Sūkta 185
- Devatā देवता
- Divaḥ, Pṛthivī
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles triṣṭup (1, 6-8, 10, 11); nicṛttriṣṭup (3-5); virāṭtrisṭup (2); bhurikpaṅkti (9)
2nd set of styles triṣṭubh
-
Ṛk 1
क॒त॒रा पूर्वा॑ कत॒राप॑रा॒योः क॒था जा॒ते क॑वयः॒ को वि वे॑द ।
विश्वं॒ त्मना॑ बिभृतो॒ यद्ध॒ नाम॒ वि व॑र्तेते॒ अह॑नी च॒क्रिये॑व ॥कतरा पूर्वा कतरापरायोः कथा जाते कवयः को वि वेद |
विश्वं त्मना बिभृतो यद् ध नाम वि वर्तेते अहनी चक्रियेव ||katarā́ pū́rvā katarā́parāyóḥ kathā́ jāté kavayaḥ kó ví veda ǀ
víśvam tmánā bibhṛto yáddha nā́ma ví vartete áhanī cakríyeva ǁkatarā pūrvā katarāparāyoḥ kathā jāte kavayaḥ ko vi veda |
viśvaṃ tmanā bibhṛto yad dha nāma vi vartete ahanī cakriyeva ||क॒त॒रा । पूर्वा॑ । क॒त॒रा । अप॑रा । अ॒योः । क॒था । जा॒ते इति॑ । क॒व॒यः॒ । कः । वि । वे॒द॒ ।
विश्व॑म् । त्मना॑ । बि॒भृ॒तः॒ । यत् । ह॒ । नाम॑ । वि । व॒र्ते॒ते॒ इति॑ । अह॑नी॒ इति॑ । च॒क्रिया॑ऽइव ॥कतरा । पूर्वा । कतरा । अपरा । अयोः । कथा । जाते इति । कवयः । कः । वि । वेद ।
विश्वम् । त्मना । बिभृतः । यत् । ह । नाम । वि । वर्तेते इति । अहनी इति । चक्रियाऽइव ॥katarā́ ǀ pū́rvā ǀ katarā́ ǀ áparā ǀ ayóḥ ǀ kathā́ ǀ jāté íti ǀ kavayaḥ ǀ káḥ ǀ ví ǀ veda ǀ
víśvam ǀ tmánā ǀ bibhṛtaḥ ǀ yát ǀ ha ǀ nā́ma ǀ ví ǀ vartete íti ǀ áhanī íti ǀ cakríyā-iva ǁkatarā ǀ pūrvā ǀ katarā ǀ aparā ǀ ayoḥ ǀ kathā ǀ jāte iti ǀ kavayaḥ ǀ kaḥ ǀ vi ǀ veda ǀ
viśvam ǀ tmanā ǀ bibhṛtaḥ ǀ yat ǀ ha ǀ nāma ǀ vi ǀ vartete iti ǀ ahanī iti ǀ cakriyā-iva ǁ1.185.1 Aṣṭaka 2.5.2.0
-
Ṛk 2
भूरिं॒ द्वे अच॑रंती॒ चरं॑तं प॒द्वंतं॒ गर्भ॑म॒पदी॑ दधाते ।
नित्यं॒ न सू॒नुं पि॒त्रोरु॒पस्थे॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥भूरिं द्वे अचरन्ती चरन्तम् पद्वन्तं गर्भम् अपदी दधाते |
नित्यं न सूनुम् पित्रोर् उपस्थे द्यावा रक्षतम् पृथिवी नो अभ्वात् ||bhū́rim dvé ácarantī cárantam padvántam gárbhamapádī dadhāte ǀ
nítyam ná sūnúm pitrórupásthe dyā́vā rákṣatam pṛthivī no ábhvāt ǁbhūriṃ dve acarantī carantam padvantaṃ garbham apadī dadhāte |
nityaṃ na sūnum pitror upasthe dyāvā rakṣatam pṛthivī no abhvāt ||भूरि॑ । द्वे इति॑ । अच॑रन्ती॒ इति॑ । चर॑न्तम् । प॒त्ऽवन्त॑म् । गर्भ॑म् । अ॒पदी॒ इति॑ । द॒धा॒ते॒ इति॑ ।
