Sūkta 83
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gotama Rāhūgaṇa
- Chandas छन्दस्
- Jagatī
Metres by ṛk
1st set of styles nicṛjjagatī (1, 3-5); jagatī (2); triṣṭup (6)
2nd set of styles jagatī
-
Ṛk 1
अश्वा॑वति प्रथ॒मो गोषु॑ गच्छति सुप्रा॒वीरिं॑द्र॒ मर्त्य॒स्तवो॒तिभिः॑ ।
तमित्पृ॑णक्षि॒ वसु॑ना॒ भवी॑यसा॒ सिंधु॒मापो॒ यथा॒भितो॒ विचे॑तसः ॥अश्वावति प्रथमो गोषु गच्छति सुप्रावीर् इन्द्र मर्त्यस् तवोतिभिः |
तम् इत् पृणक्षि वसुना भवीयसा सिन्धुम् आपो यथाभितो विचेतसः ||áśvāvati prathamó góṣu gacchati suprāvī́rindra mártyastávotíbhiḥ ǀ
támítpṛṇakṣi vásunā bhávīyasā síndhumā́po yáthābhíto vícetasaḥ ǁaśvāvati prathamo goṣu gacchati suprāvīr indra martyas tavotibhiḥ |
tam it pṛṇakṣi vasunā bhavīyasā sindhum āpo yathābhito vicetasaḥ ||अश्व॑ऽवति । प्र॒थ॒मः । गोषु॑ । ग॒च्छ॒ति॒ । सु॒प्र॒ऽअ॒वीः । इ॒न्द्र॒ । मर्त्यः॑ । तव॑ । ऊ॒तिऽभिः॑ ।
तम् । इत् । पृ॒ण॒क्षि॒ । वसु॑ना । भवी॑यसा । सिन्धु॑म् । आपः॑ । यथा॑ । अ॒भितः॑ । विऽचे॑तसः ॥अश्वऽवति । प्रथमः । गोषु । गच्छति । सुप्रऽअवीः । इन्द्र । मर्त्यः । तव । ऊतिऽभिः ।
तम् । इत् । पृणक्षि । वसुना । भवीयसा । सिन्धुम् । आपः । यथा । अभितः । विऽचेतसः ॥áśva-vati ǀ prathamáḥ ǀ góṣu ǀ gacchati ǀ supra-avī́ḥ ǀ indra ǀ mártyaḥ ǀ táva ǀ ūtí-bhiḥ ǀ
tám ǀ ít ǀ pṛṇakṣi ǀ vásunā ǀ bhávīyasā ǀ síndhum ǀ ā́paḥ ǀ yáthā ǀ abhítaḥ ǀ ví-cetasaḥ ǁaśva-vati ǀ prathamaḥ ǀ goṣu ǀ gacchati ǀ supra-avīḥ ǀ indra ǀ martyaḥ ǀ tava ǀ ūti-bhiḥ ǀ
tam ǀ it ǀ pṛṇakṣi ǀ vasunā ǀ bhavīyasā ǀ sindhum ǀ āpaḥ ǀ yathā ǀ abhitaḥ ǀ vi-cetasaḥ ǁ1.83.1 Aṣṭaka 1.6.4.0
-
Ṛk 2
आपो॒ न दे॒वीरुप॑ यंति हो॒त्रिय॑म॒वः प॑श्यंति॒ वित॑तं॒ यथा॒ रजः॑ ।
प्रा॒चैर्दे॒वासः॒ प्र ण॑यंति देव॒युं ब्र॑ह्म॒प्रियं॑ जोषयंते व॒रा इ॑व ॥आपो न देवीर् उप यन्ति होत्रियम् अवः पश्यन्ति विततं यथा रजः |
प्राचैर् देवासः प्र णयन्ति देवयुम् ब्रह्मप्रियं जोषयन्ते वरा इव ||ā́po ná devī́rúpa yanti hotríyamaváḥ paśyanti vítatam yáthā rájaḥ ǀ
prācáirdevā́saḥ prá ṇayanti devayúm brahmapríyam joṣayante varā́ iva ǁāpo na devīr upa yanti hotriyam avaḥ paśyanti vitataṃ yathā rajaḥ |
