Ṛgveda · Maṇḍala 1 · Sūkta 185
Ṛk 1.185.2
Saṃhitā
भूरिं॒ द्वे अच॑रंती॒ चरं॑तं प॒द्वंतं॒ गर्भ॑म॒पदी॑ दधाते ।
नित्यं॒ न सू॒नुं पि॒त्रोरु॒पस्थे॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥
भूरिं द्वे अचरन्ती चरन्तम् पद्वन्तं गर्भम् अपदी दधाते |
नित्यं न सूनुम् पित्रोर् उपस्थे द्यावा रक्षतम् पृथिवी नो अभ्वात् ||
bhū́rim dvé ácarantī cárantam padvántam gárbhamapádī dadhāte ǀ
nítyam ná sūnúm pitrórupásthe dyā́vā rákṣatam pṛthivī no ábhvāt ǁ
bhūriṃ dve acarantī carantam padvantaṃ garbham apadī dadhāte |
nityaṃ na sūnum pitror upasthe dyāvā rakṣatam pṛthivī no abhvāt ||
Padapāṭha
भूरि॑ । द्वे इति॑ । अच॑रन्ती॒ इति॑ । चर॑न्तम् । प॒त्ऽवन्त॑म् । गर्भ॑म् । अ॒पदी॒ इति॑ । द॒धा॒ते॒ इति॑ ।
नित्य॑म् । न । सू॒नुम् । पि॒त्रोः । उ॒पऽस्थे॑ । द्यावा॑ । रक्ष॑तम् । पृ॒थि॒वी॒ इति॑ । नः॒ । अभ्वा॑त् ॥
भूरि । द्वे इति । अचरन्ती इति । चरन्तम् । पत्ऽवन्तम् । गर्भम् । अपदी इति । दधाते इति ।
नित्यम् । न । सूनुम् । पित्रोः । उपऽस्थे । द्यावा । रक्षतम् । पृथिवी इति । नः । अभ्वात् ॥
bhū́ri ǀ dvé íti ǀ ácarantī íti ǀ cárantam ǀ pat-vántam ǀ gárbham ǀ apádī íti ǀ dadhāte íti ǀ
nítyam ǀ ná ǀ sūnúm ǀ pitróḥ ǀ upá-sthe ǀ dyā́vā ǀ rákṣatam ǀ pṛthivī íti ǀ naḥ ǀ ábhvāt ǁ
bhūri ǀ dve iti ǀ acarantī iti ǀ carantam ǀ pat-vantam ǀ garbham ǀ apadī iti ǀ dadhāte iti ǀ
nityam ǀ na ǀ sūnum ǀ pitroḥ ǀ upa-sthe ǀ dyāvā ǀ rakṣatam ǀ pṛthivī iti ǀ naḥ ǀ abhvāt ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.185.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.5.02.00
- Devatā देवता
- Divaḥ, Pṛthivī
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.