Ṛgveda · Maṇḍala 1

Sūkta 89

Viśvedevās · Indra, Pūṣan, Viśvedevās · Gotama Rāhūgaṇa · 10 ṛks

Link
Devatā देवता
1-5, 7-10: Viśvedevās; 6: Indra, Pūṣan, Viśvedevās
Ṛṣi ऋषि
Gotama Rāhūgaṇa
Chandas छन्दस्
Jagatī, Triṣṭubh, Virāṭsthānā
Metres by ṛk

1st set of styles jagatī (2, 3, 7); nicṛjjagatī (1, 5); triṣṭup (9, 10); bhuriktriṣṭup (4); svarāḍbṛhatī (6); virāṭtrisṭup (8)

2nd set of styles jagatī (1-5, 7); triṣṭubh (8-10); virāṭsthānā (6)

  1. Ṛk 1

    आ नो॑ भ॒द्राः क्रत॑वो यंतु वि॒श्वतोऽद॑ब्धासो॒ अप॑रीतास उ॒द्भिदः॑ ।
    दे॒वा नो॒ यथा॒ सद॒मिद्वृ॒धे अस॒न्नप्रा॑युवो रक्षि॒तारो॑ दि॒वेदि॑वे ॥

    आ नो भद्राः क्रतवो यन्तु विश्वतो ऽदब्धासो अपरीतास उद्भिदः |
    देवा नो यथा सदम् इद् वृधे असन्न् अप्रायुवो रक्षितारो दिवे-दिवे ||

    ā́ no bhadrā́ḥ krátavo yantu viśvátó’dabdhāso áparītāsa udbhídaḥ ǀ
    devā́ no yáthā sádamídvṛdhé ásannáprāyuvo rakṣitā́ro divédive ǁ

    ā no bhadrāḥ kratavo yantu viśvato 'dabdhāso aparītāsa udbhidaḥ |
    devā no yathā sadam id vṛdhe asann aprāyuvo rakṣitāro dive-dive ||

    आ । नः॒ । भ॒द्राः । क्रत॑वः । य॒न्तु॒ । वि॒श्वतः॑ । अद॑ब्धासः । अप॑रिऽइतासः । उ॒त्ऽभिदः॑ ।
    दे॒वाः । नः॒ । यथा॑ । सद॑म् । इत् । वृ॒धे । अस॑न् । अप्र॑ऽआयुवः । र॒क्षि॒तारः॑ । दि॒वेऽदि॑वे ॥

    आ । नः । भद्राः । क्रतवः । यन्तु । विश्वतः । अदब्धासः । अपरिऽइतासः । उत्ऽभिदः ।
    देवाः । नः । यथा । सदम् । इत् । वृधे । असन् । अप्रऽआयुवः । रक्षितारः । दिवेऽदिवे ॥

    ā́ ǀ naḥ ǀ bhadrā́ḥ ǀ krátavaḥ ǀ yantu ǀ viśvátaḥ ǀ ádabdhāsaḥ ǀ ápari-itāsaḥ ǀ ut-bhídaḥ ǀ
    devā́ḥ ǀ naḥ ǀ yáthā ǀ sádam ǀ ít ǀ vṛdhé ǀ ásan ǀ ápra-āyuvaḥ ǀ rakṣitā́raḥ ǀ divé-dive ǁ

    ā ǀ naḥ ǀ bhadrāḥ ǀ kratavaḥ ǀ yantu ǀ viśvataḥ ǀ adabdhāsaḥ ǀ apari-itāsaḥ ǀ ut-bhidaḥ ǀ
    devāḥ ǀ naḥ ǀ yathā ǀ sadam ǀ it ǀ vṛdhe ǀ asan ǀ apra-āyuvaḥ ǀ rakṣitāraḥ ǀ dive-dive ǁ

