Sūkta 41
- Devatā देवता
- 1-3, 7-9: Aryaman, Mitra, Varuṇa; 4-6: Ādityās
- Ṛṣi ऋषि
- Kaṇva Ghaura
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles gāyatrī (1, 4, 5, 8); nicṛdgāyatrī (3, 7, 9); virāḍgāyatrī (2, 6)
2nd set of styles gāyatrī
-
Ṛk 1
यं रक्षं॑ति॒ प्रचे॑तसो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
नू चि॒त्स द॑भ्यते॒ जनः॑ ॥यं रक्षन्ति प्रचेतसो वरुणो मित्रो अर्यमा |
नू चित् स दभ्यते जनः ||yám rákṣanti prácetaso váruṇo mitró aryamā́ ǀ
nū́ citsá dabhyate jánaḥ ǁyaṃ rakṣanti pracetaso varuṇo mitro aryamā |
nū cit sa dabhyate janaḥ ||यम् । रक्ष॑न्ति । प्रऽचे॑तसः । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ।
नु । चि॒त् । सः । द॒भ्य॒ते॒ । जनः॑ ॥यम् । रक्षन्ति । प्रऽचेतसः । वरुणः । मित्रः । अर्यमा ।
नु । चित् । सः । दभ्यते । जनः ॥yám ǀ rákṣanti ǀ prá-cetasaḥ ǀ váruṇaḥ ǀ mitráḥ ǀ aryamā́ ǀ
nú ǀ cit ǀ sáḥ ǀ dabhyate ǀ jánaḥ ǁyam ǀ rakṣanti ǀ pra-cetasaḥ ǀ varuṇaḥ ǀ mitraḥ ǀ aryamā ǀ
nu ǀ cit ǀ saḥ ǀ dabhyate ǀ janaḥ ǁ1.41.1 Aṣṭaka 1.3.22.1Anuvāka 1.8.69
-
Ṛk 2
यं बा॒हुते॑व॒ पिप्र॑ति॒ पांति॒ मर्त्यं॑ रि॒षः ।
अरि॑ष्टः॒ सर्व॑ एधते ॥यम् बाहुतेव पिप्रति पान्ति मर्त्यं रिषः |
अरिष्टः सर्व एधते ||yám bāhúteva píprati pā́nti mártyam riṣáḥ ǀ
áriṣṭaḥ sárva edhate ǁyam bāhuteva piprati pānti martyaṃ riṣaḥ |
ariṣṭaḥ sarva edhate ||यम् । बा॒हुता॑ऽइव । पिप्र॑ति । पान्ति॑ । मर्त्य॑म् । रि॒षः ।
अरि॑ष्टः । सर्वः॑ । ए॒ध॒ते॒ ॥यम् । बाहुताऽइव । पिप्रति । पान्ति । मर्त्यम् । रिषः ।
अरिष्टः । सर्वः । एधते ॥yám ǀ bāhútā-iva ǀ píprati ǀ pā́nti ǀ mártyam ǀ riṣáḥ ǀ
áriṣṭaḥ ǀ sárvaḥ ǀ edhate ǁyam ǀ bāhutā-iva ǀ piprati ǀ pānti ǀ martyam ǀ riṣaḥ ǀ
ariṣṭaḥ ǀ sarvaḥ ǀ edhate ǁ1.41.2 Aṣṭaka 1.3.22.2Anuvāka 1.8.70
-
Ṛk 3
वि दु॒र्गा वि द्विषः॑ पु॒रो घ्नंति॒ राजा॑न एषां ।
नयं॑ति दुरि॒ता ति॒रः ॥वि दुर्गा वि द्विषः पुरो घ्नन्ति राजान एषाम् |
नयन्ति दुरिता तिरः ||ví durgā́ ví dvíṣaḥ puró ghnánti rā́jāna eṣām ǀ
náyanti duritā́ tiráḥ ǁvi durgā vi dviṣaḥ puro ghnanti rājāna eṣām |
nayanti duritā tiraḥ ||वि । दुः॒ऽगा । वि । द्विषः॑ । पु॒रः । घ्नन्ति॑ । राजा॑नः । ए॒षा॒म् ।
नय॑न्ति । दुः॒ऽइ॒ता । ति॒रः ॥वि । दुःऽगा । वि । द्विषः । पुरः । घ्नन्ति । राजानः । एषाम् ।
नयन्ति । दुःऽइता । तिरः ॥ví ǀ duḥ-gā́ ǀ ví ǀ dvíṣaḥ ǀ puráḥ ǀ ghnánti ǀ rā́jānaḥ ǀ eṣām ǀ
