Ṛk 1.69.1
Saṃhitā
शु॒क्रः शु॑शु॒क्वाँ उ॒षो न जा॒रः प॒प्रा स॑मी॒ची दि॒वो न ज्योतिः॑ ॥
शुक्रः शुशुक्वां उषो न जारः पप्रा समीची दिवो न ज्योतिः ||
śukráḥ śuśukvā́m̐ uṣó ná jāráḥ paprā́ samīcī́ divó ná jyótiḥ ǁ
śukraḥ śuśukvāṃ uṣo na jāraḥ paprā samīcī divo na jyotiḥ ||
Padapāṭha
शु॒क्रः । शु॒शु॒क्वान् । उ॒षः । न । जा॒रः । प॒प्रा । स॒मी॒ची इति॑ स॒म्ऽई॒ची । दि॒वः । न । ज्योतिः॑ ॥
शुक्रः । शुशुक्वान् । उषः । न । जारः । पप्रा । समीची इति सम्ऽईची । दिवः । न । ज्योतिः ॥
śukráḥ ǀ śuśukvā́n ǀ uṣáḥ ǀ ná ǀ jāráḥ ǀ paprā́ ǀ samīcī́ íti sam-īcī́ ǀ diváḥ ǀ ná ǀ jyótiḥ ǁ
śukraḥ ǀ śuśukvān ǀ uṣaḥ ǀ na ǀ jāraḥ ǀ paprā ǀ samīcī iti sam-īcī ǀ divaḥ ǀ na ǀ jyotiḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.069.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.5.13.01
- Maṇḍala · Anuvāka · Ṛk
- 1.12.041
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Parāśara Śāktya
- Chandas छन्दस्
- Dvipadā Virāj
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.