    1.89.1 Aṣṭaka 1.6.15.1Anuvāka 1.14.35

  2. Ṛk 2

    दे॒वानां॑ भ॒द्रा सु॑म॒तिर्ऋ॑जूय॒तां दे॒वानां॑ रा॒तिर॒भि नो॒ नि व॑र्ततां ।
    दे॒वानां॑ स॒ख्यमुप॑ सेदिमा व॒यं दे॒वा न॒ आयुः॒ प्र ति॑रंतु जी॒वसे॑ ॥

    देवानाम् भद्रा सुमतिर् ऋजूयतां देवानां रातिर् अभि नो नि वर्तताम् |
    देवानां सख्यम् उप सेदिमा वयं देवा न आयुः प्र तिरन्तु जीवसे ||

    devā́nām bhadrā́ sumatírṛjūyatā́m devā́nām rātírabhí no ní vartatām ǀ
    devā́nām sakhyámúpa sedimā vayám devā́ na ā́yuḥ prá tirantu jīváse ǁ

    devānām bhadrā sumatir ṛjūyatāṃ devānāṃ rātir abhi no ni vartatām |
    devānāṃ sakhyam upa sedimā vayaṃ devā na āyuḥ pra tirantu jīvase ||

    दे॒वाना॑म् । भ॒द्रा । सु॒ऽम॒तिः । ऋ॒जु॒ऽय॒ताम् । दे॒वाना॑म् । रा॒तिः । अ॒भि । नः॒ । नि । व॒र्त॒ता॒म् ।
    दे॒वाना॑म् । स॒ख्यम् । उप॑ । से॒दि॒म॒ । व॒यम् । दे॒वाः । नः॒ । आयुः॑ । प्र । ति॒र॒न्तु॒ । जी॒वसे॑ ॥

    देवानाम् । भद्रा । सुऽमतिः । ऋजुऽयताम् । देवानाम् । रातिः । अभि । नः । नि । वर्तताम् ।
    देवानाम् । सख्यम् । उप । सेदिम । वयम् । देवाः । नः । आयुः । प्र । तिरन्तु । जीवसे ॥

    devā́nām ǀ bhadrā́ ǀ su-matíḥ ǀ ṛju-yatā́m ǀ devā́nām ǀ rātíḥ ǀ abhí ǀ naḥ ǀ ní ǀ vartatām ǀ
    devā́nām ǀ sakhyám ǀ úpa ǀ sedima ǀ vayám ǀ devā́ḥ ǀ naḥ ǀ ā́yuḥ ǀ prá ǀ tirantu ǀ jīváse ǁ

    devānām ǀ bhadrā ǀ su-matiḥ ǀ ṛju-yatām ǀ devānām ǀ rātiḥ ǀ abhi ǀ naḥ ǀ ni ǀ vartatām ǀ
    devānām ǀ sakhyam ǀ upa ǀ sedima ǀ vayam ǀ devāḥ ǀ naḥ ǀ āyuḥ ǀ pra ǀ tirantu ǀ jīvase ǁ

    1.89.2 Aṣṭaka 1.6.15.2Anuvāka 1.14.36

  3. Ṛk 3

    तान्पूर्व॑या नि॒विदा॑ हूमहे व॒यं भगं॑ मि॒त्रमदि॑तिं॒ दक्ष॑म॒स्रिधं॑ ।
    अ॒र्य॒मणं॒ वरु॑णं॒ सोम॑म॒श्विना॒ सर॑स्वती नः सु॒भगा॒ मय॑स्करत् ॥

    तान् पूर्वया निविदा हूमहे वयम् भगम् मित्रम् अदितिं दक्षम् अस्रिधम् |
    अर्यमणं वरुणं सोमम् अश्विना सरस्वती नः सुभगा मयस् करत् ||

    tā́npū́rvayā nivídā hūmahe vayám bhágam mitrámáditim dákṣamasrídham ǀ
    aryamáṇam váruṇam sómamaśvínā sárasvatī naḥ subhágā máyaskarat ǁ

    tān pūrvayā nividā hūmahe vayam bhagam mitram aditiṃ dakṣam asridham |
    aryamaṇaṃ varuṇaṃ somam aśvinā sarasvatī naḥ subhagā mayas karat ||