नित्य॑म् । न । सू॒नुम् । पि॒त्रोः । उ॒पऽस्थे॑ । द्यावा॑ । रक्ष॑तम् । पृ॒थि॒वी॒ इति॑ । नः॒ । अभ्वा॑त् ॥भूरि । द्वे इति । अचरन्ती इति । चरन्तम् । पत्ऽवन्तम् । गर्भम् । अपदी इति । दधाते इति ।
नित्यम् । न । सूनुम् । पित्रोः । उपऽस्थे । द्यावा । रक्षतम् । पृथिवी इति । नः । अभ्वात् ॥bhū́ri ǀ dvé íti ǀ ácarantī íti ǀ cárantam ǀ pat-vántam ǀ gárbham ǀ apádī íti ǀ dadhāte íti ǀ
nítyam ǀ ná ǀ sūnúm ǀ pitróḥ ǀ upá-sthe ǀ dyā́vā ǀ rákṣatam ǀ pṛthivī íti ǀ naḥ ǀ ábhvāt ǁbhūri ǀ dve iti ǀ acarantī iti ǀ carantam ǀ pat-vantam ǀ garbham ǀ apadī iti ǀ dadhāte iti ǀ
nityam ǀ na ǀ sūnum ǀ pitroḥ ǀ upa-sthe ǀ dyāvā ǀ rakṣatam ǀ pṛthivī iti ǀ naḥ ǀ abhvāt ǁ1.185.2 Aṣṭaka 2.5.2.0
-
Ṛk 3
अ॒ने॒हो दा॒त्रमदि॑तेरन॒र्वं हु॒वे स्व॑र्वदव॒धं नम॑स्वत् ।
तद्रो॑दसी जनयतं जरि॒त्रे द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥अनेहो दात्रम् अदितेर् अनर्वं हुवे स्वर्वद् अवधं नमस्वत् |
तद् रोदसी जनयतं जरित्रे द्यावा रक्षतम् पृथिवी नो अभ्वात् ||anehó dātrámáditeranarvám huvé svárvadavadhám námasvat ǀ
tádrodasī janayatam jaritré dyā́vā rákṣatam pṛthivī no ábhvāt ǁaneho dātram aditer anarvaṃ huve svarvad avadhaṃ namasvat |
tad rodasī janayataṃ jaritre dyāvā rakṣatam pṛthivī no abhvāt ||अ॒ने॒हः । दा॒त्रम् । अदि॑तेः । अ॒न॒र्वम् । हु॒वे । स्वः॑ऽवत् । अ॒व॒धम् । नम॑स्वत् ।
तत् । रो॒द॒सी॒ इति॑ । ज॒न॒य॒त॒म् । ज॒रि॒त्रे । द्यावा॑ । रक्ष॑तम् । पृ॒थि॒वी॒ इति॑ । नः॒ । अभ्वा॑त् ॥अनेहः । दात्रम् । अदितेः । अनर्वम् । हुवे । स्वःऽवत् । अवधम् । नमस्वत् ।
तत् । रोदसी इति । जनयतम् । जरित्रे । द्यावा । रक्षतम् । पृथिवी इति । नः । अभ्वात् ॥aneháḥ ǀ dātrám ǀ áditeḥ ǀ anarvám ǀ huvé ǀ sváḥ-vat ǀ avadhám ǀ námasvat ǀ
tát ǀ rodasī íti ǀ janayatam ǀ jaritré ǀ dyā́vā ǀ rákṣatam ǀ pṛthivī íti ǀ naḥ ǀ ábhvāt ǁanehaḥ ǀ dātram ǀ aditeḥ ǀ anarvam ǀ huve ǀ svaḥ-vat ǀ avadham ǀ namasvat ǀ
tat ǀ rodasī iti ǀ janayatam ǀ jaritre ǀ dyāvā ǀ rakṣatam ǀ pṛthivī iti ǀ naḥ ǀ abhvāt ǁ1.185.3 Aṣṭaka 2.5.2.0
-
Ṛk 4
अत॑प्यमाने॒ अव॒सावं॑ती॒ अनु॑ ष्याम॒ रोद॑सी दे॒वपु॑त्रे ।
उ॒भे दे॒वाना॑मु॒भये॑भि॒रह्नां॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥अतप्यमाने अवसावन्ती अनु ष्याम रोदसी देवपुत्रे |