prācair devāsaḥ pra ṇayanti devayum brahmapriyaṃ joṣayante varā iva ||आपः॑ । न । दे॒वीः । उप॑ । य॒न्ति॒ । हो॒त्रिय॑म् । अ॒वः । प॒श्य॒न्ति॒ । विऽत॑तम् । यथा॑ । रजः॑ ।
प्रा॒चैः । दे॒वासः॑ । प्र । न॒य॒न्ति॒ । दे॒व॒ऽयुम् । ब्र॒ह्म॒ऽप्रिय॑म् । जो॒ष॒य॒न्ते॒ । व॒राःऽइ॑व ॥आपः । न । देवीः । उप । यन्ति । होत्रियम् । अवः । पश्यन्ति । विऽततम् । यथा । रजः ।
प्राचैः । देवासः । प्र । नयन्ति । देवऽयुम् । ब्रह्मऽप्रियम् । जोषयन्ते । वराःऽइव ॥ā́paḥ ǀ ná ǀ devī́ḥ ǀ úpa ǀ yanti ǀ hotríyam ǀ aváḥ ǀ paśyanti ǀ ví-tatam ǀ yáthā ǀ rájaḥ ǀ
prācáiḥ ǀ devā́saḥ ǀ prá ǀ nayanti ǀ deva-yúm ǀ brahma-príyam ǀ joṣayante ǀ varā́ḥ-iva ǁāpaḥ ǀ na ǀ devīḥ ǀ upa ǀ yanti ǀ hotriyam ǀ avaḥ ǀ paśyanti ǀ vi-tatam ǀ yathā ǀ rajaḥ ǀ
prācaiḥ ǀ devāsaḥ ǀ pra ǀ nayanti ǀ deva-yum ǀ brahma-priyam ǀ joṣayante ǀ varāḥ-iva ǁ1.83.2 Aṣṭaka 1.6.4.0
-
Ṛk 3
अधि॒ द्वयो॑रदधा उ॒क्थ्यं१॒॑ वचो॑ य॒तस्रु॑चा मिथु॒ना या स॑प॒र्यतः॑ ।
असं॑यत्तो व्र॒ते ते॑ क्षेति॒ पुष्य॑ति भ॒द्रा श॒क्तिर्यज॑मानाय सुन्व॒ते ॥अधि द्वयोर् अदधा उक्थ्यं वचो यतस्रुचा मिथुना या सपर्यतः |
असंयत्तो व्रते ते क्षेति पुष्यति भद्रा शक्तिर् यजमानाय सुन्वते ||ádhi dváyoradadhā ukthyám váco yatásrucā mithunā́ yā́ saparyátaḥ ǀ
ásaṃyatto vraté te kṣeti púṣyati bhadrā́ śaktíryájamānāya sunvaté ǁadhi dvayor adadhā ukthyaṃ vaco yatasrucā mithunā yā saparyataḥ |
asaṃyatto vrate te kṣeti puṣyati bhadrā śaktir yajamānāya sunvate ||अधि॑ । द्वयोः॑ । अ॒द॒धाः॒ । उ॒क्थ्य॑म् । वचः॑ । य॒तऽस्रु॑चा । मि॒थु॒ना । या । स॒प॒र्यतः॑ ।
अस॑म्ऽयत्तः । व्र॒ते । ते॒ । क्षे॒ति॒ । पुष्य॑ति । भ॒द्रा । श॒क्तिः । यज॑मानाय । सु॒न्व॒ते ॥अधि । द्वयोः । अदधाः । उक्थ्यम् । वचः । यतऽस्रुचा । मिथुना । या । सपर्यतः ।
असम्ऽयत्तः । व्रते । ते । क्षेति । पुष्यति । भद्रा । शक्तिः । यजमानाय । सुन्वते ॥ádhi ǀ dváyoḥ ǀ adadhāḥ ǀ ukthyám ǀ vácaḥ ǀ yatá-srucā ǀ mithunā́ ǀ yā́ ǀ saparyátaḥ ǀ
ásam-yattaḥ ǀ vraté ǀ te ǀ kṣeti ǀ púṣyati ǀ bhadrā́ ǀ śaktíḥ ǀ yájamānāya ǀ sunvaté ǁadhi ǀ dvayoḥ ǀ adadhāḥ ǀ ukthyam ǀ vacaḥ ǀ yata-srucā ǀ mithunā ǀ yā ǀ saparyataḥ ǀ
