Sūkta 69
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Parāśara Śāktya
- Chandas छन्दस्
- Dvipadā Virāj
Metres by ṛk
1st set of styles dvipadā virāt (6-10); nicṛtpaṅkti (2, 3); paṅktiḥ (1); bhurikpaṅkti (4); bhurigbṛhatī (5)
2nd set of styles dvipadā virāj
-
Ṛk 1
शु॒क्रः शु॑शु॒क्वाँ उ॒षो न जा॒रः प॒प्रा स॑मी॒ची दि॒वो न ज्योतिः॑ ॥
शुक्रः शुशुक्वां उषो न जारः पप्रा समीची दिवो न ज्योतिः ||
śukráḥ śuśukvā́m̐ uṣó ná jāráḥ paprā́ samīcī́ divó ná jyótiḥ ǁ
śukraḥ śuśukvāṃ uṣo na jāraḥ paprā samīcī divo na jyotiḥ ||
शु॒क्रः । शु॒शु॒क्वान् । उ॒षः । न । जा॒रः । प॒प्रा । स॒मी॒ची इति॑ स॒म्ऽई॒ची । दि॒वः । न । ज्योतिः॑ ॥
शुक्रः । शुशुक्वान् । उषः । न । जारः । पप्रा । समीची इति सम्ऽईची । दिवः । न । ज्योतिः ॥
śukráḥ ǀ śuśukvā́n ǀ uṣáḥ ǀ ná ǀ jāráḥ ǀ paprā́ ǀ samīcī́ íti sam-īcī́ ǀ diváḥ ǀ ná ǀ jyótiḥ ǁ
śukraḥ ǀ śuśukvān ǀ uṣaḥ ǀ na ǀ jāraḥ ǀ paprā ǀ samīcī iti sam-īcī ǀ divaḥ ǀ na ǀ jyotiḥ ǁ
1.69.1 Aṣṭaka 1.5.13.1Anuvāka 1.12.41
-
Ṛk 2
परि॒ प्रजा॑तः॒ क्रत्वा॑ बभूथ॒ भुवो॑ दे॒वानां॑ पि॒ता पु॒त्रः सन् ॥
परि प्रजातः क्रत्वा बभूथ भुवो देवानाम् पिता पुत्रः सन् ||
pári prájātaḥ krátvā babhūtha bhúvo devā́nām pitā́ putráḥ sán ǁ
pari prajātaḥ kratvā babhūtha bhuvo devānām pitā putraḥ san ||
परि॑ । प्रऽजा॑तः । क्रत्वा॑ । ब॒भू॒थ॒ । भुवः॑ । दे॒वाना॑म् । पि॒ता । पु॒त्रः । सन् ॥
परि । प्रऽजातः । क्रत्वा । बभूथ । भुवः । देवानाम् । पिता । पुत्रः । सन् ॥
pári ǀ prá-jātaḥ ǀ krátvā ǀ babhūtha ǀ bhúvaḥ ǀ devā́nām ǀ pitā́ ǀ putráḥ ǀ sán ǁ
pari ǀ pra-jātaḥ ǀ kratvā ǀ babhūtha ǀ bhuvaḥ ǀ devānām ǀ pitā ǀ putraḥ ǀ san ǁ
1.69.2 Aṣṭaka 1.5.13.2Anuvāka 1.12.42
-
Ṛk 3
वे॒धा अदृ॑प्तो अ॒ग्निर्वि॑जा॒नन्नूध॒र्न गोनां॒ स्वाद्मा॑ पितू॒नां ॥
वेधा अदृप्तो अग्निर् विजानन्न् ऊधर् न गोनां स्वाद्मा पितूनाम् ||
vedhā́ ádṛpto agnírvijānánnū́dharná gónām svā́dmā pitūnā́m ǁ
vedhā adṛpto agnir vijānann ūdhar na gonāṃ svādmā pitūnām ||
वे॒धाः । अदृ॑प्तः । अ॒ग्निः । वि॒ऽजा॒नन् । ऊधः॑ । न । गोना॑म् । स्वाद्म॑ । पि॒तू॒नाम् ॥
वेधाः । अदृप्तः । अग्निः । विऽजानन् । ऊधः । न । गोनाम् । स्वाद्म । पितूनाम् ॥
vedhā́ḥ ǀ ádṛptaḥ ǀ agníḥ ǀ vi-jānán ǀ ū́dhaḥ ǀ ná ǀ gónām ǀ svā́dma ǀ pitūnā́m ǁ
vedhāḥ ǀ adṛptaḥ ǀ agniḥ ǀ vi-jānan ǀ ūdhaḥ ǀ na ǀ gonām ǀ svādma ǀ pitūnām ǁ
1.69.3 Aṣṭaka 1.5.13.3Anuvāka 1.12.43
