Sūkta 11
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Jetṛ Mādhucchandasa
- Chandas छन्दस्
- Anuṣṭubh
Metres by ṛk
1st set of styles nicṛdanuṣṭup (1-3, 8); anuṣṭup (4, 6); bhuriguṣṇik (5); virāḍanuṣṭup (7)
2nd set of styles anuṣṭubh
-
Ṛk 1
इंद्रं॒ विश्वा॑ अवीवृधंत्समु॒द्रव्य॑चसं॒ गिरः॑ ।
र॒थीत॑मं र॒थीनां॒ वाजा॑नां॒ सत्प॑तिं॒ पतिं॑ ॥इन्द्रं विश्वा अवीवृधन् समुद्रव्यचसं गिरः |
रथीतमं रथीनां वाजानां सत्पतिम् पतिम् ||índram víśvā avīvṛdhantsamudrávyacasam gíraḥ ǀ
rathī́tamam rathī́nām vā́jānām sátpatim pátim ǁindraṃ viśvā avīvṛdhan samudravyacasaṃ giraḥ |
rathītamaṃ rathīnāṃ vājānāṃ satpatim patim ||इन्द्र॑म् । विश्वाः॑ । अ॒वी॒वृ॒ध॒न् । स॒मु॒द्रऽव्य॑चसम् । गिरः॑ ।
र॒थिऽत॑मम् । र॒थिना॑म् । वाजा॑नाम् । सत्ऽप॑तिम् । पति॑म् ॥इन्द्रम् । विश्वाः । अवीवृधन् । समुद्रऽव्यचसम् । गिरः ।
रथिऽतमम् । रथिनाम् । वाजानाम् । सत्ऽपतिम् । पतिम् ॥índram ǀ víśvāḥ ǀ avīvṛdhan ǀ samudrá-vyacasam ǀ gíraḥ ǀ
rathí-tamam ǀ rathínām ǀ vā́jānām ǀ sát-patim ǀ pátim ǁindram ǀ viśvāḥ ǀ avīvṛdhan ǀ samudra-vyacasam ǀ giraḥ ǀ
rathi-tamam ǀ rathinām ǀ vājānām ǀ sat-patim ǀ patim ǁ1.11.1 Aṣṭaka 1.1.21.1Anuvāka 1.3.33
-
Ṛk 2
स॒ख्ये त॑ इंद्र वा॒जिनो॒ मा भे॑म शवसस्पते ।
त्वाम॒भि प्र णो॑नुमो॒ जेता॑र॒मप॑राजितं ॥सख्ये त इन्द्र वाजिनो मा भेम शवसस् पते |
त्वाम् अभि प्र णोनुमो जेतारम् अपराजितम् ||sakhyé ta indra vājíno mā́ bhema śavasaspate ǀ
tvā́mabhí prá ṇonumo jétāramáparājitam ǁsakhye ta indra vājino mā bhema śavasas pate |
tvām abhi pra ṇonumo jetāram aparājitam ||स॒ख्ये । ते॒ । इ॒न्द्र॒ । वा॒जिनः॑ । मा । भे॒म॒ । श॒व॒सः॒ । प॒ते॒ ।
त्वाम् । अ॒भि । प्र । नो॒नु॒मः॒ । जेता॑रम् । अप॑राऽजितम् ॥सख्ये । ते । इन्द्र । वाजिनः । मा । भेम । शवसः । पते ।
त्वाम् । अभि । प्र । नोनुमः । जेतारम् । अपराऽजितम् ॥sakhyé ǀ te ǀ indra ǀ vājínaḥ ǀ mā́ ǀ bhema ǀ śavasaḥ ǀ pate ǀ
tvā́m ǀ abhí ǀ prá ǀ nonumaḥ ǀ jétāram ǀ áparā-jitam ǁsakhye ǀ te ǀ indra ǀ vājinaḥ ǀ mā ǀ bhema ǀ śavasaḥ ǀ pate ǀ
