2nd set of styles atyaṣṭi (1-7, 10); atiśakvarī (8-9); aṣṭi (11)

  1. Ṛk 1

    यं त्वं रथ॑मिंद्र मे॒धसा॑तयेऽपा॒का संत॑मिषिर प्र॒णय॑सि॒ प्रान॑वद्य॒ नय॑सि ।
    स॒द्यश्चि॒त्तम॒भिष्ट॑ये॒ करो॒ वश॑श्च वा॒जिनं॑ ।
    सास्माक॑मनवद्य तूतुजान वे॒धसा॑मि॒मां वाचं॒ न वे॒धसां॑ ॥

    यं त्वं रथम् इन्द्र मेधसातये ऽपाका सन्तम् इषिर प्रणयसि प्रानवद्य नयसि |
    सद्यश् चित् तम् अभिष्टये करो वशश् च वाजिनम् |
    सास्माकम् अनवद्य तूतुजान वेधसाम् इमां वाचं न वेधसाम् ||

    yám tvám ráthamindra medhásātaye’pākā́ sántamiṣira praṇáyasi prā́navadya náyasi ǀ
    sadyáścittámabhíṣṭaye káro váśaśca vājínam ǀ
    sā́smā́kamanavadya tūtujāna vedhásāmimā́m vā́cam ná vedhásām ǁ

    yaṃ tvaṃ ratham indra medhasātaye 'pākā santam iṣira praṇayasi prānavadya nayasi |
    sadyaś cit tam abhiṣṭaye karo vaśaś ca vājinam |
    sāsmākam anavadya tūtujāna vedhasām imāṃ vācaṃ na vedhasām ||

    यम् । त्वम् । रथ॑म् । इ॒न्द्र॒ । मे॒धऽसा॑तये । अ॒पा॒का । सन्त॑म् । इ॒षि॒र॒ । प्र॒ऽनय॑सि । प्र । अ॒न॒व॒द्य॒ । नय॑सि ।
    स॒द्यः । चि॒त् । तम् । अ॒भिष्ट॑ये । करः॑ । वशः॑ । च॒ । वा॒जिन॑म् ।
    सः । अ॒स्माक॑म् । अ॒न॒व॒द्य॒ । तू॒तु॒जा॒न॒ । वे॒धसा॑म् । इ॒माम् । वाच॑म् । न । वे॒धसा॑म् ॥

    यम् । त्वम् । रथम् । इन्द्र । मेधऽसातये । अपाका । सन्तम् । इषिर । प्रऽनयसि । प्र । अनवद्य । नयसि ।
    सद्यः । चित् । तम् । अभिष्टये । करः । वशः । च । वाजिनम् ।
    सः । अस्माकम् । अनवद्य । तूतुजान । वेधसाम् । इमाम् । वाचम् । न । वेधसाम् ॥

    yám ǀ tvám ǀ rátham ǀ indra ǀ medhá-sātaye ǀ apākā́ ǀ sántam ǀ iṣira ǀ pra-náyasi ǀ prá ǀ anavadya ǀ náyasi ǀ
    sadyáḥ ǀ cit ǀ tám ǀ abhíṣṭaye ǀ káraḥ ǀ váśaḥ ǀ ca ǀ vājínam ǀ
    sáḥ ǀ asmā́kam ǀ anavadya ǀ tūtujāna ǀ vedhásām ǀ imā́m ǀ vā́cam ǀ ná ǀ vedhásām ǁ

    yam ǀ tvam ǀ ratham ǀ indra ǀ medha-sātaye ǀ apākā ǀ santam ǀ iṣira ǀ pra-nayasi ǀ pra ǀ anavadya ǀ nayasi ǀ
    sadyaḥ ǀ cit ǀ tam ǀ abhiṣṭaye ǀ karaḥ ǀ vaśaḥ ǀ ca ǀ vājinam ǀ
    saḥ ǀ asmākam ǀ anavadya ǀ tūtujāna ǀ vedhasām ǀ imām ǀ vācam ǀ na ǀ vedhasām ǁ

    1.129.1 Aṣṭaka 2.1.16.1Anuvāka 1.19.20

  2. Ṛk 2

    स श्रु॑धि॒ यः स्मा॒ पृत॑नासु॒ कासु॑ चिद्द॒क्षाय्य॑ इंद्र॒ भर॑हूतये॒ नृभि॒रसि॒ प्रतू॑र्तये॒ नृभिः॑ ।
    यः शूरैः॒ स्वः१॒॑ सनि॑ता॒ यो विप्रै॒र्वाजं॒ तरु॑ता ।
    तमी॑शा॒नास॑ इरधंत वा॒जिनं॑ पृ॒क्षमत्यं॒ न वा॒जिनं॑ ॥

    स श्रुधि यः स्मा पृतनासु कासु चिद् दक्षाय्य इन्द्र भरहूतये नृभिर् असि प्रतूर्तये नृभिः |
    यः शूरैः स्वः सनिता यो विप्रैर् वाजं तरुता |
    तम् ईशानास इरधन्त वाजिनम् पृक्षम् अत्यं न वाजिनम् ||

    sá śrudhi yáḥ smā pṛ́tanāsu kā́su ciddakṣā́yya indra bhárahūtaye nṛ́bhirási prátūrtaye nṛ́bhiḥ ǀ
    yáḥ śū́raiḥ sváḥ sánitā yó víprairvā́jam tárutā ǀ
    támīśānā́sa iradhanta vājínam pṛkṣámátyam ná vājínam ǁ

    sa śrudhi yaḥ smā pṛtanāsu kāsu cid dakṣāyya indra bharahūtaye nṛbhir asi pratūrtaye nṛbhiḥ |
    yaḥ śūraiḥ svaḥ sanitā yo viprair vājaṃ tarutā |
    tam īśānāsa iradhanta vājinam pṛkṣam atyaṃ na vājinam ||