náyanti ǀ duḥ-itā́ ǀ tiráḥ ǁvi ǀ duḥ-gā ǀ vi ǀ dviṣaḥ ǀ puraḥ ǀ ghnanti ǀ rājānaḥ ǀ eṣām ǀ
nayanti ǀ duḥ-itā ǀ tiraḥ ǁ1.41.3 Aṣṭaka 1.3.22.3Anuvāka 1.8.71
-
Ṛk 4
सु॒गः पंथा॑ अनृक्ष॒र आदि॑त्यास ऋ॒तं य॒ते ।
नात्रा॑वखा॒दो अ॑स्ति वः ॥सुगः पन्था अनृक्षर आदित्यास ऋतं यते |
नात्रावखादो अस्ति वः ||sugáḥ pánthā anṛkṣará ā́dityāsa ṛtám yaté ǀ
nā́trāvakhādó asti vaḥ ǁsugaḥ panthā anṛkṣara ādityāsa ṛtaṃ yate |
nātrāvakhādo asti vaḥ ||सु॒ऽगः । पन्थाः॑ । अ॒नृ॒क्ष॒रः । आदि॑त्यासः । ऋ॒तम् । य॒ते ।
न । अत्र॑ । अ॒व॒ऽखा॒दः । अ॒स्ति॒ । वः॒ ॥सुऽगः । पन्थाः । अनृक्षरः । आदित्यासः । ऋतम् । यते ।
न । अत्र । अवऽखादः । अस्ति । वः ॥su-gáḥ ǀ pánthāḥ ǀ anṛkṣaráḥ ǀ ā́dityāsaḥ ǀ ṛtám ǀ yaté ǀ
ná ǀ átra ǀ ava-khādáḥ ǀ asti ǀ vaḥ ǁsu-gaḥ ǀ panthāḥ ǀ anṛkṣaraḥ ǀ ādityāsaḥ ǀ ṛtam ǀ yate ǀ
na ǀ atra ǀ ava-khādaḥ ǀ asti ǀ vaḥ ǁ1.41.4 Aṣṭaka 1.3.22.4Anuvāka 1.8.72
-
Ṛk 5
यं य॒ज्ञं नय॑था नर॒ आदि॑त्या ऋ॒जुना॑ प॒था ।
प्र वः॒ स धी॒तये॑ नशत् ॥यं यज्ञं नयथा नर आदित्या ऋजुना पथा |
प्र वः स धीतये नशत् ||yám yajñám náyathā nara ā́dityā ṛjúnā pathā́ ǀ
prá vaḥ sá dhītáye naśat ǁyaṃ yajñaṃ nayathā nara ādityā ṛjunā pathā |
pra vaḥ sa dhītaye naśat ||यम् । य॒ज्ञम् । नय॑थ । न॒रः॒ । आदि॑त्याः । ऋ॒जुना॑ । प॒था ।
प्र । वः॒ । सः । धी॒तये॑ । न॒श॒त् ॥यम् । यज्ञम् । नयथ । नरः । आदित्याः । ऋजुना । पथा ।
प्र । वः । सः । धीतये । नशत् ॥yám ǀ yajñám ǀ náyatha ǀ naraḥ ǀ ā́dityāḥ ǀ ṛjúnā ǀ pathā́ ǀ
prá ǀ vaḥ ǀ sáḥ ǀ dhītáye ǀ naśat ǁyam ǀ yajñam ǀ nayatha ǀ naraḥ ǀ ādityāḥ ǀ ṛjunā ǀ pathā ǀ
pra ǀ vaḥ ǀ saḥ ǀ dhītaye ǀ naśat ǁ1.41.5 Aṣṭaka 1.3.22.5Anuvāka 1.8.73
-
Ṛk 6
स रत्नं॒ मर्त्यो॒ वसु॒ विश्वं॑ तो॒कमु॒त त्मना॑ ।
अच्छा॑ गच्छ॒त्यस्तृ॑तः ॥स रत्नम् मर्त्यो वसु विश्वं तोकम् उत त्मना |
अच्छा गच्छत्य् अस्तृतः ||sá rátnam mártyo vásu víśvam tokámutá tmánā ǀ
ácchā gacchatyástṛtaḥ ǁsa ratnam martyo vasu viśvaṃ tokam uta tmanā |
acchā gacchaty astṛtaḥ ||सः । रत्न॑म् । मर्त्यः॑ । वसु॑ । विश्व॑म् । तो॒कम् । उ॒त । त्मना॑ ।
अच्छ॑ । ग॒च्छ॒ति॒ । अस्तृ॑तः ॥सः । रत्नम् । मर्त्यः । वसु । विश्वम् । तोकम् । उत । त्मना ।
अच्छ । गच्छति । अस्तृतः ॥sáḥ ǀ rátnam ǀ mártyaḥ ǀ vásu ǀ víśvam ǀ tokám ǀ utá ǀ tmánā ǀ
áccha ǀ gacchati ǀ ástṛtaḥ ǁsaḥ ǀ ratnam ǀ martyaḥ ǀ vasu ǀ viśvam ǀ tokam ǀ uta ǀ tmanā ǀ