tvām ǀ abhi ǀ pra ǀ nonumaḥ ǀ jetāram ǀ aparā-jitam ǁ1.11.2 Aṣṭaka 1.1.21.2Anuvāka 1.3.34
-
Ṛk 3
पू॒र्वीरिंद्र॑स्य रा॒तयो॒ न वि द॑स्यंत्यू॒तयः॑ ।
यदी॒ वाज॑स्य॒ गोम॑तः स्तो॒तृभ्यो॒ मंह॑ते म॒घं ॥पूर्वीर् इन्द्रस्य रातयो न वि दस्यन्त्य् ऊतयः |
यदी वाजस्य गोमत स्तोतृभ्यो मंहते मघम् ||pūrvī́ríndrasya rātáyo ná ví dasyantyūtáyaḥ ǀ
yádī vā́jasya gómataḥ stotṛ́bhyo máṃhate maghám ǁpūrvīr indrasya rātayo na vi dasyanty ūtayaḥ |
yadī vājasya gomata stotṛbhyo maṃhate magham ||पू॒र्वीः । इन्द्र॑स्य । रा॒तयः॑ । न । वि । द॒स्य॒न्ति॒ । ऊ॒तयः॑ ।
यदि॑ । वाज॑स्य । गोऽम॑तः । स्तो॒तृऽभ्यः॑ । मंह॑ते । म॒घम् ॥पूर्वीः । इन्द्रस्य । रातयः । न । वि । दस्यन्ति । ऊतयः ।
यदि । वाजस्य । गोऽमतः । स्तोतृऽभ्यः । मंहते । मघम् ॥pūrvī́ḥ ǀ índrasya ǀ rātáyaḥ ǀ ná ǀ ví ǀ dasyanti ǀ ūtáyaḥ ǀ
yádi ǀ vā́jasya ǀ gó-mataḥ ǀ stotṛ́-bhyaḥ ǀ máṃhate ǀ maghám ǁpūrvīḥ ǀ indrasya ǀ rātayaḥ ǀ na ǀ vi ǀ dasyanti ǀ ūtayaḥ ǀ
yadi ǀ vājasya ǀ go-mataḥ ǀ stotṛ-bhyaḥ ǀ maṃhate ǀ magham ǁ1.11.3 Aṣṭaka 1.1.21.3Anuvāka 1.3.35
-
Ṛk 4
पु॒रां भिं॒दुर्युवा॑ क॒विरमि॑तौजा अजायत ।
इंद्रो॒ विश्व॑स्य॒ कर्म॑णो ध॒र्ता व॒ज्री पु॑रुष्टु॒तः ॥पुराम् भिन्दुर् युवा कविर् अमितौजा अजायत |
इन्द्रो विश्वस्य कर्मणो धर्ता वज्री पुरुष्टुतः ||purā́m bhindúryúvā kavírámitaujā ajāyata ǀ
índro víśvasya kármaṇo dhartā́ vajrī́ puruṣṭutáḥ ǁpurām bhindur yuvā kavir amitaujā ajāyata |
indro viśvasya karmaṇo dhartā vajrī puruṣṭutaḥ ||पु॒राम् । भि॒न्दुः । युवा॑ । क॒विः । अमि॑तऽओजाः । अ॒जा॒य॒त॒ ।
इन्द्रः॑ । विश्व॑स्य । कर्म॑णः । ध॒र्ता । व॒ज्री । पु॒रु॒ऽस्तु॒तः ॥पुराम् । भिन्दुः । युवा । कविः । अमितऽओजाः । अजायत ।
इन्द्रः । विश्वस्य । कर्मणः । धर्ता । वज्री । पुरुऽस्तुतः ॥purā́m ǀ bhindúḥ ǀ yúvā ǀ kavíḥ ǀ ámita-ojāḥ ǀ ajāyata ǀ
índraḥ ǀ víśvasya ǀ kármaṇaḥ ǀ dhartā́ ǀ vajrī́ ǀ puru-stutáḥ ǁpurām ǀ bhinduḥ ǀ yuvā ǀ kaviḥ ǀ amita-ojāḥ ǀ ajāyata ǀ