    सः । श्रु॒धि॒ । यः । स्म॒ । पृत॑नासु । कासु॑ । चि॒त् । द॒क्षाय्यः॑ । इ॒न्द्र॒ । भर॑ऽहूतये । नृऽभिः॑ । असि॑ । प्रऽतू॑र्तये । नृऽभिः॑ ।
    यः । शूरैः॑ । स्व१॒॑रिति॑ स्वः॑ । सनि॑ता । यः । विप्रैः॑ । वाज॑म् । तरु॑ता ।
    तम् । ई॒शा॒नासः॑ । इ॒र॒ध॒न्त॒ । वा॒जिन॑म् । पृ॒क्षम् । अत्य॑म् । न । वा॒जिन॑म् ॥

    सः । श्रुधि । यः । स्म । पृतनासु । कासु । चित् । दक्षाय्यः । इन्द्र । भरऽहूतये । नृऽभिः । असि । प्रऽतूर्तये । नृऽभिः ।
    यः । शूरैः । स्वरिति स्वः । सनिता । यः । विप्रैः । वाजम् । तरुता ।
    तम् । ईशानासः । इरधन्त । वाजिनम् । पृक्षम् । अत्यम् । न । वाजिनम् ॥

    sáḥ ǀ śrudhi ǀ yáḥ ǀ sma ǀ pṛ́tanāsu ǀ kā́su ǀ cit ǀ dakṣā́yyaḥ ǀ indra ǀ bhára-hūtaye ǀ nṛ́-bhiḥ ǀ ási ǀ prá-tūrtaye ǀ nṛ́-bhiḥ ǀ
    yáḥ ǀ śū́raiḥ ǀ sváríti sváḥ ǀ sánitā ǀ yáḥ ǀ vípraiḥ ǀ vā́jam ǀ tárutā ǀ
    tám ǀ īśānā́saḥ ǀ iradhanta ǀ vājínam ǀ pṛkṣám ǀ átyam ǀ ná ǀ vājínam ǁ

    saḥ ǀ śrudhi ǀ yaḥ ǀ sma ǀ pṛtanāsu ǀ kāsu ǀ cit ǀ dakṣāyyaḥ ǀ indra ǀ bhara-hūtaye ǀ nṛ-bhiḥ ǀ asi ǀ pra-tūrtaye ǀ nṛ-bhiḥ ǀ
    yaḥ ǀ śūraiḥ ǀ svariti svaḥ ǀ sanitā ǀ yaḥ ǀ vipraiḥ ǀ vājam ǀ tarutā ǀ
    tam ǀ īśānāsaḥ ǀ iradhanta ǀ vājinam ǀ pṛkṣam ǀ atyam ǀ na ǀ vājinam ǁ

    1.129.2 Aṣṭaka 2.1.16.2Anuvāka 1.19.21

  3. Ṛk 3

    द॒स्मो हि ष्मा॒ वृष॑णं॒ पिन्व॑सि॒ त्वचं॒ कं चि॑द्यावीर॒ररुं॑ शूर॒ मर्त्यं॑ परिवृ॒णक्षि॒ मर्त्यं॑ ।
    इंद्रो॒त तुभ्यं॒ तद्दि॒वे तद्रु॒द्राय॒ स्वय॑शसे ।
    मि॒त्राय॑ वोचं॒ वरु॑णाय स॒प्रथः॑ सुमृळी॒काय॑ स॒प्रथः॑ ॥

    दस्मो हि ष्मा वृषणम् पिन्वसि त्वचं कं चिद् यावीर् अररुं शूर मर्त्यम् परिवृणक्षि मर्त्यम् |
    इन्द्रोत तुभ्यं तद् दिवे तद् रुद्राय स्वयशसे |
    मित्राय वोचं वरुणाय सप्रथः सुमृऌईकाय सप्रथः ||

    dasmó hí ṣmā vṛ́ṣaṇam pínvasi tvácam kám cidyāvīrarárum śūra mártyam parivṛṇákṣi mártyam ǀ
    índrotá túbhyam táddivé tádrudrā́ya sváyaśase ǀ
    mitrā́ya vocam váruṇāya sapráthaḥ sumṛḷīkā́ya sapráthaḥ ǁ

    dasmo hi ṣmā vṛṣaṇam pinvasi tvacaṃ kaṃ cid yāvīr araruṃ śūra martyam parivṛṇakṣi martyam |
    indrota tubhyaṃ tad dive tad rudrāya svayaśase |
    mitrāya vocaṃ varuṇāya saprathaḥ sumṛḷīkāya saprathaḥ ||

    द॒स्मः । हि । स्म॒ । वृष॑णम् । पिन्व॑सि । त्वच॑म् । कम् । चि॒त् । या॒वीः॒ । अ॒ररु॑म् । शू॒र॒ । मर्त्य॑म् । प॒रि॒ऽवृ॒णक्षि॑ । मर्त्य॑म् ।
    इन्द्र॑ । उ॒त । तुभ्य॑म् । तत् । दि॒वे । तत् । रु॒द्राय॑ । स्वऽय॑शसे ।
    मि॒त्राय॑ । वो॒च॒म् । वरु॑णाय । स॒ऽप्रथः॑ । सु॒ऽमृ॒ळी॒काय॑ । स॒ऽप्रथः॑ ॥

    दस्मः । हि । स्म । वृषणम् । पिन्वसि । त्वचम् । कम् । चित् । यावीः । अररुम् । शूर । मर्त्यम् । परिऽवृणक्षि । मर्त्यम् ।
    इन्द्र । उत । तुभ्यम् । तत् । दिवे । तत् । रुद्राय । स्वऽयशसे ।
    मित्राय । वोचम् । वरुणाय । सऽप्रथः । सुऽमृळीकाय । सऽप्रथः ॥

    dasmáḥ ǀ hí ǀ sma ǀ vṛ́ṣaṇam ǀ pínvasi ǀ tvácam ǀ kám ǀ cit ǀ yāvīḥ ǀ arárum ǀ śūra ǀ mártyam ǀ pari-vṛṇákṣi ǀ mártyam ǀ
    índra ǀ utá ǀ túbhyam ǀ tát ǀ divé ǀ tát ǀ rudrā́ya ǀ svá-yaśase ǀ
    mitrā́ya ǀ vocam ǀ váruṇāya ǀ sa-práthaḥ ǀ su-mṛḷīkā́ya ǀ sa-práthaḥ ǁ

    dasmaḥ ǀ hi ǀ sma ǀ vṛṣaṇam ǀ pinvasi ǀ tvacam ǀ kam ǀ cit ǀ yāvīḥ ǀ ararum ǀ śūra ǀ martyam ǀ pari-vṛṇakṣi ǀ martyam ǀ
    indra ǀ uta ǀ tubhyam ǀ tat ǀ dive ǀ tat ǀ rudrāya ǀ sva-yaśase ǀ
    mitrāya ǀ vocam ǀ varuṇāya ǀ sa-prathaḥ ǀ su-mṛḷīkāya ǀ sa-prathaḥ ǁ

