Ṛgveda · Maṇḍala 1 · Sūkta 129
Ṛk 1.129.2
Saṃhitā
स श्रु॑धि॒ यः स्मा॒ पृत॑नासु॒ कासु॑ चिद्द॒क्षाय्य॑ इंद्र॒ भर॑हूतये॒ नृभि॒रसि॒ प्रतू॑र्तये॒ नृभिः॑ ।
यः शूरैः॒ स्वः१॒॑ सनि॑ता॒ यो विप्रै॒र्वाजं॒ तरु॑ता ।
तमी॑शा॒नास॑ इरधंत वा॒जिनं॑ पृ॒क्षमत्यं॒ न वा॒जिनं॑ ॥
स श्रुधि यः स्मा पृतनासु कासु चिद् दक्षाय्य इन्द्र भरहूतये नृभिर् असि प्रतूर्तये नृभिः |
यः शूरैः स्वः सनिता यो विप्रैर् वाजं तरुता |
तम् ईशानास इरधन्त वाजिनम् पृक्षम् अत्यं न वाजिनम् ||
sá śrudhi yáḥ smā pṛ́tanāsu kā́su ciddakṣā́yya indra bhárahūtaye nṛ́bhirási prátūrtaye nṛ́bhiḥ ǀ
yáḥ śū́raiḥ sváḥ sánitā yó víprairvā́jam tárutā ǀ
támīśānā́sa iradhanta vājínam pṛkṣámátyam ná vājínam ǁ
sa śrudhi yaḥ smā pṛtanāsu kāsu cid dakṣāyya indra bharahūtaye nṛbhir asi pratūrtaye nṛbhiḥ |
yaḥ śūraiḥ svaḥ sanitā yo viprair vājaṃ tarutā |
tam īśānāsa iradhanta vājinam pṛkṣam atyaṃ na vājinam ||
Padapāṭha
सः । श्रु॒धि॒ । यः । स्म॒ । पृत॑नासु । कासु॑ । चि॒त् । द॒क्षाय्यः॑ । इ॒न्द्र॒ । भर॑ऽहूतये । नृऽभिः॑ । असि॑ । प्रऽतू॑र्तये । नृऽभिः॑ ।
यः । शूरैः॑ । स्व१॒॑रिति॑ स्वः॑ । सनि॑ता । यः । विप्रैः॑ । वाज॑म् । तरु॑ता ।
तम् । ई॒शा॒नासः॑ । इ॒र॒ध॒न्त॒ । वा॒जिन॑म् । पृ॒क्षम् । अत्य॑म् । न । वा॒जिन॑म् ॥
सः । श्रुधि । यः । स्म । पृतनासु । कासु । चित् । दक्षाय्यः । इन्द्र । भरऽहूतये । नृऽभिः । असि । प्रऽतूर्तये । नृऽभिः ।
यः । शूरैः । स्वरिति स्वः । सनिता । यः । विप्रैः । वाजम् । तरुता ।
तम् । ईशानासः । इरधन्त । वाजिनम् । पृक्षम् । अत्यम् । न । वाजिनम् ॥
sáḥ ǀ śrudhi ǀ yáḥ ǀ sma ǀ pṛ́tanāsu ǀ kā́su ǀ cit ǀ dakṣā́yyaḥ ǀ indra ǀ bhára-hūtaye ǀ nṛ́-bhiḥ ǀ ási ǀ prá-tūrtaye ǀ nṛ́-bhiḥ ǀ
yáḥ ǀ śū́raiḥ ǀ sváríti sváḥ ǀ sánitā ǀ yáḥ ǀ vípraiḥ ǀ vā́jam ǀ tárutā ǀ
tám ǀ īśānā́saḥ ǀ iradhanta ǀ vājínam ǀ pṛkṣám ǀ átyam ǀ ná ǀ vājínam ǁ
saḥ ǀ śrudhi ǀ yaḥ ǀ sma ǀ pṛtanāsu ǀ kāsu ǀ cit ǀ dakṣāyyaḥ ǀ indra ǀ bhara-hūtaye ǀ nṛ-bhiḥ ǀ asi ǀ pra-tūrtaye ǀ nṛ-bhiḥ ǀ
yaḥ ǀ śūraiḥ ǀ svariti svaḥ ǀ sanitā ǀ yaḥ ǀ vipraiḥ ǀ vājam ǀ tarutā ǀ
tam ǀ īśānāsaḥ ǀ iradhanta ǀ vājinam ǀ pṛkṣam ǀ atyam ǀ na ǀ vājinam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.129.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.1.16.02
- Maṇḍala · Anuvāka · Ṛk
- 1.19.021
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Parucchepa Daivodāsi
- Chandas छन्दस्
- Atyaṣṭi, Atiśakvarī, Aṣṭi
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.