-
Ṛk 4
जने॒ न शेव॑ आ॒हूर्यः॒ सन्मध्ये॒ निष॑त्तो र॒ण्वो दु॑रो॒णे ॥
जने न शेव आहूर्यः सन् मध्ये निषत्तो रण्वो दुरोणे ||
jáne ná śéva āhū́ryaḥ sánmádhye níṣatto raṇvó duroṇé ǁ
jane na śeva āhūryaḥ san madhye niṣatto raṇvo duroṇe ||
जने॑ । न । शेव॑ । आ॒ऽहूर्यः॑ । सन् । मध्ये॑ । निऽस॑त्तः । र॒ण्वः । दु॒रो॒णे ॥
जने । न । शेव । आऽहूर्यः । सन् । मध्ये । निऽसत्तः । रण्वः । दुरोणे ॥
jáne ǀ ná ǀ śéva ǀ ā-hū́ryaḥ ǀ sán ǀ mádhye ǀ ní-sattaḥ ǀ raṇváḥ ǀ duroṇé ǁ
jane ǀ na ǀ śeva ǀ ā-hūryaḥ ǀ san ǀ madhye ǀ ni-sattaḥ ǀ raṇvaḥ ǀ duroṇe ǁ
1.69.4 Aṣṭaka 1.5.13.4Anuvāka 1.12.44
-
Ṛk 5
पु॒त्रो न जा॒तो र॒ण्वो दु॑रो॒णे वा॒जी न प्री॒तो विशो॒ वि ता॑रीत् ॥
पुत्रो न जातो रण्वो दुरोणे वाजी न प्रीतो विशो वि तारीत् ||
putró ná jātó raṇvó duroṇé vājī́ ná prītó víśo ví tārīt ǁ
putro na jāto raṇvo duroṇe vājī na prīto viśo vi tārīt ||
पु॒त्रः । न । जा॒तः । र॒ण्वः । दु॒रो॒णे । वा॒जी । न । प्री॒तः । विशः॑ । वि । ता॒री॒त् ॥
पुत्रः । न । जातः । रण्वः । दुरोणे । वाजी । न । प्रीतः । विशः । वि । तारीत् ॥
putráḥ ǀ ná ǀ jātáḥ ǀ raṇváḥ ǀ duroṇé ǀ vājī́ ǀ ná ǀ prītáḥ ǀ víśaḥ ǀ ví ǀ tārīt ǁ
putraḥ ǀ na ǀ jātaḥ ǀ raṇvaḥ ǀ duroṇe ǀ vājī ǀ na ǀ prītaḥ ǀ viśaḥ ǀ vi ǀ tārīt ǁ
1.69.5 Aṣṭaka 1.5.13.5Anuvāka 1.12.45
-
Ṛk 6
विशो॒ यदह्वे॒ नृभिः॒ सनी॑ळा अ॒ग्निर्दे॑व॒त्वा विश्वा॑न्यश्याः ॥
विशो यद् अह्वे नृभिः सनीऌआ अग्निर् देवत्वा विश्वान्य् अश्याः ||
víśo yádáhve nṛ́bhiḥ sánīḷā agnírdevatvā́ víśvānyaśyāḥ ǁ
viśo yad ahve nṛbhiḥ sanīḷā agnir devatvā viśvāny aśyāḥ ||
विशः॑ । यत् । अह्वे॑ । नृऽभिः॑ । सऽनी॑ळाः । अ॒ग्निः । दे॒व॒ऽत्वा । विश्वा॑नि । अ॒श्याः॒ ॥
विशः । यत् । अह्वे । नृऽभिः । सऽनीळाः । अग्निः । देवऽत्वा । विश्वानि । अश्याः ॥
víśaḥ ǀ yát ǀ áhve ǀ nṛ́-bhiḥ ǀ sá-nīḷāḥ ǀ agníḥ ǀ deva-tvā́ ǀ víśvāni ǀ aśyāḥ ǁ
viśaḥ ǀ yat ǀ ahve ǀ nṛ-bhiḥ ǀ sa-nīḷāḥ ǀ agniḥ ǀ deva-tvā ǀ viśvāni ǀ aśyāḥ ǁ
1.69.6 Aṣṭaka 1.5.13.6Anuvāka 1.12.46
-
Ṛk 7
नकि॑ष्ट ए॒ता व्र॒ता मि॑नंति॒ नृभ्यो॒ यदे॒भ्यः श्रु॒ष्टिं च॒कर्थ॑ ॥
नकिष् ट एता व्रता मिनन्ति नृभ्यो यद् एभ्यः श्रुष्टिं चकर्थ ||
nákiṣṭa etā́ vratā́ minanti nṛ́bhyo yádebhyáḥ śruṣṭím cakártha ǁ
nakiṣ ṭa etā vratā minanti nṛbhyo yad ebhyaḥ śruṣṭiṃ cakartha ||
नकिः॑ । ते॒ । ए॒ता । व्र॒ता । मि॒न॒न्ति॒ । नृऽभ्यः॑ । यत् । ए॒भ्यः । श्रु॒ष्टिम् । च॒कर्थ॑ ॥