    तान् । पूर्व॑या । नि॒ऽविदा॑ । हू॒म॒हे॒ । व॒यम् । भग॑म् । मि॒त्रम् । अदि॑तिम् । दक्ष॑म् । अ॒स्रिध॑म् ।
    अ॒र्य॒मण॑म् । वरु॑णम् । सोम॑म् । अ॒श्विना॑ । सर॑स्वती । नः॒ । सु॒ऽभगा॑ । मयः॑ । क॒र॒त् ॥

    तान् । पूर्वया । निऽविदा । हूमहे । वयम् । भगम् । मित्रम् । अदितिम् । दक्षम् । अस्रिधम् ।
    अर्यमणम् । वरुणम् । सोमम् । अश्विना । सरस्वती । नः । सुऽभगा । मयः । करत् ॥

    tā́n ǀ pū́rvayā ǀ ni-vídā ǀ hūmahe ǀ vayám ǀ bhágam ǀ mitrám ǀ áditim ǀ dákṣam ǀ asrídham ǀ
    aryamáṇam ǀ váruṇam ǀ sómam ǀ aśvínā ǀ sárasvatī ǀ naḥ ǀ su-bhágā ǀ máyaḥ ǀ karat ǁ

    tān ǀ pūrvayā ǀ ni-vidā ǀ hūmahe ǀ vayam ǀ bhagam ǀ mitram ǀ aditim ǀ dakṣam ǀ asridham ǀ
    aryamaṇam ǀ varuṇam ǀ somam ǀ aśvinā ǀ sarasvatī ǀ naḥ ǀ su-bhagā ǀ mayaḥ ǀ karat ǁ

    1.89.3 Aṣṭaka 1.6.15.3Anuvāka 1.14.37

  4. Ṛk 4

    तन्नो॒ वातो॑ मयो॒भु वा॑तु भेष॒जं तन्मा॒ता पृ॑थि॒वी तत्पि॒ता द्यौः ।
    तद्ग्रावा॑णः सोम॒सुतो॑ मयो॒भुव॒स्तद॑श्विना शृणुतं धिष्ण्या यु॒वं ॥

    तन् नो वातो मयोभु वातु भेषजं तन् माता पृथिवी तत् पिता द्यौः |
    तद् ग्रावाणः सोमसुतो मयोभुवस् तद् अश्विना शृणुतं धिष्ण्या युवम् ||

    tánno vā́to mayobhú vātu bheṣajám tánmātā́ pṛthivī́ tátpitā́ dyáuḥ ǀ
    tádgrā́vāṇaḥ somasúto mayobhúvastádaśvinā śṛṇutam dhiṣṇyā yuvám ǁ

    tan no vāto mayobhu vātu bheṣajaṃ tan mātā pṛthivī tat pitā dyauḥ |
    tad grāvāṇaḥ somasuto mayobhuvas tad aśvinā śṛṇutaṃ dhiṣṇyā yuvam ||

    तत् । नः॒ । वातः॑ । म॒यः॒ऽभु । वा॒तु॒ । भे॒ष॒जम् । तत् । मा॒ता । पृ॒थि॒वी । तत् । पि॒ता । द्यौः ।
    तत् । ग्रावा॑णः । सो॒म॒ऽसुतः॑ । म॒यः॒ऽभुवः॑ । तत् । अ॒श्वि॒ना॒ । शृ॒णु॒त॒म् । धि॒ष्ण्या॒ । यु॒वम् ॥