    1.129.3 Aṣṭaka 2.1.16.3Anuvāka 1.19.22

  4. Ṛk 4

    अ॒स्माकं॑ व॒ इंद्र॑मुश्मसी॒ष्टये॒ सखा॑यं वि॒श्वायुं॑ प्रा॒सहं॒ युजं॒ वाजे॑षु प्रा॒सहं॒ युजं॑ ।
    अ॒स्माकं॒ ब्रह्मो॒तयेऽवा॑ पृ॒त्सुषु॒ कासु॑ चित् ।
    न॒हि त्वा॒ शत्रुः॒ स्तर॑ते स्तृ॒णोषि॒ यं विश्वं॒ शत्रुं॑ स्तृ॒णोषि॒ यं ॥

    अस्माकं व इन्द्रम् उश्मसीष्टये सखायं विश्वायुम् प्रासहं युजं वाजेषु प्रासहं युजम् |
    अस्माकम् ब्रह्मोतये ऽवा पृत्सुषु कासु चित् |
    नहि त्वा शत्रु स्तरते स्तृणोषि यं विश्वं शत्रुं स्तृणोषि यम् ||

    asmā́kam va índramuśmasīṣṭáye sákhāyam viśvā́yum prāsáham yújam vā́jeṣu prāsáham yújam ǀ
    asmā́kam bráhmotáyé’vā pṛtsúṣu kā́su cit ǀ
    nahí tvā śátruḥ stárate stṛṇóṣi yám víśvam śátrum stṛṇóṣi yám ǁ

    asmākaṃ va indram uśmasīṣṭaye sakhāyaṃ viśvāyum prāsahaṃ yujaṃ vājeṣu prāsahaṃ yujam |
    asmākam brahmotaye 'vā pṛtsuṣu kāsu cit |
    nahi tvā śatru starate stṛṇoṣi yaṃ viśvaṃ śatruṃ stṛṇoṣi yam ||

    अ॒स्माक॑म् । वः॒ । इन्द्र॑म् । उ॒श्म॒सि॒ । इ॒ष्टये॑ । सखा॑यम् । वि॒श्वऽआ॑युम् । प्र॒ऽसह॑म् । युज॑म् । वाजे॑षु । प्र॒ऽसह॑म् । युज॑म् ।
    अ॒स्माक॑म् । ब्रह्म॑ । ऊ॒तये॑ । अव॑ । पृ॒त्सुषु॑ । कासु॑ । चि॒त् ।
    न॒हि । त्वा॒ । शत्रुः॑ । स्तर॑ते । स्तृ॒णोषि॑ । यम् । विश्व॑म् । शत्रु॑म् । स्तृ॒णोषि॑ । यम् ॥

    अस्माकम् । वः । इन्द्रम् । उश्मसि । इष्टये । सखायम् । विश्वऽआयुम् । प्रऽसहम् । युजम् । वाजेषु । प्रऽसहम् । युजम् ।
    अस्माकम् । ब्रह्म । ऊतये । अव । पृत्सुषु । कासु । चित् ।
    नहि । त्वा । शत्रुः । स्तरते । स्तृणोषि । यम् । विश्वम् । शत्रुम् । स्तृणोषि । यम् ॥

    asmā́kam ǀ vaḥ ǀ índram ǀ uśmasi ǀ iṣṭáye ǀ sákhāyam ǀ viśvá-āyum ǀ pra-sáham ǀ yújam ǀ vā́jeṣu ǀ pra-sáham ǀ yújam ǀ
    asmā́kam ǀ bráhma ǀ ūtáye ǀ áva ǀ pṛtsúṣu ǀ kā́su ǀ cit ǀ
    nahí ǀ tvā ǀ śátruḥ ǀ stárate ǀ stṛṇóṣi ǀ yám ǀ víśvam ǀ śátrum ǀ stṛṇóṣi ǀ yám ǁ

    asmākam ǀ vaḥ ǀ indram ǀ uśmasi ǀ iṣṭaye ǀ sakhāyam ǀ viśva-āyum ǀ pra-saham ǀ yujam ǀ vājeṣu ǀ pra-saham ǀ yujam ǀ
    asmākam ǀ brahma ǀ ūtaye ǀ ava ǀ pṛtsuṣu ǀ kāsu ǀ cit ǀ
    nahi ǀ tvā ǀ śatruḥ ǀ starate ǀ stṛṇoṣi ǀ yam ǀ viśvam ǀ śatrum ǀ stṛṇoṣi ǀ yam ǁ

    1.129.4 Aṣṭaka 2.1.16.4Anuvāka 1.19.23

  5. Ṛk 5

    नि षू न॒माति॑मतिं॒ कय॑स्य चि॒त्तेजि॑ष्ठाभिर॒रणि॑भि॒र्नोतिभि॑रु॒ग्राभि॑रुग्रो॒तिभिः॑ ।
    नेषि॑ णो॒ यथा॑ पु॒राने॒नाः शू॑र॒ मन्य॑से ।
    विश्वा॑नि पू॒रोरप॑ पर्षि॒ वह्नि॑रा॒सा वह्नि॑र्नो॒ अच्छ॑ ॥

