Ṛgveda · Maṇḍala 1 · Sūkta 69

Ṛk 1.69.6

Agni · Parāśara Śāktya

The whole sūkta Link

Saṃhitā

विशो॒ यदह्वे॒ नृभिः॒ सनी॑ळा अ॒ग्निर्दे॑व॒त्वा विश्वा॑न्यश्याः ॥

विशो यद् अह्वे नृभिः सनीऌआ अग्निर् देवत्वा विश्वान्य् अश्याः ||

víśo yádáhve nṛ́bhiḥ sánīḷā agnírdevatvā́ víśvānyaśyāḥ ǁ

viśo yad ahve nṛbhiḥ sanīḷā agnir devatvā viśvāny aśyāḥ ||

Padapāṭha

विशः॑ । यत् । अह्वे॑ । नृऽभिः॑ । सऽनी॑ळाः । अ॒ग्निः । दे॒व॒ऽत्वा । विश्वा॑नि । अ॒श्याः॒ ॥

विशः । यत् । अह्वे । नृऽभिः । सऽनीळाः । अग्निः । देवऽत्वा । विश्वानि । अश्याः ॥

víśaḥ ǀ yát ǀ áhve ǀ nṛ́-bhiḥ ǀ sá-nīḷāḥ ǀ agníḥ ǀ deva-tvā́ ǀ víśvāni ǀ aśyāḥ ǁ

viśaḥ ǀ yat ǀ ahve ǀ nṛ-bhiḥ ǀ sa-nīḷāḥ ǀ agniḥ ǀ deva-tvā ǀ viśvāni ǀ aśyāḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
01.069.06
Aṣṭaka · Adhyāya · Varga · Ṛk
1.5.13.06
Maṇḍala · Anuvāka · Ṛk
1.12.046
Devatā देवता
Agni
Ṛṣi ऋषि
Parāśara Śāktya
Chandas छन्दस्
Dvipadā Virāj
Svara स्वरः
पञ्चमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.69.6

Interpretations

Sāyaṇa

पुत्रो न पुत्र इव जातः प्रादुर्भूतोऽग्निर्दुरोणे गृहे रण्वो रमयिता भवति । वाजी न अश्व इव प्रीतो हर्षयुक्तः सन्विशः संग्रामे वर्तमानाः शत्रुःभूताः प्रजा वि तारीत् । विशेषेण तरति । अतिक्रामति । अपि च नृभिर्ऋत्विग्लक्षणैर्मनुष्यैः सहितोऽहं सनीळाः समाननिवासस्थाना विशो दैवीः प्रजा यद्यदाह्वे आह्वयामि तदानीमयमग्निर्विश्वानि सर्वाणि देवत्वा देवत्वान्यश्याः । अश्नुते । प्राप्नोति । स्वयमेव तत्तद्देवतारूपो भवतीत्यर्थः । तथा च मंत्रांतर माम्नास्यते । त्वमग्ने वरुणो जायसे यत्त्वं मित्रो भवसि यत्समिद्ध इत्यादि । ऋग्वे ५-३-१ ॥ अश्याः । अशू व्याप्तौ । लिङि व्यत्ययेन परस्मैपदमध्यमौ । बहुलं छंदसीति विकरणस्य लुक् ॥ ५ ॥ ६ ॥