    तत् । नः । वातः । मयःऽभु । वातु । भेषजम् । तत् । माता । पृथिवी । तत् । पिता । द्यौः ।
    तत् । ग्रावाणः । सोमऽसुतः । मयःऽभुवः । तत् । अश्विना । शृणुतम् । धिष्ण्या । युवम् ॥

    tát ǀ naḥ ǀ vā́taḥ ǀ mayaḥ-bhú ǀ vātu ǀ bheṣajám ǀ tát ǀ mātā́ ǀ pṛthivī́ ǀ tát ǀ pitā́ ǀ dyáuḥ ǀ
    tát ǀ grā́vāṇaḥ ǀ soma-sútaḥ ǀ mayaḥ-bhúvaḥ ǀ tát ǀ aśvinā ǀ śṛṇutam ǀ dhiṣṇyā ǀ yuvám ǁ

    tat ǀ naḥ ǀ vātaḥ ǀ mayaḥ-bhu ǀ vātu ǀ bheṣajam ǀ tat ǀ mātā ǀ pṛthivī ǀ tat ǀ pitā ǀ dyauḥ ǀ
    tat ǀ grāvāṇaḥ ǀ soma-sutaḥ ǀ mayaḥ-bhuvaḥ ǀ tat ǀ aśvinā ǀ śṛṇutam ǀ dhiṣṇyā ǀ yuvam ǁ

    1.89.4 Aṣṭaka 1.6.15.4Anuvāka 1.14.38

  5. Ṛk 5

    तमीशा॑नं॒ जग॑तस्त॒स्थुष॒स्पतिं॑ धियंजि॒न्वमव॑से हूमहे व॒यं ।
    पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑द्वृ॒धे र॑क्षि॒ता पा॒युरद॑ब्धः स्व॒स्तये॑ ॥

    तम् ईशानं जगतस् तस्थुषस् पतिं धियञ्जिन्वम् अवसे हूमहे वयम् |
    पूषा नो यथा वेदसाम् असद् वृधे रक्षिता पायुर् अदब्धः स्वस्तये ||

    támī́śānam jágatastasthúṣaspátim dhiyaṃjinvámávase hūmahe vayám ǀ
    pūṣā́ no yáthā védasāmásadvṛdhé rakṣitā́ pāyúrádabdhaḥ svastáye ǁ

    tam īśānaṃ jagatas tasthuṣas patiṃ dhiyañjinvam avase hūmahe vayam |
    pūṣā no yathā vedasām asad vṛdhe rakṣitā pāyur adabdhaḥ svastaye ||

    तम् । ईशा॑नम् । जग॑तः । त॒स्थुषः॑ । पति॑म् । धि॒य॒म्ऽजि॒न्वम् । अव॑से । हू॒म॒हे॒ । व॒यम् ।
    पू॒षा । नः॒ । यथा॑ । वेद॑साम् । अस॑त् । वृ॒धे । र॒क्षि॒ता । पा॒युः । अद॑ब्धः । स्व॒स्तये॑ ॥

    तम् । ईशानम् । जगतः । तस्थुषः । पतिम् । धियम्ऽजिन्वम् । अवसे । हूमहे । वयम् ।
    पूषा । नः । यथा । वेदसाम् । असत् । वृधे । रक्षिता । पायुः । अदब्धः । स्वस्तये ॥

    tám ǀ ī́śānam ǀ jágataḥ ǀ tasthúṣaḥ ǀ pátim ǀ dhiyam-jinvám ǀ ávase ǀ hūmahe ǀ vayám ǀ
    pūṣā́ ǀ naḥ ǀ yáthā ǀ védasām ǀ ásat ǀ vṛdhé ǀ rakṣitā́ ǀ pāyúḥ ǀ ádabdhaḥ ǀ svastáye ǁ

    tam ǀ īśānam ǀ jagataḥ ǀ tasthuṣaḥ ǀ patim ǀ dhiyam-jinvam ǀ avase ǀ hūmahe ǀ vayam ǀ
    pūṣā ǀ naḥ ǀ yathā ǀ vedasām ǀ asat ǀ vṛdhe ǀ rakṣitā ǀ pāyuḥ ǀ adabdhaḥ ǀ svastaye ǁ

    1.89.5 Aṣṭaka 1.6.15.5Anuvāka 1.14.39

  6. Ṛk 6

    स्व॒स्ति न॒ इंद्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः ।
    स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥

    स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः |
    स्वस्ति नस् तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर् दधातु ||

    svastí na índro vṛddháśravāḥ svastí naḥ pūṣā́ viśvávedāḥ ǀ
    svastí nastā́rkṣyo áriṣṭanemiḥ svastí no bṛ́haspátirdadhātu ǁ

    svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ |
    svasti nas tārkṣyo ariṣṭanemiḥ svasti no bṛhaspatir dadhātu ||

    स्व॒स्ति । नः॒ । इन्द्रः॑ । वृ॒द्धऽश्र॑वाः । स्व॒स्ति । नः॒ । पू॒षा । वि॒श्वऽवे॑दाः ।
    स्व॒स्ति । नः॒ । तार्क्ष्यः॑ । अरि॑ष्टऽनेमिः । स्व॒स्ति । नः॒ । बृह॒स्पतिः॑ । द॒धा॒तु॒ ॥

    स्वस्ति । नः । इन्द्रः । वृद्धऽश्रवाः । स्वस्ति । नः । पूषा । विश्वऽवेदाः ।
    स्वस्ति । नः । तार्क्ष्यः । अरिष्टऽनेमिः । स्वस्ति । नः । बृहस्पतिः । दधातु ॥

    svastí ǀ naḥ ǀ índraḥ ǀ vṛddhá-śravāḥ ǀ svastí ǀ naḥ ǀ pūṣā́ ǀ viśvá-vedāḥ ǀ
    svastí ǀ naḥ ǀ tā́rkṣyaḥ ǀ áriṣṭa-nemiḥ ǀ svastí ǀ naḥ ǀ bṛ́haspátiḥ ǀ dadhātu ǁ

    svasti ǀ naḥ ǀ indraḥ ǀ vṛddha-śravāḥ ǀ svasti ǀ naḥ ǀ pūṣā ǀ viśva-vedāḥ ǀ
    svasti ǀ naḥ ǀ tārkṣyaḥ ǀ ariṣṭa-nemiḥ ǀ svasti ǀ naḥ ǀ bṛhaspatiḥ ǀ dadhātu ǁ

    1.89.6 Aṣṭaka 1.6.16.1Anuvāka 1.14.40

  7. Ṛk 7

    पृष॑दश्वा म॒रुतः॒ पृश्नि॑मातरः शुभं॒यावा॑नो वि॒दथे॑षु॒ जग्म॑यः ।
    अ॒ग्नि॒जि॒ह्वा मन॑वः॒ सूर॑चक्षसो॒ विश्वे॑ नो दे॒वा अव॒सा ग॑मन्नि॒ह ॥

    पृषदश्वा मरुतः पृश्निमातरः शुभंयावानो विदथेषु जग्मयः |
    अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसा गमन्न् इह ||

    pṛ́ṣadaśvā marútaḥ pṛ́śnimātaraḥ śubhaṃyā́vāno vidátheṣu jágmayaḥ ǀ
    agnijihvā́ mánavaḥ sū́racakṣaso víśve no devā́ ávasā́ gamannihá ǁ

    pṛṣadaśvā marutaḥ pṛśnimātaraḥ śubhaṃyāvāno vidatheṣu jagmayaḥ |
    agnijihvā manavaḥ sūracakṣaso viśve no devā avasā gamann iha ||

    पृष॑त्ऽअश्वाः । म॒रुतः॑ । पृश्नि॑ऽमातरः । शु॒भ॒म्ऽयावा॑नः । वि॒दथे॑षु । जग्म॑यः ।
    अ॒ग्नि॒ऽजि॒ह्वाः । मन॑वः । सूर॑ऽचक्षसः । विश्वे॑ । नः॒ । दे॒वाः । अव॑सा । आ । ग॒म॒न् । इ॒ह ॥