    नि षू नमातिमतिं कयस्य चित् तेजिष्ठाभिर् अरणिभिर् नोतिभिर् उग्राभिर् उग्रोतिभिः |
    नेषि णो यथा पुरानेनाः शूर मन्यसे |
    विश्वानि पूरोर् अप पर्षि वह्निर् आसा वह्निर् नो अच्छ ||

    ní ṣū́ namā́timatim káyasya cittéjiṣṭhābhiraráṇibhirnótíbhirugrā́bhirugrotíbhiḥ ǀ
    néṣi ṇo yáthā purā́nenā́ḥ śūra mányase ǀ
    víśvāni pūrórápa parṣi váhnirāsā́ váhnirno áccha ǁ

    ni ṣū namātimatiṃ kayasya cit tejiṣṭhābhir araṇibhir notibhir ugrābhir ugrotibhiḥ |
    neṣi ṇo yathā purānenāḥ śūra manyase |
    viśvāni pūror apa parṣi vahnir āsā vahnir no accha ||

    नि । सु । न॒म॒ । अति॑ऽमतिम् । कय॑स्य । चि॒त् । तेजि॑ष्ठाभिः । अ॒रणि॑ऽभिः । न । ऊ॒तिऽभिः॑ । उ॒ग्राभिः॑ । उ॒ग्र॒ । ऊ॒तिऽभिः॑ ।
    नेषि॑ । नः॒ । यथा॑ । पु॒रा । अ॒ने॒नाः । शू॒र॒ । मन्य॑से ।
    विश्वा॑नि । पू॒रोः । अप॑ । प॒र्षि॒ । वह्निः॑ । आ॒सा । वह्निः॑ । नः॒ । अच्छ॑ ॥

    नि । सु । नम । अतिऽमतिम् । कयस्य । चित् । तेजिष्ठाभिः । अरणिऽभिः । न । ऊतिऽभिः । उग्राभिः । उग्र । ऊतिऽभिः ।
    नेषि । नः । यथा । पुरा । अनेनाः । शूर । मन्यसे ।
    विश्वानि । पूरोः । अप । पर्षि । वह्निः । आसा । वह्निः । नः । अच्छ ॥

    ní ǀ sú ǀ nama ǀ áti-matim ǀ káyasya ǀ cit ǀ téjiṣṭhābhiḥ ǀ aráṇi-bhiḥ ǀ ná ǀ ūtí-bhiḥ ǀ ugrā́bhiḥ ǀ ugra ǀ ūtí-bhiḥ ǀ
    néṣi ǀ naḥ ǀ yáthā ǀ purā́ ǀ anenā́ḥ ǀ śūra ǀ mányase ǀ
    víśvāni ǀ pūróḥ ǀ ápa ǀ parṣi ǀ váhniḥ ǀ āsā́ ǀ váhniḥ ǀ naḥ ǀ áccha ǁ

    ni ǀ su ǀ nama ǀ ati-matim ǀ kayasya ǀ cit ǀ tejiṣṭhābhiḥ ǀ araṇi-bhiḥ ǀ na ǀ ūti-bhiḥ ǀ ugrābhiḥ ǀ ugra ǀ ūti-bhiḥ ǀ
    neṣi ǀ naḥ ǀ yathā ǀ purā ǀ anenāḥ ǀ śūra ǀ manyase ǀ
    viśvāni ǀ pūroḥ ǀ apa ǀ parṣi ǀ vahniḥ ǀ āsā ǀ vahniḥ ǀ naḥ ǀ accha ǁ

    1.129.5 Aṣṭaka 2.1.16.5Anuvāka 1.19.24

  6. Ṛk 6

    प्र तद्वो॑चेयं॒ भव्या॒येंद॑वे॒ हव्यो॒ न य इ॒षवा॒न्मन्म॒ रेज॑ति रक्षो॒हा मन्म॒ रेज॑ति ।
    स्व॒यं सो अ॒स्मदा नि॒दो व॒धैर॑जेत दुर्म॒तिं ।
    अव॑ स्रवेद॒घशं॑सोऽवत॒रमव॑ क्षु॒द्रमि॑व स्रवेत् ॥

    प्र तद् वोचेयम् भव्यायेन्दवे हव्यो न य इषवान् मन्म रेजति रक्षोहा मन्म रेजति |
    स्वयं सो अस्मद् आ निदो वधैर् अजेत दुर्मतिम् |
    अव स्रवेद् अघशंसो ऽवतरम् अव क्षुद्रम् इव स्रवेत् ||

    prá tádvoceyam bhávyāyéndave hávyo ná yá iṣávānmánma réjati rakṣohā́ mánma réjati ǀ
    svayám só asmádā́ nidó vadháirajeta durmatím ǀ
    áva sravedagháśaṃso’vatarámáva kṣudrámiva sravet ǁ

    pra tad voceyam bhavyāyendave havyo na ya iṣavān manma rejati rakṣohā manma rejati |
    svayaṃ so asmad ā nido vadhair ajeta durmatim |
    ava sraved aghaśaṃso 'vataram ava kṣudram iva sravet ||

    प्र । तत् । वो॒चे॒य॒म् । भव्या॑य । इन्द॑वे । हव्यः॑ । न । यः । इ॒षऽवा॑न् । मन्म॑ । रेज॑ति । र॒क्षः॒ऽहा । मन्म॑ । रेज॑ति ।
    स्व॒यम् । सः । अ॒स्मत् । आ । नि॒दः । व॒धैः । अ॒जे॒त॒ । दुः॒ऽम॒तिम् ।
    अव॑ । स्र॒वे॒त् । अ॒घऽशं॑सः । अ॒व॒ऽत॒रम् । अव॑ । क्षु॒द्रम्ऽइ॑व । स्र॒वे॒त् ॥