उभे देवानाम् उभयेभिर् अह्नां द्यावा रक्षतम् पृथिवी नो अभ्वात् ||átapyamāne ávasā́vantī ánu ṣyāma ródasī deváputre ǀ
ubhé devā́nāmubháyebhiráhnām dyā́vā rákṣatam pṛthivī no ábhvāt ǁatapyamāne avasāvantī anu ṣyāma rodasī devaputre |
ubhe devānām ubhayebhir ahnāṃ dyāvā rakṣatam pṛthivī no abhvāt ||अत॑प्यमाने॒ इति॑ । अव॑सा । अव॑न्ती॒ इति॑ । अनु॑ । स्या॒म॒ । रोद॑सी॒ इति॑ । दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे ।
उ॒भे इति॑ । दे॒वाना॑म् । उ॒भये॑भिः । अह्ना॑म् । द्यावा॑ । रक्ष॑तम् । पृ॒थि॒वी॒ इति॑ । नः॒ । अभ्वा॑त् ॥अतप्यमाने इति । अवसा । अवन्ती इति । अनु । स्याम । रोदसी इति । देवपुत्रे इति देवऽपुत्रे ।
उभे इति । देवानाम् । उभयेभिः । अह्नाम् । द्यावा । रक्षतम् । पृथिवी इति । नः । अभ्वात् ॥átapyamāne íti ǀ ávasā ǀ ávantī íti ǀ ánu ǀ syāma ǀ ródasī íti ǀ deváputre íti devá-putre ǀ
ubhé íti ǀ devā́nām ǀ ubháyebhiḥ ǀ áhnām ǀ dyā́vā ǀ rákṣatam ǀ pṛthivī íti ǀ naḥ ǀ ábhvāt ǁatapyamāne iti ǀ avasā ǀ avantī iti ǀ anu ǀ syāma ǀ rodasī iti ǀ devaputre iti deva-putre ǀ
ubhe iti ǀ devānām ǀ ubhayebhiḥ ǀ ahnām ǀ dyāvā ǀ rakṣatam ǀ pṛthivī iti ǀ naḥ ǀ abhvāt ǁ1.185.4 Aṣṭaka 2.5.2.0
-
Ṛk 5
सं॒गच्छ॑माने युव॒ती समं॑ते॒ स्वसा॑रा जा॒मी पि॒त्रोरु॒पस्थे॑ ।
अ॒भि॒जिघ्रं॑ती॒ भुव॑नस्य॒ नाभिं॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥संगच्छमाने युवती समन्ते स्वसारा जामी पित्रोर् उपस्थे |
अभिजिघ्रन्ती भुवनस्य नाभिं द्यावा रक्षतम् पृथिवी नो अभ्वात् ||saṃgácchamāne yuvatī́ sámante svásārā jāmī́ pitrórupásthe ǀ
abhijíghrantī bhúvanasya nā́bhim dyā́vā rákṣatam pṛthivī no ábhvāt ǁsaṃgacchamāne yuvatī samante svasārā jāmī pitror upasthe |
abhijighrantī bhuvanasya nābhiṃ dyāvā rakṣatam pṛthivī no abhvāt ||स॒ङ्गच्छ॑माने॒ इति॑ स॒म्ऽगच्छ॑माने । यु॒व॒ती इति॑ । सम॑न्ते॒ इति॒ सम्ऽअ॑न्ते । स्वसा॑रा । जा॒मी इति॑ । पि॒त्रोः । उ॒पऽस्थे॑ ।
अ॒भि॒जिघ्र॑न्ती॒ इत्य॑भि॒ऽजिघ्र॑न्ती । भुव॑नस्य । नाभि॑म् । द्यावा॑ । रक्ष॑तम् । पृ॒थि॒वी॒ इति॑ । नः॒ । अभ्वा॑त् ॥सङ्गच्छमाने इति सम्ऽगच्छमाने । युवती इति । समन्ते इति सम्ऽअन्ते । स्वसारा । जामी इति । पित्रोः । उपऽस्थे ।