    पृषत्ऽअश्वाः । मरुतः । पृश्निऽमातरः । शुभम्ऽयावानः । विदथेषु । जग्मयः ।
    अग्निऽजिह्वाः । मनवः । सूरऽचक्षसः । विश्वे । नः । देवाः । अवसा । आ । गमन् । इह ॥

    pṛ́ṣat-aśvāḥ ǀ marútaḥ ǀ pṛ́śni-mātaraḥ ǀ śubham-yā́vānaḥ ǀ vidátheṣu ǀ jágmayaḥ ǀ
    agni-jihvā́ḥ ǀ mánavaḥ ǀ sū́ra-cakṣasaḥ ǀ víśve ǀ naḥ ǀ devā́ḥ ǀ ávasā ǀ ā́ ǀ gaman ǀ ihá ǁ

    pṛṣat-aśvāḥ ǀ marutaḥ ǀ pṛśni-mātaraḥ ǀ śubham-yāvānaḥ ǀ vidatheṣu ǀ jagmayaḥ ǀ
    agni-jihvāḥ ǀ manavaḥ ǀ sūra-cakṣasaḥ ǀ viśve ǀ naḥ ǀ devāḥ ǀ avasā ǀ ā ǀ gaman ǀ iha ǁ

    1.89.7 Aṣṭaka 1.6.16.2Anuvāka 1.14.41

  8. Ṛk 8

    भ॒द्रं कर्णे॑भिः शृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्राः ।
    स्थि॒रैरंगै॑स्तुष्टु॒वांस॑स्त॒नूभि॒र्व्य॑शेम दे॒वहि॑तं॒ यदायुः॑ ॥

    भद्रं कर्णेभिः शृणुयाम देवा भद्रम् पश्येमाक्षभिर् यजत्राः |
    स्थिरैर् अङ्गैस् तुष्टुवांसस् तनूभिर् व्य् अशेम देवहितं यद् आयुः ||

    bhadrám kárṇebhiḥ śṛṇuyāma devā bhadrám paśyemākṣábhiryajatrāḥ ǀ
    sthiráiráṅgaistuṣṭuvā́ṃsastanū́bhirvyáśema deváhitam yádā́yuḥ ǁ

    bhadraṃ karṇebhiḥ śṛṇuyāma devā bhadram paśyemākṣabhir yajatrāḥ |
    sthirair aṅgais tuṣṭuvāṃsas tanūbhir vy aśema devahitaṃ yad āyuḥ ||

    भ॒द्रम् । कर्णे॑भिः । शृ॒णु॒या॒म॒ । दे॒वाः॒ । भ॒द्रम् । प॒श्ये॒म॒ । अ॒क्षऽभिः॑ । य॒ज॒त्राः॒ ।
    स्थि॒रैः । अङ्गैः॑ । तु॒स्तु॒ऽवांसः॑ । त॒नूभिः॑ । वि । अ॒शे॒म॒ । दे॒वऽहि॑तम् । यत् । आयुः॑ ॥

    भद्रम् । कर्णेभिः । शृणुयाम । देवाः । भद्रम् । पश्येम । अक्षऽभिः । यजत्राः ।
    स्थिरैः । अङ्गैः । तुस्तुऽवांसः । तनूभिः । वि । अशेम । देवऽहितम् । यत् । आयुः ॥

    bhadrám ǀ kárṇebhiḥ ǀ śṛṇuyāma ǀ devāḥ ǀ bhadrám ǀ paśyema ǀ akṣá-bhiḥ ǀ yajatrāḥ ǀ
    sthiráiḥ ǀ áṅgaiḥ ǀ tustu-vā́ṃsaḥ ǀ tanū́bhiḥ ǀ ví ǀ aśema ǀ devá-hitam ǀ yát ǀ ā́yuḥ ǁ

    bhadram ǀ karṇebhiḥ ǀ śṛṇuyāma ǀ devāḥ ǀ bhadram ǀ paśyema ǀ akṣa-bhiḥ ǀ yajatrāḥ ǀ
    sthiraiḥ ǀ aṅgaiḥ ǀ tustu-vāṃsaḥ ǀ tanūbhiḥ ǀ vi ǀ aśema ǀ deva-hitam ǀ yat ǀ āyuḥ ǁ