    प्र । तत् । वोचेयम् । भव्याय । इन्दवे । हव्यः । न । यः । इषऽवान् । मन्म । रेजति । रक्षःऽहा । मन्म । रेजति ।
    स्वयम् । सः । अस्मत् । आ । निदः । वधैः । अजेत । दुःऽमतिम् ।
    अव । स्रवेत् । अघऽशंसः । अवऽतरम् । अव । क्षुद्रम्ऽइव । स्रवेत् ॥

    prá ǀ tát ǀ voceyam ǀ bhávyāya ǀ índave ǀ hávyaḥ ǀ ná ǀ yáḥ ǀ iṣá-vān ǀ mánma ǀ réjati ǀ rakṣaḥ-hā́ ǀ mánma ǀ réjati ǀ
    svayám ǀ sáḥ ǀ asmát ǀ ā́ ǀ nidáḥ ǀ vadháiḥ ǀ ajeta ǀ duḥ-matím ǀ
    áva ǀ sravet ǀ aghá-śaṃsaḥ ǀ ava-tarám ǀ áva ǀ kṣudrám-iva ǀ sravet ǁ

    pra ǀ tat ǀ voceyam ǀ bhavyāya ǀ indave ǀ havyaḥ ǀ na ǀ yaḥ ǀ iṣa-vān ǀ manma ǀ rejati ǀ rakṣaḥ-hā ǀ manma ǀ rejati ǀ
    svayam ǀ saḥ ǀ asmat ǀ ā ǀ nidaḥ ǀ vadhaiḥ ǀ ajeta ǀ duḥ-matim ǀ
    ava ǀ sravet ǀ agha-śaṃsaḥ ǀ ava-taram ǀ ava ǀ kṣudram-iva ǀ sravet ǁ

    1.129.6 Aṣṭaka 2.1.17.1Anuvāka 1.19.25

  7. Ṛk 7

    व॒नेम॒ तद्धोत्र॑या चि॒तंत्या॑ व॒नेम॑ र॒यिं र॑यिवः सु॒वीर्यं॑ र॒ण्वं संतं॑ सु॒वीर्यं॑ ।
    दु॒र्मन्मा॑नं सु॒मंतु॑भि॒रेमि॒षा पृ॑चीमहि ।
    आ स॒त्याभि॒रिंद्रं॑ द्यु॒म्नहू॑तिभि॒र्यज॑त्रं द्यु॒म्नहू॑तिभिः ॥

    वनेम तद् धोत्रया चितन्त्या वनेम रयिं रयिवः सुवीर्यं रण्वं सन्तं सुवीर्यम् |
    दुर्मन्मानं सुमन्तुभिर् एम् इषा पृचीमहि |
    आ सत्याभिर् इन्द्रं द्युम्नहूतिभिर् यजत्रं द्युम्नहूतिभिः ||

    vanéma táddhótrayā citántyā vanéma rayím rayivaḥ suvī́ryam raṇvám sántam suvī́ryam ǀ
    durmánmānam sumántubhirémiṣā́ pṛcīmahi ǀ
    ā́ satyā́bhiríndram dyumnáhūtibhiryájatram dyumnáhūtibhiḥ ǁ

    vanema tad dhotrayā citantyā vanema rayiṃ rayivaḥ suvīryaṃ raṇvaṃ santaṃ suvīryam |
    durmanmānaṃ sumantubhir em iṣā pṛcīmahi |
    ā satyābhir indraṃ dyumnahūtibhir yajatraṃ dyumnahūtibhiḥ ||

    व॒नेम॑ । तत् । होत्र॑या । चि॒तन्त्या॑ । व॒नेम॑ । र॒यिम् । र॒यि॒ऽवः॒ । सु॒ऽवीर्य॑म् । र॒ण्वम् । सन्त॑म् । सु॒ऽवीर्य॑म् ।
    दुः॒ऽमन्मा॑नम् । सु॒मन्तु॑ऽभिः । आ । ई॒म् । इ॒षा । पृ॒ची॒म॒हि॒ ।
    आ । स॒त्याभिः॑ । इन्द्र॑म् । द्यु॒म्नहू॑तिऽभिः । यज॑त्रम् । द्यु॒म्नहू॑तिऽभिः ॥

    वनेम । तत् । होत्रया । चितन्त्या । वनेम । रयिम् । रयिऽवः । सुऽवीर्यम् । रण्वम् । सन्तम् । सुऽवीर्यम् ।
    दुःऽमन्मानम् । सुमन्तुऽभिः । आ । ईम् । इषा । पृचीमहि ।
    आ । सत्याभिः । इन्द्रम् । द्युम्नहूतिऽभिः । यजत्रम् । द्युम्नहूतिऽभिः ॥

    vanéma ǀ tát ǀ hótrayā ǀ citántyā ǀ vanéma ǀ rayím ǀ rayi-vaḥ ǀ su-vī́ryam ǀ raṇvám ǀ sántam ǀ su-vī́ryam ǀ
    duḥ-mánmānam ǀ sumántu-bhiḥ ǀ ā́ ǀ īm ǀ iṣā́ ǀ pṛcīmahi ǀ
    ā́ ǀ satyā́bhiḥ ǀ índram ǀ dyumnáhūti-bhiḥ ǀ yájatram ǀ dyumnáhūti-bhiḥ ǁ

    vanema ǀ tat ǀ hotrayā ǀ citantyā ǀ vanema ǀ rayim ǀ rayi-vaḥ ǀ su-vīryam ǀ raṇvam ǀ santam ǀ su-vīryam ǀ
    duḥ-manmānam ǀ sumantu-bhiḥ ǀ ā ǀ īm ǀ iṣā ǀ pṛcīmahi ǀ
    ā ǀ satyābhiḥ ǀ indram ǀ dyumnahūti-bhiḥ ǀ yajatram ǀ dyumnahūti-bhiḥ ǁ

    1.129.7 Aṣṭaka 2.1.17.2Anuvāka 1.19.26

  8. Ṛk 8

    प्रप्रा॑ वो अ॒स्मे स्वय॑शोभिरू॒ती प॑रिव॒र्ग इंद्रो॑ दुर्मती॒नां दरी॑मंदुर्मती॒नां ।
    स्व॒यं सा रि॑ष॒यध्यै॒ या न॑ उपे॒षे अ॒त्रैः ।
    ह॒तेम॑स॒न्न व॑क्षति क्षि॒प्ता जू॒र्णिर्न व॑क्षति ॥