accha ǀ gacchati ǀ astṛtaḥ ǁ1.41.6 Aṣṭaka 1.3.23.1Anuvāka 1.8.74
-
Ṛk 7
क॒था रा॑धाम सखायः॒ स्तोमं॑ मि॒त्रस्या॑र्य॒म्णः ।
महि॒ प्सरो॒ वरु॑णस्य ॥कथा राधाम सखाय स्तोमम् मित्रस्यार्यम्णः |
महि प्सरो वरुणस्य ||kathā́ rādhāma sakhāyaḥ stómam mitrásyāryamṇáḥ ǀ
máhi psáro váruṇasya ǁkathā rādhāma sakhāya stomam mitrasyāryamṇaḥ |
mahi psaro varuṇasya ||क॒था । रा॒धा॒म॒ । स॒खा॒यः॒ । स्तोम॑म् । मि॒त्रस्य॑ । अ॒र्य॒म्णः ।
महि॑ । प्सरः॑ । वरु॑णस्य ॥कथा । राधाम । सखायः । स्तोमम् । मित्रस्य । अर्यम्णः ।
महि । प्सरः । वरुणस्य ॥kathā́ ǀ rādhāma ǀ sakhāyaḥ ǀ stómam ǀ mitrásya ǀ aryamṇáḥ ǀ
máhi ǀ psáraḥ ǀ váruṇasya ǁkathā ǀ rādhāma ǀ sakhāyaḥ ǀ stomam ǀ mitrasya ǀ aryamṇaḥ ǀ
mahi ǀ psaraḥ ǀ varuṇasya ǁ1.41.7 Aṣṭaka 1.3.23.2Anuvāka 1.8.75
-
Ṛk 8
मा वो॒ घ्नंतं॒ मा शपं॑तं॒ प्रति॑ वोचे देव॒यंतं॑ ।
सु॒म्नैरिद्व॒ आ वि॑वासे ॥मा वो घ्नन्तम् मा शपन्तम् प्रति वोचे देवयन्तम् |
सुम्नैर् इद् व आ विवासे ||mā́ vo ghnántam mā́ śápantam práti voce devayántam ǀ
sumnáirídva ā́ vivāse ǁmā vo ghnantam mā śapantam prati voce devayantam |
sumnair id va ā vivāse ||मा । वः॒ । घ्नन्त॑म् । मा । शप॑न्तम् । प्रति॑ । वो॒चे॒ । दे॒व॒ऽयन्त॑म् ।
सु॒म्नैः । इत् । वः॒ । आ । वि॒वा॒से॒ ॥मा । वः । घ्नन्तम् । मा । शपन्तम् । प्रति । वोचे । देवऽयन्तम् ।
सुम्नैः । इत् । वः । आ । विवासे ॥mā́ ǀ vaḥ ǀ ghnántam ǀ mā́ ǀ śápantam ǀ práti ǀ voce ǀ deva-yántam ǀ
sumnáiḥ ǀ ít ǀ vaḥ ǀ ā́ ǀ vivāse ǁmā ǀ vaḥ ǀ ghnantam ǀ mā ǀ śapantam ǀ prati ǀ voce ǀ deva-yantam ǀ
sumnaiḥ ǀ it ǀ vaḥ ǀ ā ǀ vivāse ǁ1.41.8 Aṣṭaka 1.3.23.3Anuvāka 1.8.76
-
Ṛk 9
च॒तुर॑श्चि॒द्दद॑मानाद्बिभी॒यादा निधा॑तोः ।
न दु॑रु॒क्ताय॑ स्पृहयेत् ॥चतुरश् चिद् ददमानाद् बिभीयाद् आ निधातोः |
न दुरुक्ताय स्पृहयेत् ||catúraściddádamānādbibhīyā́dā́ nídhātoḥ ǀ
ná duruktā́ya spṛhayet ǁcaturaś cid dadamānād bibhīyād ā nidhātoḥ |
na duruktāya spṛhayet ||च॒तुरः॑ । चि॒त् । दद॑मानात् । बि॒भी॒यात् । आ । निऽधा॑तोः ।
न । दुः॒ऽउ॒क्ताय॑ । स्पृ॒ह॒ये॒त् ॥चतुरः । चित् । ददमानात् । बिभीयात् । आ । निऽधातोः ।
न । दुःऽउक्ताय । स्पृहयेत् ॥catúraḥ ǀ cit ǀ dádamānāt ǀ bibhīyā́t ǀ ā́ ǀ ní-dhātoḥ ǀ
ná ǀ duḥ-uktā́ya ǀ spṛhayet ǁcaturaḥ ǀ cit ǀ dadamānāt ǀ bibhīyāt ǀ ā ǀ ni-dhātoḥ ǀ
na ǀ duḥ-uktāya ǀ spṛhayet ǁ1.41.9 Aṣṭaka 1.3.23.4Anuvāka 1.8.77
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.