indraḥ ǀ viśvasya ǀ karmaṇaḥ ǀ dhartā ǀ vajrī ǀ puru-stutaḥ ǁ1.11.4 Aṣṭaka 1.1.21.4Anuvāka 1.3.36
-
Ṛk 5
त्वं व॒लस्य॒ गोम॒तोऽपा॑वरद्रिवो॒ बिलं॑ ।
त्वां दे॒वा अबि॑भ्युषस्तु॒ज्यमा॑नास आविषुः ॥त्वं वलस्य गोमतो ऽपावर् अद्रिवो बिलम् |
त्वां देवा अबिभ्युषस् तुज्यमानास आविषुः ||tvám valásya gómató’pāvaradrivo bílam ǀ
tvā́m devā́ ábibhyuṣastujyámānāsa āviṣuḥ ǁtvaṃ valasya gomato 'pāvar adrivo bilam |
tvāṃ devā abibhyuṣas tujyamānāsa āviṣuḥ ||त्वम् । व॒लस्य॑ । गोऽम॑तः । अप॑ । अ॒वः॒ । अ॒द्रि॒ऽवः॒ । बिल॑म् ।
त्वाम् । दे॒वाः । अबि॑भ्युषः । तु॒ज्यमा॑नासः । आ॒वि॒षुः॒ ॥त्वम् । वलस्य । गोऽमतः । अप । अवः । अद्रिऽवः । बिलम् ।
त्वाम् । देवाः । अबिभ्युषः । तुज्यमानासः । आविषुः ॥tvám ǀ valásya ǀ gó-mataḥ ǀ ápa ǀ avaḥ ǀ adri-vaḥ ǀ bílam ǀ
tvā́m ǀ devā́ḥ ǀ ábibhyuṣaḥ ǀ tujyámānāsaḥ ǀ āviṣuḥ ǁtvam ǀ valasya ǀ go-mataḥ ǀ apa ǀ avaḥ ǀ adri-vaḥ ǀ bilam ǀ
tvām ǀ devāḥ ǀ abibhyuṣaḥ ǀ tujyamānāsaḥ ǀ āviṣuḥ ǁ1.11.5 Aṣṭaka 1.1.21.5Anuvāka 1.3.37
-
Ṛk 6
तवा॒हं शू॑र रा॒तिभिः॒ प्रत्या॑यं॒ सिंधु॑मा॒वद॑न् ।
उपा॑तिष्ठंत गिर्वणो वि॒दुष्टे॒ तस्य॑ का॒रवः॑ ॥तवाहं शूर रातिभिः प्रत्य् आयं सिन्धुम् आवदन् |
उपातिष्ठन्त गिर्वणो विदुष् टे तस्य कारवः ||távāhám śūra rātíbhiḥ prátyāyam síndhumāvádan ǀ
úpātiṣṭhanta girvaṇo vidúṣṭe tásya kārávaḥ ǁtavāhaṃ śūra rātibhiḥ praty āyaṃ sindhum āvadan |
upātiṣṭhanta girvaṇo viduṣ ṭe tasya kāravaḥ ||तव॑ । अ॒हम् । शू॒र॒ । रा॒तिऽभिः॑ । प्रति॑ । आ॒य॒म् । सिन्धु॑म् । आ॒ऽवद॑न् ।
उप॑ । अ॒ति॒ष्ठ॒न्त॒ । गि॒र्व॒णः॒ । वि॒दुः । ते॒ । तस्य॑ । का॒रवः॑ ॥तव । अहम् । शूर । रातिऽभिः । प्रति । आयम् । सिन्धुम् । आऽवदन् ।
उप । अतिष्ठन्त । गिर्वणः । विदुः । ते । तस्य । कारवः ॥táva ǀ ahám ǀ śūra ǀ rātí-bhiḥ ǀ práti ǀ āyam ǀ síndhum ǀ ā-vádan ǀ
úpa ǀ atiṣṭhanta ǀ girvaṇaḥ ǀ vidúḥ ǀ te ǀ tásya ǀ kārávaḥ ǁtava ǀ aham ǀ śūra ǀ rāti-bhiḥ ǀ prati ǀ āyam ǀ sindhum ǀ ā-vadan ǀ
upa ǀ atiṣṭhanta ǀ girvaṇaḥ ǀ viduḥ ǀ te ǀ tasya ǀ kāravaḥ ǁ1.11.6 Aṣṭaka 1.1.21.6Anuvāka 1.3.38