asam-yattaḥ ǀ vrate ǀ te ǀ kṣeti ǀ puṣyati ǀ bhadrā ǀ śaktiḥ ǀ yajamānāya ǀ sunvate ǁ1.83.3 Aṣṭaka 1.6.4.0
-
Ṛk 4
आदंगि॑राः प्रथ॒मं द॑धिरे॒ वय॑ इ॒द्धाग्न॑यः॒ शम्या॒ ये सु॑कृ॒त्यया॑ ।
सर्वं॑ प॒णेः सम॑विंदंत॒ भोज॑न॒मश्वा॑वंतं॒ गोमं॑त॒मा प॒शुं नरः॑ ॥आद् अङ्गिराः प्रथमं दधिरे वय इद्धाग्नयः शम्या ये सुकृत्यया |
सर्वम् पणेः सम् अविन्दन्त भोजनम् अश्वावन्तं गोमन्तम् आ पशुं नरः ||ā́dáṅgirāḥ prathamám dadhire váya iddhā́gnayaḥ śámyā yé sukṛtyáyā ǀ
sárvam paṇéḥ sámavindanta bhójanamáśvāvantam gómantamā́ paśúm náraḥ ǁād aṅgirāḥ prathamaṃ dadhire vaya iddhāgnayaḥ śamyā ye sukṛtyayā |
sarvam paṇeḥ sam avindanta bhojanam aśvāvantaṃ gomantam ā paśuṃ naraḥ ||आत् । अङ्गि॑राः । प्र॒थ॒मम् । द॒धि॒रे॒ । वयः॑ । इ॒द्धऽअ॑ग्नयः । शम्या॑ । ये । सु॒ऽकृ॒त्यया॑ ।
सर्व॑म् । प॒णेः । सम् । अ॒वि॒न्द॒न्त॒ । भोज॑नम् । अश्व॑ऽवन्तम् । गोऽम॑न्तम् । आ । प॒शुम् । नरः॑ ॥आत् । अङ्गिराः । प्रथमम् । दधिरे । वयः । इद्धऽअग्नयः । शम्या । ये । सुऽकृत्यया ।
सर्वम् । पणेः । सम् । अविन्दन्त । भोजनम् । अश्वऽवन्तम् । गोऽमन्तम् । आ । पशुम् । नरः ॥ā́t ǀ áṅgirāḥ ǀ prathamám ǀ dadhire ǀ váyaḥ ǀ iddhá-agnayaḥ ǀ śámyā ǀ yé ǀ su-kṛtyáyā ǀ
sárvam ǀ paṇéḥ ǀ sám ǀ avindanta ǀ bhójanam ǀ áśva-vantam ǀ gó-mantam ǀ ā́ ǀ paśúm ǀ náraḥ ǁāt ǀ aṅgirāḥ ǀ prathamam ǀ dadhire ǀ vayaḥ ǀ iddha-agnayaḥ ǀ śamyā ǀ ye ǀ su-kṛtyayā ǀ
sarvam ǀ paṇeḥ ǀ sam ǀ avindanta ǀ bhojanam ǀ aśva-vantam ǀ go-mantam ǀ ā ǀ paśum ǀ naraḥ ǁ1.83.4 Aṣṭaka 1.6.4.0
-
Ṛk 5
य॒ज्ञैरथ॑र्वा प्रथ॒मः प॒थस्त॑ते॒ ततः॒ सूर्यो॑ व्रत॒पा वे॒न आज॑नि ।
आ गा आ॑जदु॒शना॑ का॒व्यः सचा॑ य॒मस्य॑ जा॒तम॒मृतं॑ यजामहे ॥यज्ञैर् अथर्वा प्रथमः पथस् तते ततः सूर्यो व्रतपा वेन आजनि |
आ गा आजद् उशना काव्यः सचा यमस्य जातम् अमृतं यजामहे ||yajñáirátharvā prathamáḥ pathástate tátaḥ sū́ryo vratapā́ vená ā́jani ǀ
ā́ gā́ ājaduśánā kāvyáḥ sácā yamásya jātámamṛ́tam yajāmahe ǁyajñair atharvā prathamaḥ pathas tate tataḥ sūryo vratapā vena ājani |
ā gā ājad uśanā kāvyaḥ sacā yamasya jātam amṛtaṃ yajāmahe ||य॒ज्ञैः । अथ॑र्वा । प्र॒थ॒मः । प॒थः । त॒ते॒ । ततः॑ । सूर्यः॑ । व्र॒त॒ऽपाः । वे॒नः । आ । अ॒ज॒नि॒ ।
