Ṛgveda · Maṇḍala 1 · Sūkta 69

Ṛk 1.69.10

Agni · Parāśara Śāktya

The whole sūkta Link

Saṃhitā

त्मना॒ वहं॑तो॒ दुरो॒ व्यृ॑ण्व॒न्नवं॑त॒ विश्वे॒ स्व१॒॑र्दृशी॑के ॥

त्मना वहन्तो दुरो व्य् ऋण्वन् नवन्त विश्वे स्वर् दृशीके ||

tmánā váhanto dúro vyṛ́ṇvannávanta víśve svárdṛ́śīke ǁ

tmanā vahanto duro vy ṛṇvan navanta viśve svar dṛśīke ||

Padapāṭha

त्मना॑ । वह॑न्तः । दुरः॑ । वि । ऋ॒ण्व॒न् । नव॑न्त । विश्वे॑ । स्वः॑ । दृशी॑के ॥

त्मना । वहन्तः । दुरः । वि । ऋण्वन् । नवन्त । विश्वे । स्वः । दृशीके ॥

tmánā ǀ váhantaḥ ǀ dúraḥ ǀ ví ǀ ṛṇvan ǀ návanta ǀ víśve ǀ sváḥ ǀ dṛ́śīke ǁ

tmanā ǀ vahantaḥ ǀ duraḥ ǀ vi ǀ ṛṇvan ǀ navanta ǀ viśve ǀ svaḥ ǀ dṛśīke ǁ

References

Maṇḍala · Sūkta · Ṛk
01.069.10
Aṣṭaka · Adhyāya · Varga · Ṛk
1.5.13.10
Maṇḍala · Anuvāka · Ṛk
1.12.050
Devatā देवता
Agni
Ṛṣi ऋषि
Parāśara Śāktya
Chandas छन्दस्
Dvipadā Virāj
Svara स्वरः
पञ्चमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.69.10

Interpretations

Sāyaṇa

उषो न जार उषसो जरयितादित्य इव विभावा विशिष्टप्रकाशयुक्त उस्रो निवासयिता संज्ञातरूपः सर्वैः प्राणाभिरवगतस्वरूपः । देवतांतरवदप्रत्यक्षो न भवतीत्यर्थः । एवंभूतोऽग्नि रस्मै यजमानाय चिकेतत् । जानातु । अभिमतफलं ददात्वित्यर्थः । यद्वा । विभक्तिव्यत्ययः । अस्मा इदं सूक्तरूपं स्तोत्रं चिकेतत् । जानातु । तथास्य रश्मयस्त्मनात्मनैव स्वयमेव वहंतो हविर्वहनं कुर्वंतो दुरो यज्ञगृहद्वाराणि व्यृण्वन् । विशेषेण गच्छंति । व्याप्नुवंतीत्यर्थः । तदनंतरं दृशीके दर्शनीये स्वर्नभसि विश्वे सर्वे ते रश्मयो नवंत । गच्छंति । नवतिर्गतिकर्मा । देवान्प्राप्नुवंतीत्यर्थः ॥ उस्रः । वस निवासे । स्भायितंचीत्यादिना रक् । यजादित्वात्संप्रसारणं । चिकेतत् । कित ज्ञाने । जौहोत्यादिकः । लेट्यडागमः । बहुलं छंदसीति वक्तव्यं । का ७-३-८७-१ । इति वचनान्नाभ्यस्तस्याचि पीतिति लघूपधगुणप्रतिषेधाभावः । अभ्यस्तानामादिरित्याद्युदात्तत्वं । ऋण्वन् । इवि रिवि रवि धवि गत्यर्थाः । इदित्त्वान्नुम् । छांदसो लङ् । व्यत्ययेन रेफस्य संप्रसारणं । यद्वा ऋणु गतौ । तनोत्यादिः ॥ ९ ॥ १० ॥