Ṛk 1.11.7
Saṃhitā
मा॒याभि॑रिंद्र मा॒यिनं॒ त्वं शुष्ण॒मवा॑तिरः ।
वि॒दुष्टे॒ तस्य॒ मेधि॑रा॒स्तेषां॒ श्रवां॒स्युत्ति॑र ॥
मायाभिर् इन्द्र मायिनं त्वं शुष्णम् अवातिरः |
विदुष् टे तस्य मेधिरास् तेषां श्रवांस्य् उत् तिर ||
māyā́bhirindra māyínam tvám śúṣṇamávātiraḥ ǀ
vidúṣṭe tásya médhirāstéṣām śrávāṃsyúttira ǁ
māyābhir indra māyinaṃ tvaṃ śuṣṇam avātiraḥ |
viduṣ ṭe tasya medhirās teṣāṃ śravāṃsy ut tira ||
Padapāṭha
मा॒याभिः॑ । इ॒न्द्र॒ । मा॒यिन॑म् । त्वम् । शुष्ण॑म् । अव॑ । अ॒ति॒रः॒ ।
वि॒दुः । ते॒ । तस्य॑ । मेधि॑राः । तेषा॑म् । श्रवां॑सि । उत् । ति॒र॒ ॥
मायाभिः । इन्द्र । मायिनम् । त्वम् । शुष्णम् । अव । अतिरः ।
विदुः । ते । तस्य । मेधिराः । तेषाम् । श्रवांसि । उत् । तिर ॥
māyā́bhiḥ ǀ indra ǀ māyínam ǀ tvám ǀ śúṣṇam ǀ áva ǀ atiraḥ ǀ
vidúḥ ǀ te ǀ tásya ǀ médhirāḥ ǀ téṣām ǀ śrávāṃsi ǀ út ǀ tira ǁ
māyābhiḥ ǀ indra ǀ māyinam ǀ tvam ǀ śuṣṇam ǀ ava ǀ atiraḥ ǀ
viduḥ ǀ te ǀ tasya ǀ medhirāḥ ǀ teṣām ǀ śravāṃsi ǀ ut ǀ tira ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.011.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.1.21.07
- Maṇḍala · Anuvāka · Ṛk
- 01.03.039
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Jetṛ Mādhucchandasa
- Chandas छन्दस्
- Anuṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.