Ṛgveda · Maṇḍala 1 · Sūkta 129
Ṛk 1.129.1
Saṃhitā
यं त्वं रथ॑मिंद्र मे॒धसा॑तयेऽपा॒का संत॑मिषिर प्र॒णय॑सि॒ प्रान॑वद्य॒ नय॑सि ।
स॒द्यश्चि॒त्तम॒भिष्ट॑ये॒ करो॒ वश॑श्च वा॒जिनं॑ ।
सास्माक॑मनवद्य तूतुजान वे॒धसा॑मि॒मां वाचं॒ न वे॒धसां॑ ॥
यं त्वं रथम् इन्द्र मेधसातये ऽपाका सन्तम् इषिर प्रणयसि प्रानवद्य नयसि |
सद्यश् चित् तम् अभिष्टये करो वशश् च वाजिनम् |
सास्माकम् अनवद्य तूतुजान वेधसाम् इमां वाचं न वेधसाम् ||
yám tvám ráthamindra medhásātaye’pākā́ sántamiṣira praṇáyasi prā́navadya náyasi ǀ
sadyáścittámabhíṣṭaye káro váśaśca vājínam ǀ
sā́smā́kamanavadya tūtujāna vedhásāmimā́m vā́cam ná vedhásām ǁ
yaṃ tvaṃ ratham indra medhasātaye 'pākā santam iṣira praṇayasi prānavadya nayasi |
sadyaś cit tam abhiṣṭaye karo vaśaś ca vājinam |
sāsmākam anavadya tūtujāna vedhasām imāṃ vācaṃ na vedhasām ||
Padapāṭha
यम् । त्वम् । रथ॑म् । इ॒न्द्र॒ । मे॒धऽसा॑तये । अ॒पा॒का । सन्त॑म् । इ॒षि॒र॒ । प्र॒ऽनय॑सि । प्र । अ॒न॒व॒द्य॒ । नय॑सि ।
स॒द्यः । चि॒त् । तम् । अ॒भिष्ट॑ये । करः॑ । वशः॑ । च॒ । वा॒जिन॑म् ।
सः । अ॒स्माक॑म् । अ॒न॒व॒द्य॒ । तू॒तु॒जा॒न॒ । वे॒धसा॑म् । इ॒माम् । वाच॑म् । न । वे॒धसा॑म् ॥
यम् । त्वम् । रथम् । इन्द्र । मेधऽसातये । अपाका । सन्तम् । इषिर । प्रऽनयसि । प्र । अनवद्य । नयसि ।
सद्यः । चित् । तम् । अभिष्टये । करः । वशः । च । वाजिनम् ।
सः । अस्माकम् । अनवद्य । तूतुजान । वेधसाम् । इमाम् । वाचम् । न । वेधसाम् ॥
yám ǀ tvám ǀ rátham ǀ indra ǀ medhá-sātaye ǀ apākā́ ǀ sántam ǀ iṣira ǀ pra-náyasi ǀ prá ǀ anavadya ǀ náyasi ǀ
sadyáḥ ǀ cit ǀ tám ǀ abhíṣṭaye ǀ káraḥ ǀ váśaḥ ǀ ca ǀ vājínam ǀ
sáḥ ǀ asmā́kam ǀ anavadya ǀ tūtujāna ǀ vedhásām ǀ imā́m ǀ vā́cam ǀ ná ǀ vedhásām ǁ
yam ǀ tvam ǀ ratham ǀ indra ǀ medha-sātaye ǀ apākā ǀ santam ǀ iṣira ǀ pra-nayasi ǀ pra ǀ anavadya ǀ nayasi ǀ
sadyaḥ ǀ cit ǀ tam ǀ abhiṣṭaye ǀ karaḥ ǀ vaśaḥ ǀ ca ǀ vājinam ǀ
saḥ ǀ asmākam ǀ anavadya ǀ tūtujāna ǀ vedhasām ǀ imām ǀ vācam ǀ na ǀ vedhasām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.129.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.1.16.01
- Maṇḍala · Anuvāka · Ṛk
- 1.19.020
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Parucchepa Daivodāsi
- Chandas छन्दस्
- Atyaṣṭi, Atiśakvarī, Aṣṭi
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.