-
Ṛk 7
मा॒याभि॑रिंद्र मा॒यिनं॒ त्वं शुष्ण॒मवा॑तिरः ।
वि॒दुष्टे॒ तस्य॒ मेधि॑रा॒स्तेषां॒ श्रवां॒स्युत्ति॑र ॥मायाभिर् इन्द्र मायिनं त्वं शुष्णम् अवातिरः |
विदुष् टे तस्य मेधिरास् तेषां श्रवांस्य् उत् तिर ||māyā́bhirindra māyínam tvám śúṣṇamávātiraḥ ǀ
vidúṣṭe tásya médhirāstéṣām śrávāṃsyúttira ǁmāyābhir indra māyinaṃ tvaṃ śuṣṇam avātiraḥ |
viduṣ ṭe tasya medhirās teṣāṃ śravāṃsy ut tira ||मा॒याभिः॑ । इ॒न्द्र॒ । मा॒यिन॑म् । त्वम् । शुष्ण॑म् । अव॑ । अ॒ति॒रः॒ ।
वि॒दुः । ते॒ । तस्य॑ । मेधि॑राः । तेषा॑म् । श्रवां॑सि । उत् । ति॒र॒ ॥मायाभिः । इन्द्र । मायिनम् । त्वम् । शुष्णम् । अव । अतिरः ।
विदुः । ते । तस्य । मेधिराः । तेषाम् । श्रवांसि । उत् । तिर ॥māyā́bhiḥ ǀ indra ǀ māyínam ǀ tvám ǀ śúṣṇam ǀ áva ǀ atiraḥ ǀ
vidúḥ ǀ te ǀ tásya ǀ médhirāḥ ǀ téṣām ǀ śrávāṃsi ǀ út ǀ tira ǁmāyābhiḥ ǀ indra ǀ māyinam ǀ tvam ǀ śuṣṇam ǀ ava ǀ atiraḥ ǀ
viduḥ ǀ te ǀ tasya ǀ medhirāḥ ǀ teṣām ǀ śravāṃsi ǀ ut ǀ tira ǁ1.11.7 Aṣṭaka 1.1.21.7Anuvāka 1.3.39
-
Ṛk 8
इंद्र॒मीशा॑न॒मोज॑सा॒भि स्तोमा॑ अनूषत ।
स॒हस्रं॒ यस्य॑ रा॒तय॑ उ॒त वा॒ संति॒ भूय॑सीः ॥इन्द्रम् ईशानम् ओजसाभि स्तोमा अनूषत |
सहस्रं यस्य रातय उत वा सन्ति भूयसीः ||índramī́śānamójasābhí stómā anūṣata ǀ
sahásram yásya rātáya utá vā sánti bhū́yasīḥ ǁindram īśānam ojasābhi stomā anūṣata |
sahasraṃ yasya rātaya uta vā santi bhūyasīḥ ||इन्द्र॑म् । ईशा॑नम् । ओज॑सा । अ॒भि । स्तोमाः॑ । अ॒नू॒ष॒त॒ ।
स॒हस्र॑म् । यस्य॑ । रा॒तयः॑ । उ॒त । वा॒ । सन्ति॑ । भूय॑सीः ॥इन्द्रम् । ईशानम् । ओजसा । अभि । स्तोमाः । अनूषत ।
सहस्रम् । यस्य । रातयः । उत । वा । सन्ति । भूयसीः ॥índram ǀ ī́śānam ǀ ójasā ǀ abhí ǀ stómāḥ ǀ anūṣata ǀ
sahásram ǀ yásya ǀ rātáyaḥ ǀ utá ǀ vā ǀ sánti ǀ bhū́yasīḥ ǁindram ǀ īśānam ǀ ojasā ǀ abhi ǀ stomāḥ ǀ anūṣata ǀ
sahasram ǀ yasya ǀ rātayaḥ ǀ uta ǀ vā ǀ santi ǀ bhūyasīḥ ǁ1.11.8 Aṣṭaka 1.1.21.8Anuvāka 1.3.40
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.