    प्र-प्रा वो अस्मे स्वयशोभिर् ऊती परिवर्ग इन्द्रो दुर्मतीनां दरीमन् दुर्मतीनाम् |
    स्वयं सा रिषयध्यै या न उपेषे अत्रैः |
    हतेम् असन् न वक्षति क्षिप्ता जूर्णिर् न वक्षति ||

    práprā vo asmé sváyaśobhirūtī́ parivargá índro durmatīnā́m dárīmandurmatīnā́m ǀ
    svayám sā́ riṣayádhyai yā́ na upeṣé atráiḥ ǀ
    hatémasanná vakṣati kṣiptā́ jūrṇírná vakṣati ǁ

    pra-prā vo asme svayaśobhir ūtī parivarga indro durmatīnāṃ darīman durmatīnām |
    svayaṃ sā riṣayadhyai yā na upeṣe atraiḥ |
    hatem asan na vakṣati kṣiptā jūrṇir na vakṣati ||

    प्रऽप्र॑ । वः॒ । अ॒स्मे इति॑ । स्वय॑शःऽभिः । ऊ॒ती । प॒रि॒ऽव॒र्गे । इन्द्रः॑ । दुः॒ऽम॒ती॒नाम् । दरी॑मन् । दुः॒ऽम॒ती॒नाम् ।
    स्व॒यम् । सा । रि॒ष॒यध्यै॑ । या । नः॒ । उ॒प॒ऽई॒षे । अ॒त्रैः ।
    ह॒ता । ई॒म् । अ॒स॒त् । न । व॒क्ष॒ति॒ । क्षि॒प्ता । जू॒र्णिः । न । व॒क्ष॒ति॒ ॥

    प्रऽप्र । वः । अस्मे इति । स्वयशःऽभिः । ऊती । परिऽवर्गे । इन्द्रः । दुःऽमतीनाम् । दरीमन् । दुःऽमतीनाम् ।
    स्वयम् । सा । रिषयध्यै । या । नः । उपऽईषे । अत्रैः ।
    हता । ईम् । असत् । न । वक्षति । क्षिप्ता । जूर्णिः । न । वक्षति ॥

    prá-pra ǀ vaḥ ǀ asmé íti ǀ sváyaśaḥ-bhiḥ ǀ ūtī́ ǀ pari-vargé ǀ índraḥ ǀ duḥ-matīnā́m ǀ dárīman ǀ duḥ-matīnā́m ǀ
    svayám ǀ sā́ ǀ riṣayádhyai ǀ yā́ ǀ naḥ ǀ upa-īṣé ǀ atráiḥ ǀ
    hatā́ ǀ īm ǀ asat ǀ ná ǀ vakṣati ǀ kṣiptā́ ǀ jūrṇíḥ ǀ ná ǀ vakṣati ǁ

    pra-pra ǀ vaḥ ǀ asme iti ǀ svayaśaḥ-bhiḥ ǀ ūtī ǀ pari-varge ǀ indraḥ ǀ duḥ-matīnām ǀ darīman ǀ duḥ-matīnām ǀ
    svayam ǀ sā ǀ riṣayadhyai ǀ yā ǀ naḥ ǀ upa-īṣe ǀ atraiḥ ǀ
    hatā ǀ īm ǀ asat ǀ na ǀ vakṣati ǀ kṣiptā ǀ jūrṇiḥ ǀ na ǀ vakṣati ǁ

    1.129.8 Aṣṭaka 2.1.17.3Anuvāka 1.19.27

  9. Ṛk 9

    त्वं न॑ इंद्र रा॒या परी॑णसा या॒हि प॒थाँ अ॑ने॒हसा॑ पु॒रो या॑ह्यर॒क्षसा॑ ।
    सच॑स्व नः परा॒क आ सच॑स्वास्तमी॒क आ ।
    पा॒हि नो॑ दू॒रादा॒राद॒भिष्टि॑भिः॒ सदा॑ पाह्य॒भिष्टि॑भिः ॥

    त्वं न इन्द्र राया परीणसा याहि पथां अनेहसा पुरो याह्य् अरक्षसा |
    सचस्व नः पराक आ सचस्वास्तमीक आ |
    पाहि नो दूराद् आराद् अभिष्टिभिः सदा पाह्य् अभिष्टिभिः ||

    tvám na indra rāyā́ párīṇasā yāhí pathā́m̐ anehásā puró yāhyarakṣásā ǀ
    sácasva naḥ parāká ā́ sácasvāstamīká ā́ ǀ
    pāhí no dūrā́dārā́dabhíṣṭibhiḥ sádā pāhyabhíṣṭibhiḥ ǁ

    tvaṃ na indra rāyā parīṇasā yāhi pathāṃ anehasā puro yāhy arakṣasā |
    sacasva naḥ parāka ā sacasvāstamīka ā |
    pāhi no dūrād ārād abhiṣṭibhiḥ sadā pāhy abhiṣṭibhiḥ ||

    त्वम् । नः॒ । इ॒न्द्र॒ । रा॒या । परी॑णसा । या॒हि । प॒था । अ॒ने॒हसा॑ । पु॒रः । या॒हि । अ॒र॒क्षसा॑ ।
    सच॑स्व । नः॒ । प॒रा॒के । आ । सच॑स्व । अ॒स्त॒म्ऽई॒के । आ ।
    पा॒हि । नः॒ । दू॒रात् । आ॒रात् । अ॒भिष्टि॑ऽभिः । सदा॑ । पा॒हि॒ । अ॒भिष्टि॑ऽभिः ॥