    1.89.8 Aṣṭaka 1.6.16.3Anuvāka 1.14.42

  9. Ṛk 9

    श॒तमिन्नु श॒रदो॒ अंति॑ देवा॒ यत्रा॑ नश्च॒क्रा ज॒रसं॑ त॒नूनां॑ ।
    पु॒त्रासो॒ यत्र॑ पि॒तरो॒ भवं॑ति॒ मा नो॑ म॒ध्या री॑रिष॒तायु॒र्गंतोः॑ ॥

    शतम् इन् नु शरदो अन्ति देवा यत्रा नश् चक्रा जरसं तनूनाम् |
    पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर् गन्तोः ||

    śatámínnú śarádo ánti devā yátrā naścakrā́ jarásam tanū́nām ǀ
    putrā́so yátra pitáro bhávanti mā́ no madhyā́ rīriṣatā́yurgántoḥ ǁ

    śatam in nu śarado anti devā yatrā naś cakrā jarasaṃ tanūnām |
    putrāso yatra pitaro bhavanti mā no madhyā rīriṣatāyur gantoḥ ||

    श॒तम् । इत् । नु । श॒रदः॑ । अन्ति॑ । दे॒वाः॒ । यत्र॑ । नः॒ । च॒क्र । ज॒रस॑म् । त॒नूना॑म् ।
    पु॒त्रासः॑ । यत्र॑ । पि॒तरः॑ । भव॑न्ति । मा । नः॒ । म॒ध्या । रि॒रि॒ष॒त॒ । आयुः॑ । गन्तोः॑ ॥

    शतम् । इत् । नु । शरदः । अन्ति । देवाः । यत्र । नः । चक्र । जरसम् । तनूनाम् ।
    पुत्रासः । यत्र । पितरः । भवन्ति । मा । नः । मध्या । रिरिषत । आयुः । गन्तोः ॥

    śatám ǀ ít ǀ nú ǀ śarádaḥ ǀ ánti ǀ devāḥ ǀ yátra ǀ naḥ ǀ cakrá ǀ jarásam ǀ tanū́nām ǀ
    putrā́saḥ ǀ yátra ǀ pitáraḥ ǀ bhávanti ǀ mā́ ǀ naḥ ǀ madhyā́ ǀ ririṣata ǀ ā́yuḥ ǀ gántoḥ ǁ

    śatam ǀ it ǀ nu ǀ śaradaḥ ǀ anti ǀ devāḥ ǀ yatra ǀ naḥ ǀ cakra ǀ jarasam ǀ tanūnām ǀ
    putrāsaḥ ǀ yatra ǀ pitaraḥ ǀ bhavanti ǀ mā ǀ naḥ ǀ madhyā ǀ ririṣata ǀ āyuḥ ǀ gantoḥ ǁ

    1.89.9 Aṣṭaka 1.6.16.4Anuvāka 1.14.43

  10. Ṛk 10

    अदि॑ति॒र्द्यौरदि॑तिरं॒तरि॑क्ष॒मदि॑तिर्मा॒ता स पि॒ता स पु॒त्रः ।
    विश्वे॑ दे॒वा अदि॑तिः॒ पंच॒ जना॒ अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वं ॥

    अदितिर् द्यौर् अदितिर् अन्तरिक्षम् अदितिर् माता स पिता स पुत्रः |
    विश्वे देवा अदितिः पञ्च जना अदितिर् जातम् अदितिर् जनित्वम् ||

    áditirdyáuráditirantárikṣamáditirmātā́ sá pitā́ sá putráḥ ǀ
    víśve devā́ áditiḥ páñca jánā áditirjātámáditirjánitvam ǁ

    aditir dyaur aditir antarikṣam aditir mātā sa pitā sa putraḥ |
    viśve devā aditiḥ pañca janā aditir jātam aditir janitvam ||