आ । गाः । आ॒ज॒त् । उ॒शना॑ । का॒व्यः । सचा॑ । य॒मस्य॑ । जा॒तम् । अ॒मृत॑म् । य॒जा॒म॒हे॒ ॥यज्ञैः । अथर्वा । प्रथमः । पथः । तते । ततः । सूर्यः । व्रतऽपाः । वेनः । आ । अजनि ।
आ । गाः । आजत् । उशना । काव्यः । सचा । यमस्य । जातम् । अमृतम् । यजामहे ॥yajñáiḥ ǀ átharvā ǀ prathamáḥ ǀ patháḥ ǀ tate ǀ tátaḥ ǀ sū́ryaḥ ǀ vrata-pā́ḥ ǀ venáḥ ǀ ā́ ǀ ajani ǀ
ā́ ǀ gā́ḥ ǀ ājat ǀ uśánā ǀ kāvyáḥ ǀ sácā ǀ yamásya ǀ jātám ǀ amṛ́tam ǀ yajāmahe ǁyajñaiḥ ǀ atharvā ǀ prathamaḥ ǀ pathaḥ ǀ tate ǀ tataḥ ǀ sūryaḥ ǀ vrata-pāḥ ǀ venaḥ ǀ ā ǀ ajani ǀ
ā ǀ gāḥ ǀ ājat ǀ uśanā ǀ kāvyaḥ ǀ sacā ǀ yamasya ǀ jātam ǀ amṛtam ǀ yajāmahe ǁ1.83.5 Aṣṭaka 1.6.4.0
-
Ṛk 6
ब॒र्हिर्वा॒ यत्स्व॑प॒त्याय॑ वृ॒ज्यते॒ऽर्को वा॒ श्लोक॑मा॒घोष॑ते दि॒वि ।
ग्रावा॒ यत्र॒ वद॑ति का॒रुरु॒क्थ्य१॒॑स्तस्येदिंद्रो॑ अभिपि॒त्वेषु॑ रण्यति ॥बर्हिर् वा यत् स्वपत्याय वृज्यते ऽर्को वा श्लोकम् आघोषते दिवि |
ग्रावा यत्र वदति कारुर् उक्थ्यस् तस्येद् इन्द्रो अभिपित्वेषु रण्यति ||barhírvā yátsvapatyā́ya vṛjyáte’rkó vā ślókamāghóṣate diví ǀ
grā́vā yátra vádati kārúrukthyástásyédíndro abhipitvéṣu raṇyati ǁbarhir vā yat svapatyāya vṛjyate 'rko vā ślokam āghoṣate divi |
grāvā yatra vadati kārur ukthyas tasyed indro abhipitveṣu raṇyati ||ब॒र्हिः । वा॒ । यत् । सु॒ऽअ॒प॒त्याय॑ । वृ॒ज्यते॑ । अ॒र्कः । वा॒ । श्लोक॑म् । आ॒ऽघोष॑ते । दि॒वि ।
ग्रावा॑ । यत्र॑ । वद॑ति । का॒रुः । उ॒क्थ्यः॑ । तस्य॑ । इत् । इन्द्रः॑ । अ॒भि॒ऽपि॒त्वेषु॑ । र॒ण्य॒ति॒ ॥बर्हिः । वा । यत् । सुऽअपत्याय । वृज्यते । अर्कः । वा । श्लोकम् । आऽघोषते । दिवि ।
ग्रावा । यत्र । वदति । कारुः । उक्थ्यः । तस्य । इत् । इन्द्रः । अभिऽपित्वेषु । रण्यति ॥barhíḥ ǀ vā ǀ yát ǀ su-apatyā́ya ǀ vṛjyáte ǀ arkáḥ ǀ vā ǀ ślókam ǀ ā-ghóṣate ǀ diví ǀ
grā́vā ǀ yátra ǀ vádati ǀ kārúḥ ǀ ukthyáḥ ǀ tásya ǀ ít ǀ índraḥ ǀ abhi-pitvéṣu ǀ raṇyati ǁbarhiḥ ǀ vā ǀ yat ǀ su-apatyāya ǀ vṛjyate ǀ arkaḥ ǀ vā ǀ ślokam ǀ ā-ghoṣate ǀ divi ǀ
grāvā ǀ yatra ǀ vadati ǀ kāruḥ ǀ ukthyaḥ ǀ tasya ǀ it ǀ indraḥ ǀ abhi-pitveṣu ǀ raṇyati ǁ1.83.6 Aṣṭaka 1.6.4.0
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.