    त्वम् । नः । इन्द्र । राया । परीणसा । याहि । पथा । अनेहसा । पुरः । याहि । अरक्षसा ।
    सचस्व । नः । पराके । आ । सचस्व । अस्तम्ऽईके । आ ।
    पाहि । नः । दूरात् । आरात् । अभिष्टिऽभिः । सदा । पाहि । अभिष्टिऽभिः ॥

    tvám ǀ naḥ ǀ indra ǀ rāyā́ ǀ párīṇasā ǀ yāhí ǀ pathā́ ǀ anehásā ǀ puráḥ ǀ yāhí ǀ arakṣásā ǀ
    sácasva ǀ naḥ ǀ parāké ǀ ā́ ǀ sácasva ǀ astam-īké ǀ ā́ ǀ
    pāhí ǀ naḥ ǀ dūrā́t ǀ ārā́t ǀ abhíṣṭi-bhiḥ ǀ sádā ǀ pāhi ǀ abhíṣṭi-bhiḥ ǁ

    tvam ǀ naḥ ǀ indra ǀ rāyā ǀ parīṇasā ǀ yāhi ǀ pathā ǀ anehasā ǀ puraḥ ǀ yāhi ǀ arakṣasā ǀ
    sacasva ǀ naḥ ǀ parāke ǀ ā ǀ sacasva ǀ astam-īke ǀ ā ǀ
    pāhi ǀ naḥ ǀ dūrāt ǀ ārāt ǀ abhiṣṭi-bhiḥ ǀ sadā ǀ pāhi ǀ abhiṣṭi-bhiḥ ǁ

    1.129.9 Aṣṭaka 2.1.17.4Anuvāka 1.19.28

  10. Ṛk 10

    त्वं न॑ इंद्र रा॒या तरू॑षसो॒ग्रं चि॑त्त्वा महि॒मा स॑क्ष॒दव॑से म॒हे मि॒त्रं नाव॑से ।
    ओजि॑ष्ठ॒ त्रात॒रवि॑ता॒ रथं॒ कं चि॑दमर्त्य ।
    अ॒न्यम॒स्मद्रि॑रिषेः॒ कं चि॑दद्रिवो॒ रिरि॑क्षंतं चिदद्रिवः ॥

    त्वं न इन्द्र राया तरूषसोग्रं चित् त्वा महिमा सक्षद् अवसे महे मित्रं नावसे |
    ओजिष्ठ त्रातर् अविता रथं कं चिद् अमर्त्य |
    अन्यम् अस्मद् रिरिषेः कं चिद् अद्रिवो रिरिक्षन्तं चिद् अद्रिवः ||

    tvám na indra rāyā́ tárūṣasográm cittvā mahimā́ sakṣadávase mahé mitrám nā́vase ǀ
    ójiṣṭha trā́tarávitā rátham kám cidamartya ǀ
    anyámasmádririṣeḥ kám cidadrivo rírikṣantam cidadrivaḥ ǁ

    tvaṃ na indra rāyā tarūṣasograṃ cit tvā mahimā sakṣad avase mahe mitraṃ nāvase |
    ojiṣṭha trātar avitā rathaṃ kaṃ cid amartya |
    anyam asmad ririṣeḥ kaṃ cid adrivo ririkṣantaṃ cid adrivaḥ ||

    त्वम् । नः॒ । इ॒न्द्र॒ । रा॒या । तरु॑षसा । उ॒ग्रम् । चि॒त् । त्वा॒ । म॒हि॒मा । स॒क्ष॒त् । अव॑से । म॒हे । मि॒त्रम् । न । अव॑से ।
    ओजि॑ष्ठ । त्रातः॑ । अवि॑त॒रिति॑ । रथ॑म् । कम् । चि॒त् । अ॒म॒र्त्य॒ ।
    अ॒न्यम् । अ॒स्मत् । रि॒रि॒षेः॒ । कम् । चि॒त् । अ॒द्रि॒ऽवः॒ । रिरि॑क्षन्तम् । चि॒त् । अ॒द्रि॒ऽवः॒ ॥

    त्वम् । नः । इन्द्र । राया । तरुषसा । उग्रम् । चित् । त्वा । महिमा । सक्षत् । अवसे । महे । मित्रम् । न । अवसे ।
    ओजिष्ठ । त्रातः । अवितरिति । रथम् । कम् । चित् । अमर्त्य ।
    अन्यम् । अस्मत् । रिरिषेः । कम् । चित् । अद्रिऽवः । रिरिक्षन्तम् । चित् । अद्रिऽवः ॥

    tvám ǀ naḥ ǀ indra ǀ rāyā́ ǀ táruṣasā ǀ ugrám ǀ cit ǀ tvā ǀ mahimā́ ǀ sakṣat ǀ ávase ǀ mahé ǀ mitrám ǀ ná ǀ ávase ǀ
    ójiṣṭha ǀ trā́taḥ ǀ ávitaríti ǀ rátham ǀ kám ǀ cit ǀ amartya ǀ
    anyám ǀ asmát ǀ ririṣeḥ ǀ kám ǀ cit ǀ adri-vaḥ ǀ rírikṣantam ǀ cit ǀ adri-vaḥ ǁ

    tvam ǀ naḥ ǀ indra ǀ rāyā ǀ taruṣasā ǀ ugram ǀ cit ǀ tvā ǀ mahimā ǀ sakṣat ǀ avase ǀ mahe ǀ mitram ǀ na ǀ avase ǀ
    ojiṣṭha ǀ trātaḥ ǀ avitariti ǀ ratham ǀ kam ǀ cit ǀ amartya ǀ
    anyam ǀ asmat ǀ ririṣeḥ ǀ kam ǀ cit ǀ adri-vaḥ ǀ ririkṣantam ǀ cit ǀ adri-vaḥ ǁ

    1.129.10 Aṣṭaka 2.1.17.5Anuvāka 1.19.29

  11. Ṛk 11

    पा॒हि न॑ इंद्र सुष्टुत स्रि॒धो॑ऽवया॒ता सद॒मिद्दु॑र्मती॒नां दे॒वः संदु॑र्मती॒नां ।
    हं॒ता पा॒पस्य॑ र॒क्षस॑स्त्रा॒ता विप्र॑स्य॒ माव॑तः ।
    अधा॒ हि त्वा॑ जनि॒ता जीज॑नद्वसो रक्षो॒हणं॑ त्वा॒ जीज॑नद्वसो ॥