अभिजिघ्रन्ती इत्यभिऽजिघ्रन्ती । भुवनस्य । नाभिम् । द्यावा । रक्षतम् । पृथिवी इति । नः । अभ्वात् ॥saṅgácchamāne íti sam-gácchamāne ǀ yuvatī́ íti ǀ sámante íti sám-ante ǀ svásārā ǀ jāmī́ íti ǀ pitróḥ ǀ upá-sthe ǀ
abhijíghrantī ítyabhi-jíghrantī ǀ bhúvanasya ǀ nā́bhim ǀ dyā́vā ǀ rákṣatam ǀ pṛthivī íti ǀ naḥ ǀ ábhvāt ǁsaṅgacchamāne iti sam-gacchamāne ǀ yuvatī iti ǀ samante iti sam-ante ǀ svasārā ǀ jāmī iti ǀ pitroḥ ǀ upa-sthe ǀ
abhijighrantī ityabhi-jighrantī ǀ bhuvanasya ǀ nābhim ǀ dyāvā ǀ rakṣatam ǀ pṛthivī iti ǀ naḥ ǀ abhvāt ǁ1.185.5 Aṣṭaka 2.5.2.0
-
Ṛk 6
उ॒र्वी सद्म॑नी बृह॒ती ऋ॒तेन॑ हु॒वे दे॒वाना॒मव॑सा॒ जनि॑त्री ।
द॒धाते॒ ये अ॒मृतं॑ सु॒प्रती॑के॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥उर्वी सद्मनी बृहती ऋतेन हुवे देवानाम् अवसा जनित्री |
दधाते ये अमृतं सुप्रतीके द्यावा रक्षतम् पृथिवी नो अभ्वात् ||urvī́ sádmanī bṛhatī́ ṛténa huvé devā́nāmávasā jánitrī ǀ
dadhā́te yé amṛ́tam suprátīke dyā́vā rákṣatam pṛthivī no ábhvāt ǁurvī sadmanī bṛhatī ṛtena huve devānām avasā janitrī |
dadhāte ye amṛtaṃ supratīke dyāvā rakṣatam pṛthivī no abhvāt ||उ॒र्वी इति॑ । सद्म॑नी॒ इति॑ । बृ॒ह॒ती इति॑ । ऋ॒तेन॑ । हु॒वे । दे॒वाना॑म् । अव॑सा । जनि॑त्री॒ इति॑ ।
द॒धाते॒ इति॑ । ये इति॑ । अ॒मृत॑म् । सु॒प्रती॑के॒ इति॑ सु॒ऽप्रती॑के । द्यावा॑ । रक्ष॑तम् । पृ॒थि॒वी॒ इति॑ । नः॒ । अभ्वा॑त् ॥उर्वी इति । सद्मनी इति । बृहती इति । ऋतेन । हुवे । देवानाम् । अवसा । जनित्री इति ।
दधाते इति । ये इति । अमृतम् । सुप्रतीके इति सुऽप्रतीके । द्यावा । रक्षतम् । पृथिवी इति । नः । अभ्वात् ॥urvī́ íti ǀ sádmanī íti ǀ bṛhatī́ íti ǀ ṛténa ǀ huvé ǀ devā́nām ǀ ávasā ǀ jánitrī íti ǀ
dadhā́te íti ǀ yé íti ǀ amṛ́tam ǀ suprátīke íti su-prátīke ǀ dyā́vā ǀ rákṣatam ǀ pṛthivī íti ǀ naḥ ǀ ábhvāt ǁurvī iti ǀ sadmanī iti ǀ bṛhatī iti ǀ ṛtena ǀ huve ǀ devānām ǀ avasā ǀ janitrī iti ǀ
dadhāte iti ǀ ye iti ǀ amṛtam ǀ supratīke iti su-pratīke ǀ dyāvā ǀ rakṣatam ǀ pṛthivī iti ǀ naḥ ǀ abhvāt ǁ1.185.6 Aṣṭaka 2.5.3.0
-
Ṛk 7
उ॒र्वी पृ॒थ्वी ब॑हु॒ले दू॒रेअं॑ते॒ उप॑ ब्रुवे॒ नम॑सा य॒ज्ञे अ॒स्मिन् ।
द॒धाते॒ ये सु॒भगे॑ सु॒प्रतू॑र्ती॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥उर्वी पृथ्वी बहुले दूरेअन्ते उप ब्रुवे नमसा यज्ञे अस्मिन् |
