Ṛgveda · Maṇḍala 1 · Sūkta 129
Ṛk 1.129.3
Saṃhitā
द॒स्मो हि ष्मा॒ वृष॑णं॒ पिन्व॑सि॒ त्वचं॒ कं चि॑द्यावीर॒ररुं॑ शूर॒ मर्त्यं॑ परिवृ॒णक्षि॒ मर्त्यं॑ ।
इंद्रो॒त तुभ्यं॒ तद्दि॒वे तद्रु॒द्राय॒ स्वय॑शसे ।
मि॒त्राय॑ वोचं॒ वरु॑णाय स॒प्रथः॑ सुमृळी॒काय॑ स॒प्रथः॑ ॥
दस्मो हि ष्मा वृषणम् पिन्वसि त्वचं कं चिद् यावीर् अररुं शूर मर्त्यम् परिवृणक्षि मर्त्यम् |
इन्द्रोत तुभ्यं तद् दिवे तद् रुद्राय स्वयशसे |
मित्राय वोचं वरुणाय सप्रथः सुमृऌईकाय सप्रथः ||
dasmó hí ṣmā vṛ́ṣaṇam pínvasi tvácam kám cidyāvīrarárum śūra mártyam parivṛṇákṣi mártyam ǀ
índrotá túbhyam táddivé tádrudrā́ya sváyaśase ǀ
mitrā́ya vocam váruṇāya sapráthaḥ sumṛḷīkā́ya sapráthaḥ ǁ
dasmo hi ṣmā vṛṣaṇam pinvasi tvacaṃ kaṃ cid yāvīr araruṃ śūra martyam parivṛṇakṣi martyam |
indrota tubhyaṃ tad dive tad rudrāya svayaśase |
mitrāya vocaṃ varuṇāya saprathaḥ sumṛḷīkāya saprathaḥ ||
Padapāṭha
द॒स्मः । हि । स्म॒ । वृष॑णम् । पिन्व॑सि । त्वच॑म् । कम् । चि॒त् । या॒वीः॒ । अ॒ररु॑म् । शू॒र॒ । मर्त्य॑म् । प॒रि॒ऽवृ॒णक्षि॑ । मर्त्य॑म् ।
इन्द्र॑ । उ॒त । तुभ्य॑म् । तत् । दि॒वे । तत् । रु॒द्राय॑ । स्वऽय॑शसे ।
मि॒त्राय॑ । वो॒च॒म् । वरु॑णाय । स॒ऽप्रथः॑ । सु॒ऽमृ॒ळी॒काय॑ । स॒ऽप्रथः॑ ॥
दस्मः । हि । स्म । वृषणम् । पिन्वसि । त्वचम् । कम् । चित् । यावीः । अररुम् । शूर । मर्त्यम् । परिऽवृणक्षि । मर्त्यम् ।
इन्द्र । उत । तुभ्यम् । तत् । दिवे । तत् । रुद्राय । स्वऽयशसे ।
मित्राय । वोचम् । वरुणाय । सऽप्रथः । सुऽमृळीकाय । सऽप्रथः ॥
dasmáḥ ǀ hí ǀ sma ǀ vṛ́ṣaṇam ǀ pínvasi ǀ tvácam ǀ kám ǀ cit ǀ yāvīḥ ǀ arárum ǀ śūra ǀ mártyam ǀ pari-vṛṇákṣi ǀ mártyam ǀ
índra ǀ utá ǀ túbhyam ǀ tát ǀ divé ǀ tát ǀ rudrā́ya ǀ svá-yaśase ǀ
mitrā́ya ǀ vocam ǀ váruṇāya ǀ sa-práthaḥ ǀ su-mṛḷīkā́ya ǀ sa-práthaḥ ǁ
dasmaḥ ǀ hi ǀ sma ǀ vṛṣaṇam ǀ pinvasi ǀ tvacam ǀ kam ǀ cit ǀ yāvīḥ ǀ ararum ǀ śūra ǀ martyam ǀ pari-vṛṇakṣi ǀ martyam ǀ
indra ǀ uta ǀ tubhyam ǀ tat ǀ dive ǀ tat ǀ rudrāya ǀ sva-yaśase ǀ
mitrāya ǀ vocam ǀ varuṇāya ǀ sa-prathaḥ ǀ su-mṛḷīkāya ǀ sa-prathaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.129.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.1.16.03
- Maṇḍala · Anuvāka · Ṛk
- 1.19.022
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Parucchepa Daivodāsi
- Chandas छन्दस्
- Atyaṣṭi, Atiśakvarī, Aṣṭi
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.