    पाहि न इन्द्र सुष्टुत स्रिधो ऽवयाता सदम् इद् दुर्मतीनां देवः सन् दुर्मतीनाम् |
    हन्ता पापस्य रक्षसस् त्राता विप्रस्य मावतः |
    अधा हि त्वा जनिता जीजनद् वसो रक्षोहणं त्वा जीजनद् वसो ||

    pāhí na indra suṣṭuta sridhó’vayātā́ sádamíddurmatīnā́m deváḥ sándurmatīnā́m ǀ
    hantā́ pāpásya rakṣásastrātā́ víprasya mā́vataḥ ǀ
    ádhā hí tvā janitā́ jī́janadvaso rakṣoháṇam tvā jī́janadvaso ǁ

    pāhi na indra suṣṭuta sridho 'vayātā sadam id durmatīnāṃ devaḥ san durmatīnām |
    hantā pāpasya rakṣasas trātā viprasya māvataḥ |
    adhā hi tvā janitā jījanad vaso rakṣohaṇaṃ tvā jījanad vaso ||

    पा॒हि । नः॒ । इ॒न्द्र॒ । सु॒ऽस्तु॒त॒ । स्रि॒धः । अ॒व॒ऽया॒ता । सद॑म् । इत् । दुः॒ऽम॒ती॒नाम् । दे॒वः । सन् । दुः॒ऽम॒ती॒नाम् ।
    ह॒न्ता । पा॒पस्य॑ । र॒क्षसः॑ । त्रा॒ता । विप्र॑स्य । माऽव॑तः ।
    अध॑ । हि । त्वा॒ । ज॒नि॒ता । जीज॑नत् । व॒सो॒ इति॑ । र॒क्षः॒ऽहन॑म् । त्वा॒ । जीज॑नत् । व॒सो॒ इति॑ ॥

    पाहि । नः । इन्द्र । सुऽस्तुत । स्रिधः । अवऽयाता । सदम् । इत् । दुःऽमतीनाम् । देवः । सन् । दुःऽमतीनाम् ।
    हन्ता । पापस्य । रक्षसः । त्राता । विप्रस्य । माऽवतः ।
    अध । हि । त्वा । जनिता । जीजनत् । वसो इति । रक्षःऽहनम् । त्वा । जीजनत् । वसो इति ॥

    pāhí ǀ naḥ ǀ indra ǀ su-stuta ǀ sridháḥ ǀ ava-yātā́ ǀ sádam ǀ ít ǀ duḥ-matīnā́m ǀ deváḥ ǀ sán ǀ duḥ-matīnā́m ǀ
    hantā́ ǀ pāpásya ǀ rakṣásaḥ ǀ trātā́ ǀ víprasya ǀ mā́-vataḥ ǀ
    ádha ǀ hí ǀ tvā ǀ janitā́ ǀ jī́janat ǀ vaso íti ǀ rakṣaḥ-hánam ǀ tvā ǀ jī́janat ǀ vaso íti ǁ

    pāhi ǀ naḥ ǀ indra ǀ su-stuta ǀ sridhaḥ ǀ ava-yātā ǀ sadam ǀ it ǀ duḥ-matīnām ǀ devaḥ ǀ san ǀ duḥ-matīnām ǀ
    hantā ǀ pāpasya ǀ rakṣasaḥ ǀ trātā ǀ viprasya ǀ mā-vataḥ ǀ
    adha ǀ hi ǀ tvā ǀ janitā ǀ jījanat ǀ vaso iti ǀ rakṣaḥ-hanam ǀ tvā ǀ jījanat ǀ vaso iti ǁ

    1.129.11 Aṣṭaka 2.1.17.6Anuvāka 1.19.30

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.129 · Indra

Interpretations

Ralph T. H. Griffith

Ṛk 1

THE car which Indra, thou, for service of the Gods though it be far away, O swift One, bringest near, which, Blameless One, thou bringest near, Place swiftly nigh us for our help: be it thy will that it be strong. Blameless and active, hear this speech of orderers, this speech of us like orderers.

Ṛk 2

Hear, Indra, thou whom men in every fight must call to show thy strength, for cry of battle with the men, with men of war for victory. He who with heroes wins the light, who with the singers gains the prize, Him the rich seek to gain even as a swift strong steed, even as a courser fleet and strong.

Ṛk 3

Thou, Mighty, pourest forth the hide that holds the rain, thou keepest far away, Hero, the wicked man, thou shuttest out the wicked man. Indra, to thee I sing, to Dyaus, to Rudra glorious in himself, To Mitra, Varuṇa I sing a far-famed hymn to the kind God a far-famed hymn.

Ṛk 4

We wish our Indra here that he may further you, the Friend, beloved of all, the very strong ally, in wars the very strong ally In all encounters strengthen thou our prayer to be a help to us. No enemy—whom thou smitest down—subdueth thee, no enemy, whom thou smitest down.

Ṛk 5

Bow down the overweening pride of every foe with succour like to kindling-wood in fiercest flame, with mighty succour, Mighty One. Guide us, thou Hero, as of old, so art thou counted blameless still. Thou drivest, as a Priest, all sins of man away, as Priest, in person, seeking us.

Ṛk 6

This may I utter to the present Soma-drop, which, meet to be invoked, with power, awakes the prayer, awakes the demon-slaying prayer. May he himself with darts of death drive far from us the scorner's hate. Far let him flee away who speaketh wickedness and vanish like a mote of dust.

Ṛk 7

By thoughtful invocation this may we obtain, obtain great wealth, O Wealthy One, with Hero sons, wealth that is sweet with hero sons. Him who is wroth we pacify with sacred food and eulogies, Indra the Holy with our calls inspired and true, the Holy One with calls inspired.

Ṛk 8

On, for your good and ours, come Indra with the aid of his own lordliness to drive the wicked hence, to rend the evil-hearted ones! The weapon which devouring fiends cast at us shall destroy themselves. Struck down, it shall not reach the mark; hurled forth, the fire-brand shall not strike.

Ṛk 9

With riches in abundance, Indra, come to us, come by an unobstructed path, come by a path from demons free. Be with us when we stray afar, be with us when our home is nigh. Protect us with thy help both near and far away: protect us ever with thy help.

Ṛk 10

Thou art our own, O Indra, with victorious wealth: let might accompany thee, the Strong, to give us aid, like Mitra, to give mighty aid. O strongest saviour, helper thou, Immortal! of each warrior's car. Hurt thou another and not us, O Thunder-armed, one who would hurt, O Thunder-armed!