दधाते ये सुभगे सुप्रतूर्ती द्यावा रक्षतम् पृथिवी नो अभ्वात् ||urvī́ pṛthvī́ bahulé dūréante úpa bruve námasā yajñé asmín ǀ
dadhā́te yé subháge suprátūrtī dyā́vā rákṣatam pṛthivī no ábhvāt ǁurvī pṛthvī bahule dūreante upa bruve namasā yajñe asmin |
dadhāte ye subhage supratūrtī dyāvā rakṣatam pṛthivī no abhvāt ||उ॒र्वी इति॑ । पृ॒थ्वी इति॑ । ब॒हु॒ले इति॑ । दू॒रेअ॑न्ते॒ इति॑ दू॒रेऽअ॑न्ते । उप॑ । ब्रु॒वे॒ । नम॑सा । य॒ज्ञे । अ॒स्मिन् ।
द॒धाते॒ इति॑ । ये इति॑ । सु॒भगे॒ इति॑ सु॒ऽभगे॑ । सु॒प्रतू॑र्ती॒ इति॑ सु॒ऽप्रतू॑र्ती । द्यावा॑ । रक्ष॑तम् । पृ॒थि॒वी॒ इति॑ । नः॒ । अभ्वा॑त् ॥उर्वी इति । पृथ्वी इति । बहुले इति । दूरेअन्ते इति दूरेऽअन्ते । उप । ब्रुवे । नमसा । यज्ञे । अस्मिन् ।
दधाते इति । ये इति । सुभगे इति सुऽभगे । सुप्रतूर्ती इति सुऽप्रतूर्ती । द्यावा । रक्षतम् । पृथिवी इति । नः । अभ्वात् ॥urvī́ íti ǀ pṛthvī́ íti ǀ bahulé íti ǀ dūréante íti dūré-ante ǀ úpa ǀ bruve ǀ námasā ǀ yajñé ǀ asmín ǀ
dadhā́te íti ǀ yé íti ǀ subháge íti su-bháge ǀ suprátūrtī íti su-prátūrtī ǀ dyā́vā ǀ rákṣatam ǀ pṛthivī íti ǀ naḥ ǀ ábhvāt ǁurvī iti ǀ pṛthvī iti ǀ bahule iti ǀ dūreante iti dūre-ante ǀ upa ǀ bruve ǀ namasā ǀ yajñe ǀ asmin ǀ
dadhāte iti ǀ ye iti ǀ subhage iti su-bhage ǀ supratūrtī iti su-pratūrtī ǀ dyāvā ǀ rakṣatam ǀ pṛthivī iti ǀ naḥ ǀ abhvāt ǁ1.185.7 Aṣṭaka 2.5.3.0
-
Ṛk 8
दे॒वान्वा॒ यच्च॑कृ॒मा कच्चि॒दागः॒ सखा॑यं वा॒ सद॒मिज्जास्प॑तिं वा ।
इ॒यं धीर्भू॑या अव॒यान॑मेषां॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥देवान् वा यच् चकृमा कच् चिद् आगः सखायं वा सदम् इज् जास्पतिं वा |
इयं धीर् भूया अवयानम् एषां द्यावा रक्षतम् पृथिवी नो अभ्वात् ||devā́nvā yáccakṛmā́ káccidā́gaḥ sákhāyam vā sádamíjjā́spatim vā ǀ
iyám dhī́rbhūyā avayā́nameṣām dyā́vā rákṣatam pṛthivī no ábhvāt ǁdevān vā yac cakṛmā kac cid āgaḥ sakhāyaṃ vā sadam ij jāspatiṃ vā |
iyaṃ dhīr bhūyā avayānam eṣāṃ dyāvā rakṣatam pṛthivī no abhvāt ||दे॒वान् । वा॒ । यत् । च॒कृ॒म । कत् । चि॒त् । आगः॑ । सखा॑यम् । वा॒ । सद॑म् । इत् । जाःऽप॑तिम् । वा॒ ।
इ॒यम् । धीः । भू॒याः॒ । अ॒व॒ऽयान॑म् । ए॒षा॒म् । द्यावा॑ । रक्ष॑तम् । पृ॒थि॒वी॒ इति॑ । नः॒ । अभ्वा॑त् ॥देवान् । वा । यत् । चकृम । कत् । चित् । आगः । सखायम् । वा । सदम् । इत् । जाःऽपतिम् । वा ।