    अदि॑तिः । द्यौः । अदि॑तिः । अ॒न्तरि॑क्षम् । अदि॑तिः । मा॒ता । सः । पि॒ता । सः । पु॒त्रः ।
    विश्वे॑ । दे॒वाः । अदि॑तिः । पञ्च॑ । जनाः॑ । अदि॑तिः । जा॒तम् । अदि॑तिः । जनि॑ऽत्वम् ॥

    अदितिः । द्यौः । अदितिः । अन्तरिक्षम् । अदितिः । माता । सः । पिता । सः । पुत्रः ।
    विश्वे । देवाः । अदितिः । पञ्च । जनाः । अदितिः । जातम् । अदितिः । जनिऽत्वम् ॥

    áditiḥ ǀ dyáuḥ ǀ áditiḥ ǀ antárikṣam ǀ áditiḥ ǀ mātā́ ǀ sáḥ ǀ pitā́ ǀ sáḥ ǀ putráḥ ǀ
    víśve ǀ devā́ḥ ǀ áditiḥ ǀ páñca ǀ jánāḥ ǀ áditiḥ ǀ jātám ǀ áditiḥ ǀ jáni-tvam ǁ

    aditiḥ ǀ dyauḥ ǀ aditiḥ ǀ antarikṣam ǀ aditiḥ ǀ mātā ǀ saḥ ǀ pitā ǀ saḥ ǀ putraḥ ǀ
    viśve ǀ devāḥ ǀ aditiḥ ǀ pañca ǀ janāḥ ǀ aditiḥ ǀ jātam ǀ aditiḥ ǀ jani-tvam ǁ

    1.89.10 Aṣṭaka 1.6.16.5Anuvāka 1.14.44

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.89 · Viśvedevās · Indra, Pūṣan, Viśvedevās

Interpretations

Nolini Kanta Gupta

Ṛk 1

MAY the happy (blissful) Sacrifices come to us from every­where, indomitable, invincible, upsoaring. May the Gods be there for our increase, may they never abandon us, may they protect us day after day.

Ṛk 2

May the perfect, the happy Mind of the Gods who move in the straight path, and their gifts be turned towards us. May we share the friendship of the Gods. May they carry forward our span of life.

Ṛk 3

With the ancient mantra we invoke them all – Bhaga and Mitra and Aditi and the unstumbling Daksha, Aryaman too, and Varuna and the twin Aswins. May Saraswati, Mother of bliss, create happiness for us.

Ṛk 4

That healing draught, creative of Delight, may the Wind blow over to us; may Earth the mother and Heaven the ather and also the Grinding Stones that press out soma-juice and create delight blow over the same to us. O Aswins, Masters of knowledge, listen to us, both of you.

Ṛk 5

Him, the Supreme Master, Lord of the moving and the unmoving, approachable through the understanding, we call for protection. May the Fosterer be there too to increase our realms of knowledge. May he be there for our welfare, the inviolable guardian and saviour.

Ṛk 6

May lndra of the full-grown hearing bring to us the Su­preme Welfare. May the all-knowing Fosterer also bring to us the Supreme Welfare. And the Fashioner whose cha­riot wheels move on unhurt, may he too bring to us the Supreme Welfare. And the same Supreme Welfare may Brihaspati establish in us.

Ṛk 7

Dappled steeds are the Storm-Gods and their Mothers are of dappled hue. Happy is their journey and they move from knowledge to knowledge. They have tongues of fire, thinking beings are they, sun-eyed, may all these Gods come to us for guarding us.

Ṛk 8

Happy be the hearing to our ears, happy be the seeing to our eyes. O Gods, Lords of the Sacrifice, we invoke them with all our limbs firm and steady; may we enjoy that span of life established in the Gods.

Ṛk 9

Beside us stretch a hundred autumns. They bring age to our bodies there, therein the sons become fathers. In this fleeting life-span do not be hostile to us, O Gods.

Ṛk 10

The One Mother is the heaven and the mid-space. She is the mother and the father and the son. All the Gods are Herself, Herself are the Five Peoples. The One Mother is the creature (created being) and the creatrix.