Ṛgveda · Maṇḍala 1 · Sūkta 129
Ṛk 1.129.4
Saṃhitā
अ॒स्माकं॑ व॒ इंद्र॑मुश्मसी॒ष्टये॒ सखा॑यं वि॒श्वायुं॑ प्रा॒सहं॒ युजं॒ वाजे॑षु प्रा॒सहं॒ युजं॑ ।
अ॒स्माकं॒ ब्रह्मो॒तयेऽवा॑ पृ॒त्सुषु॒ कासु॑ चित् ।
न॒हि त्वा॒ शत्रुः॒ स्तर॑ते स्तृ॒णोषि॒ यं विश्वं॒ शत्रुं॑ स्तृ॒णोषि॒ यं ॥
अस्माकं व इन्द्रम् उश्मसीष्टये सखायं विश्वायुम् प्रासहं युजं वाजेषु प्रासहं युजम् |
अस्माकम् ब्रह्मोतये ऽवा पृत्सुषु कासु चित् |
नहि त्वा शत्रु स्तरते स्तृणोषि यं विश्वं शत्रुं स्तृणोषि यम् ||
asmā́kam va índramuśmasīṣṭáye sákhāyam viśvā́yum prāsáham yújam vā́jeṣu prāsáham yújam ǀ
asmā́kam bráhmotáyé’vā pṛtsúṣu kā́su cit ǀ
nahí tvā śátruḥ stárate stṛṇóṣi yám víśvam śátrum stṛṇóṣi yám ǁ
asmākaṃ va indram uśmasīṣṭaye sakhāyaṃ viśvāyum prāsahaṃ yujaṃ vājeṣu prāsahaṃ yujam |
asmākam brahmotaye 'vā pṛtsuṣu kāsu cit |
nahi tvā śatru starate stṛṇoṣi yaṃ viśvaṃ śatruṃ stṛṇoṣi yam ||
Padapāṭha
अ॒स्माक॑म् । वः॒ । इन्द्र॑म् । उ॒श्म॒सि॒ । इ॒ष्टये॑ । सखा॑यम् । वि॒श्वऽआ॑युम् । प्र॒ऽसह॑म् । युज॑म् । वाजे॑षु । प्र॒ऽसह॑म् । युज॑म् ।
अ॒स्माक॑म् । ब्रह्म॑ । ऊ॒तये॑ । अव॑ । पृ॒त्सुषु॑ । कासु॑ । चि॒त् ।
न॒हि । त्वा॒ । शत्रुः॑ । स्तर॑ते । स्तृ॒णोषि॑ । यम् । विश्व॑म् । शत्रु॑म् । स्तृ॒णोषि॑ । यम् ॥
अस्माकम् । वः । इन्द्रम् । उश्मसि । इष्टये । सखायम् । विश्वऽआयुम् । प्रऽसहम् । युजम् । वाजेषु । प्रऽसहम् । युजम् ।
अस्माकम् । ब्रह्म । ऊतये । अव । पृत्सुषु । कासु । चित् ।
नहि । त्वा । शत्रुः । स्तरते । स्तृणोषि । यम् । विश्वम् । शत्रुम् । स्तृणोषि । यम् ॥
asmā́kam ǀ vaḥ ǀ índram ǀ uśmasi ǀ iṣṭáye ǀ sákhāyam ǀ viśvá-āyum ǀ pra-sáham ǀ yújam ǀ vā́jeṣu ǀ pra-sáham ǀ yújam ǀ
asmā́kam ǀ bráhma ǀ ūtáye ǀ áva ǀ pṛtsúṣu ǀ kā́su ǀ cit ǀ
nahí ǀ tvā ǀ śátruḥ ǀ stárate ǀ stṛṇóṣi ǀ yám ǀ víśvam ǀ śátrum ǀ stṛṇóṣi ǀ yám ǁ
asmākam ǀ vaḥ ǀ indram ǀ uśmasi ǀ iṣṭaye ǀ sakhāyam ǀ viśva-āyum ǀ pra-saham ǀ yujam ǀ vājeṣu ǀ pra-saham ǀ yujam ǀ
asmākam ǀ brahma ǀ ūtaye ǀ ava ǀ pṛtsuṣu ǀ kāsu ǀ cit ǀ
nahi ǀ tvā ǀ śatruḥ ǀ starate ǀ stṛṇoṣi ǀ yam ǀ viśvam ǀ śatrum ǀ stṛṇoṣi ǀ yam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.129.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.1.16.04
- Maṇḍala · Anuvāka · Ṛk
- 1.19.023
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Parucchepa Daivodāsi
- Chandas छन्दस्
- Atyaṣṭi, Atiśakvarī, Aṣṭi
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.