इयम् । धीः । भूयाः । अवऽयानम् । एषाम् । द्यावा । रक्षतम् । पृथिवी इति । नः । अभ्वात् ॥devā́n ǀ vā ǀ yát ǀ cakṛmá ǀ kát ǀ cit ǀ ā́gaḥ ǀ sákhāyam ǀ vā ǀ sádam ǀ ít ǀ jā́ḥ-patim ǀ vā ǀ
iyám ǀ dhī́ḥ ǀ bhūyāḥ ǀ ava-yā́nam ǀ eṣām ǀ dyā́vā ǀ rákṣatam ǀ pṛthivī íti ǀ naḥ ǀ ábhvāt ǁdevān ǀ vā ǀ yat ǀ cakṛma ǀ kat ǀ cit ǀ āgaḥ ǀ sakhāyam ǀ vā ǀ sadam ǀ it ǀ jāḥ-patim ǀ vā ǀ
iyam ǀ dhīḥ ǀ bhūyāḥ ǀ ava-yānam ǀ eṣām ǀ dyāvā ǀ rakṣatam ǀ pṛthivī iti ǀ naḥ ǀ abhvāt ǁ1.185.8 Aṣṭaka 2.5.3.0
-
Ṛk 9
उ॒भा शंसा॒ नर्या॒ माम॑विष्टामु॒भे मामू॒ती अव॑सा सचेतां ।
भूरि॑ चिद॒र्यः सु॒दास्त॑राये॒षा मदं॑त इषयेम देवाः ॥उभा शंसा नर्या माम् अविष्टाम् उभे माम् ऊती अवसा सचेताम् |
भूरि चिद् अर्यः सुदास्तरायेषा मदन्त इषयेम देवाः ||ubhā́ śáṃsā náryā mā́maviṣṭāmubhé mā́mūtī́ ávasā sacetām ǀ
bhū́ri cidaryáḥ sudā́starāyeṣā́ mádanta iṣayema devāḥ ǁubhā śaṃsā naryā mām aviṣṭām ubhe mām ūtī avasā sacetām |
bhūri cid aryaḥ sudāstarāyeṣā madanta iṣayema devāḥ ||उ॒भा । शंसा॑ । नर्या॑ । माम् । अ॒वि॒ष्टा॒म् । उ॒भे इति॑ । माम् । ऊ॒ती इति॑ । अव॑सा । स॒चे॒ता॒म् ।
भूरि॑ । चि॒त् । अ॒र्यः । सु॒दाःऽत॑राय । इ॒षा । मद॑न्तः । इ॒ष॒ये॒म॒ । दे॒वाः॒ ॥उभा । शंसा । नर्या । माम् । अविष्टाम् । उभे इति । माम् । ऊती इति । अवसा । सचेताम् ।
भूरि । चित् । अर्यः । सुदाःऽतराय । इषा । मदन्तः । इषयेम । देवाः ॥ubhā́ ǀ śáṃsā ǀ náryā ǀ mā́m ǀ aviṣṭām ǀ ubhé íti ǀ mā́m ǀ ūtī́ íti ǀ ávasā ǀ sacetām ǀ
bhū́ri ǀ cit ǀ aryáḥ ǀ sudā́ḥ-tarāya ǀ iṣā́ ǀ mádantaḥ ǀ iṣayema ǀ devāḥ ǁubhā ǀ śaṃsā ǀ naryā ǀ mām ǀ aviṣṭām ǀ ubhe iti ǀ mām ǀ ūtī iti ǀ avasā ǀ sacetām ǀ
bhūri ǀ cit ǀ aryaḥ ǀ sudāḥ-tarāya ǀ iṣā ǀ madantaḥ ǀ iṣayema ǀ devāḥ ǁ1.185.9 Aṣṭaka 2.5.3.0
-
Ṛk 10
ऋ॒तं दि॒वे तद॑वोचं पृथि॒व्या अ॑भिश्रा॒वाय॑ प्रथ॒मं सु॑मे॒धाः ।
पा॒ताम॑व॒द्याद्दु॑रि॒ताद॒भीके॑ पि॒ता मा॒ता च॑ रक्षता॒मवो॑भिः ॥ऋतं दिवे तद् अवोचम् पृथिव्या अभिश्रावाय प्रथमं सुमेधाः |
पाताम् अवद्याद् दुरिताद् अभीके पिता माता च रक्षताम् अवोभिः ||ṛtám divé tádavocam pṛthivyā́ abhiśrāvā́ya prathamám sumedhā́ḥ ǀ
pātā́mavadyā́dduritā́dabhī́ke pitā́ mātā́ ca rakṣatāmávobhiḥ ǁṛtaṃ dive tad avocam pṛthivyā abhiśrāvāya prathamaṃ sumedhāḥ |