नकिः । ते । एता । व्रता । मिनन्ति । नृऽभ्यः । यत् । एभ्यः । श्रुष्टिम् । चकर्थ ॥
nákiḥ ǀ te ǀ etā́ ǀ vratā́ ǀ minanti ǀ nṛ́-bhyaḥ ǀ yát ǀ ebhyáḥ ǀ śruṣṭím ǀ cakártha ǁ
nakiḥ ǀ te ǀ etā ǀ vratā ǀ minanti ǀ nṛ-bhyaḥ ǀ yat ǀ ebhyaḥ ǀ śruṣṭim ǀ cakartha ǁ
1.69.7 Aṣṭaka 1.5.13.7Anuvāka 1.12.47
-
Ṛk 8
तत्तु ते॒ दंसो॒ यदह॑न्त्समा॒नैर्नृभि॒र्यद्यु॒क्तो वि॒वे रपां॑सि ॥
तत् तु ते दंसो यद् अहन् समानैर् नृभिर् यद् युक्तो विवे रपांसि ||
táttú te dáṃso yádáhantsamānáirnṛ́bhiryádyuktó vivé rápāṃsi ǁ
tat tu te daṃso yad ahan samānair nṛbhir yad yukto vive rapāṃsi ||
तत् । तु । ते॒ । दंसः॑ । यत् । अह॑न् । स॒मा॒नैः । नृऽभिः॑ । यत् । यु॒क्तः । वि॒वेः । रपां॑सि ॥
तत् । तु । ते । दंसः । यत् । अहन् । समानैः । नृऽभिः । यत् । युक्तः । विवेः । रपांसि ॥
tát ǀ tú ǀ te ǀ dáṃsaḥ ǀ yát ǀ áhan ǀ samānáiḥ ǀ nṛ́-bhiḥ ǀ yát ǀ yuktáḥ ǀ vivéḥ ǀ rápāṃsi ǁ
tat ǀ tu ǀ te ǀ daṃsaḥ ǀ yat ǀ ahan ǀ samānaiḥ ǀ nṛ-bhiḥ ǀ yat ǀ yuktaḥ ǀ viveḥ ǀ rapāṃsi ǁ
1.69.8 Aṣṭaka 1.5.13.8Anuvāka 1.12.48
-
Ṛk 9
उ॒षो न जा॒रो वि॒भावो॒स्रः संज्ञा॑तरूप॒श्चिके॑तदस्मै ॥
उषो न जारो विभावोस्रः संज्ञातरूपश् चिकेतद् अस्मै ||
uṣó ná jāró vibhā́vosráḥ sáṃjñātarūpaścíketadasmai ǁ
uṣo na jāro vibhāvosraḥ saṃjñātarūpaś ciketad asmai ||
उ॒षः । न । जा॒रः । वि॒भाऽवा॑ । उ॒स्रः । सञ्ज्ञा॑तऽरूपः । चिके॑तत् । अ॒स्मै॒ ॥
उषः । न । जारः । विभाऽवा । उस्रः । सञ्ज्ञातऽरूपः । चिकेतत् । अस्मै ॥
uṣáḥ ǀ ná ǀ jāráḥ ǀ vibhā́-vā ǀ usráḥ ǀ sáñjñāta-rūpaḥ ǀ cíketat ǀ asmai ǁ
uṣaḥ ǀ na ǀ jāraḥ ǀ vibhā-vā ǀ usraḥ ǀ sañjñāta-rūpaḥ ǀ ciketat ǀ asmai ǁ
1.69.9 Aṣṭaka 1.5.13.9Anuvāka 1.12.49
-
Ṛk 10
त्मना॒ वहं॑तो॒ दुरो॒ व्यृ॑ण्व॒न्नवं॑त॒ विश्वे॒ स्व१॒॑र्दृशी॑के ॥
त्मना वहन्तो दुरो व्य् ऋण्वन् नवन्त विश्वे स्वर् दृशीके ||
tmánā váhanto dúro vyṛ́ṇvannávanta víśve svárdṛ́śīke ǁ
tmanā vahanto duro vy ṛṇvan navanta viśve svar dṛśīke ||
त्मना॑ । वह॑न्तः । दुरः॑ । वि । ऋ॒ण्व॒न् । नव॑न्त । विश्वे॑ । स्वः॑ । दृशी॑के ॥
त्मना । वहन्तः । दुरः । वि । ऋण्वन् । नवन्त । विश्वे । स्वः । दृशीके ॥
tmánā ǀ váhantaḥ ǀ dúraḥ ǀ ví ǀ ṛṇvan ǀ návanta ǀ víśve ǀ sváḥ ǀ dṛ́śīke ǁ
tmanā ǀ vahantaḥ ǀ duraḥ ǀ vi ǀ ṛṇvan ǀ navanta ǀ viśve ǀ svaḥ ǀ dṛśīke ǁ
1.69.10 Aṣṭaka 1.5.13.10Anuvāka 1.12.50
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.