Ṛgveda · Maṇḍala 1 · Sūkta 129

Ṛk 1.129.11

Indra · Parucchepa Daivodāsi

The whole sūkta Link

Saṃhitā

पा॒हि न॑ इंद्र सुष्टुत स्रि॒धो॑ऽवया॒ता सद॒मिद्दु॑र्मती॒नां दे॒वः संदु॑र्मती॒नां ।
हं॒ता पा॒पस्य॑ र॒क्षस॑स्त्रा॒ता विप्र॑स्य॒ माव॑तः ।
अधा॒ हि त्वा॑ जनि॒ता जीज॑नद्वसो रक्षो॒हणं॑ त्वा॒ जीज॑नद्वसो ॥

पाहि न इन्द्र सुष्टुत स्रिधो ऽवयाता सदम् इद् दुर्मतीनां देवः सन् दुर्मतीनाम् |
हन्ता पापस्य रक्षसस् त्राता विप्रस्य मावतः |
अधा हि त्वा जनिता जीजनद् वसो रक्षोहणं त्वा जीजनद् वसो ||

pāhí na indra suṣṭuta sridhó’vayātā́ sádamíddurmatīnā́m deváḥ sándurmatīnā́m ǀ
hantā́ pāpásya rakṣásastrātā́ víprasya mā́vataḥ ǀ
ádhā hí tvā janitā́ jī́janadvaso rakṣoháṇam tvā jī́janadvaso ǁ

pāhi na indra suṣṭuta sridho 'vayātā sadam id durmatīnāṃ devaḥ san durmatīnām |
hantā pāpasya rakṣasas trātā viprasya māvataḥ |
adhā hi tvā janitā jījanad vaso rakṣohaṇaṃ tvā jījanad vaso ||

Padapāṭha

पा॒हि । नः॒ । इ॒न्द्र॒ । सु॒ऽस्तु॒त॒ । स्रि॒धः । अ॒व॒ऽया॒ता । सद॑म् । इत् । दुः॒ऽम॒ती॒नाम् । दे॒वः । सन् । दुः॒ऽम॒ती॒नाम् ।
ह॒न्ता । पा॒पस्य॑ । र॒क्षसः॑ । त्रा॒ता । विप्र॑स्य । माऽव॑तः ।
अध॑ । हि । त्वा॒ । ज॒नि॒ता । जीज॑नत् । व॒सो॒ इति॑ । र॒क्षः॒ऽहन॑म् । त्वा॒ । जीज॑नत् । व॒सो॒ इति॑ ॥

पाहि । नः । इन्द्र । सुऽस्तुत । स्रिधः । अवऽयाता । सदम् । इत् । दुःऽमतीनाम् । देवः । सन् । दुःऽमतीनाम् ।
हन्ता । पापस्य । रक्षसः । त्राता । विप्रस्य । माऽवतः ।
अध । हि । त्वा । जनिता । जीजनत् । वसो इति । रक्षःऽहनम् । त्वा । जीजनत् । वसो इति ॥

pāhí ǀ naḥ ǀ indra ǀ su-stuta ǀ sridháḥ ǀ ava-yātā́ ǀ sádam ǀ ít ǀ duḥ-matīnā́m ǀ deváḥ ǀ sán ǀ duḥ-matīnā́m ǀ
hantā́ ǀ pāpásya ǀ rakṣásaḥ ǀ trātā́ ǀ víprasya ǀ mā́-vataḥ ǀ
ádha ǀ hí ǀ tvā ǀ janitā́ ǀ jī́janat ǀ vaso íti ǀ rakṣaḥ-hánam ǀ tvā ǀ jī́janat ǀ vaso íti ǁ

pāhi ǀ naḥ ǀ indra ǀ su-stuta ǀ sridhaḥ ǀ ava-yātā ǀ sadam ǀ it ǀ duḥ-matīnām ǀ devaḥ ǀ san ǀ duḥ-matīnām ǀ
hantā ǀ pāpasya ǀ rakṣasaḥ ǀ trātā ǀ viprasya ǀ mā-vataḥ ǀ
adha ǀ hi ǀ tvā ǀ janitā ǀ jījanat ǀ vaso iti ǀ rakṣaḥ-hanam ǀ tvā ǀ jījanat ǀ vaso iti ǁ

References

Maṇḍala · Sūkta · Ṛk
01.129.11
Aṣṭaka · Adhyāya · Varga · Ṛk
2.1.17.06
Maṇḍala · Anuvāka · Ṛk
1.19.030
Devatā देवता
Indra
Ṛṣi ऋषि
Parucchepa Daivodāsi
Chandas छन्दस्
Atyaṣṭi, Atiśakvarī, Aṣṭi
Svara स्वरः
मध्यमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.129.11

Interpretations

Sāyaṇa

एन्द्रयाह्युपनइतिदशर्चंचतुर्थंसूक्तम् पारुच्छेपमैन्द्रं अन्त्यासनोनव्येभिरित्येषात्रिष्टुप् शिष्टाअत्य- ष्टयः अत्रत्रिष्टुबन्तपरिभाषानाश्रीयते सर्वमात्यष्टमितिविशेषेणप्रतिज्ञातत्वात् एन्द्रयाहिदशान्त्यात्रि- ष्टुबित्यनुक्रमणिका पृष्ठ्यषडहस्यषष्ठेहनिनिष्केवल्यमेतत्सूक्तं षष्ठस्येतिखण्डेसूत्रितम्—एन्द्रयाह्यु- पनः प्रघान्वस्येति महाव्रतेमाध्यन्दिनसवने ब्राह्मणाच्छंसिनोऽनुरूपतृचे प्रथमाएन्द्रयाहीत्येषा महा- व्रतस्यपञ्चविंशतिमितिखण्डेशौनकेनसूत्रितम्-एन्द्रयाह्युपनःपरावतइन्द्रायाहिद्यौरसुरोअनम्नतेति ।