pātām avadyād duritād abhīke pitā mātā ca rakṣatām avobhiḥ ||ऋ॒तम् । दि॒वे । तत् । अ॒वो॒च॒म् । पृ॒थि॒व्यै । अ॒भि॒ऽश्रा॒वाय॑ । प्र॒थ॒मम् । सु॒ऽमे॒धाः ।
पा॒ताम् । अ॒व॒द्यात् । दुः॒ऽइ॒तात् । अ॒भीके॑ । पि॒ता । मा॒ता । च॒ । र॒क्ष॒ता॒म् । अवः॑ऽभिः ॥ऋतम् । दिवे । तत् । अवोचम् । पृथिव्यै । अभिऽश्रावाय । प्रथमम् । सुऽमेधाः ।
पाताम् । अवद्यात् । दुःऽइतात् । अभीके । पिता । माता । च । रक्षताम् । अवःऽभिः ॥ṛtám ǀ divé ǀ tát ǀ avocam ǀ pṛthivyái ǀ abhi-śrāvā́ya ǀ prathamám ǀ su-medhā́ḥ ǀ
pātā́m ǀ avadyā́t ǀ duḥ-itā́t ǀ abhī́ke ǀ pitā́ ǀ mātā́ ǀ ca ǀ rakṣatām ǀ ávaḥ-bhiḥ ǁṛtam ǀ dive ǀ tat ǀ avocam ǀ pṛthivyai ǀ abhi-śrāvāya ǀ prathamam ǀ su-medhāḥ ǀ
pātām ǀ avadyāt ǀ duḥ-itāt ǀ abhīke ǀ pitā ǀ mātā ǀ ca ǀ rakṣatām ǀ avaḥ-bhiḥ ǁ1.185.10 Aṣṭaka 2.5.3.0
-
Ṛk 11
इ॒दं द्या॑वापृथिवी स॒त्यम॑स्तु॒ पित॒र्मात॒र्यदि॒होप॑ब्रु॒वे वां॑ ।
भू॒तं दे॒वाना॑मव॒मे अवो॑भिर्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥इदं द्यावापृथिवी सत्यम् अस्तु पितर् मातर् यद् इहोपब्रुवे वाम् |
भूतं देवानाम् अवमे अवोभिर् विद्यामेषं वृजनं जीरदानुम् ||idám dyāvāpṛthivī satyámastu pítarmā́taryádihópabruvé vām ǀ
bhūtám devā́nāmavamé ávobhirvidyā́meṣám vṛjánam jīrádānum ǁidaṃ dyāvāpṛthivī satyam astu pitar mātar yad ihopabruve vām |
bhūtaṃ devānām avame avobhir vidyāmeṣaṃ vṛjanaṃ jīradānum ||इ॒दम् । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । स॒त्यम् । अ॒स्तु॒ । पितः॑ । मातः॑ । यत् । इ॒ह । उ॒प॒ऽब्रु॒वे । वा॒म् ।
भू॒तम् । दे॒वाना॑म् । अ॒व॒मे इति॑ । अवः॑ऽभिः । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥इदम् । द्यावापृथिवी इति । सत्यम् । अस्तु । पितः । मातः । यत् । इह । उपऽब्रुवे । वाम् ।
भूतम् । देवानाम् । अवमे इति । अवःऽभिः । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥idám ǀ dyāvāpṛthivī íti ǀ satyám ǀ astu ǀ pítaḥ ǀ mā́taḥ ǀ yát ǀ ihá ǀ upa-bruvé ǀ vām ǀ
bhūtám ǀ devā́nām ǀ avamé íti ǀ ávaḥ-bhiḥ ǀ vidyā́ma ǀ iṣám ǀ vṛjánam ǀ jīrá-dānum ǁidam ǀ dyāvāpṛthivī iti ǀ satyam ǀ astu ǀ pitaḥ ǀ mātaḥ ǀ yat ǀ iha ǀ upa-bruve ǀ vām ǀ
bhūtam ǀ devānām ǀ avame iti ǀ avaḥ-bhiḥ ǀ vidyāma ǀ iṣam ǀ vṛjanam ǀ jīra-dānum ǁ1.185.11 Aṣṭaka 2.5.3.0
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.