Sūkta 128
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Parucchepa Daivodāsi
- Chandas छन्दस्
- Atyaṣṭi
Metres by ṛk
1st set of styles virāḍatyaṣṭiḥ (3, 4, 6, 8); nicṛdaṣṭiḥ (5, 7); nicṛdatyaṣṭiḥ (1); bhurigaṣṭiḥ (2)
2nd set of styles atyaṣṭi
-
Ṛk 1
अ॒यं जा॑यत॒ मनु॑षो॒ धरी॑मणि॒ होता॒ यजि॑ष्ठ उ॒शिजा॒मनु॑ व्र॒तम॒ग्निः स्वमनु॑ व्र॒तं ।
वि॒श्वश्रु॑ष्टिः सखीय॒ते र॒यिरि॑व श्रवस्य॒ते ।
अद॑ब्धो॒ होता॒ नि ष॑ददि॒ळस्प॒दे परि॑वीत इ॒ळस्प॒दे ॥अयं जायत मनुषो धरीमणि होता यजिष्ठ उशिजाम् अनु व्रतम् अग्निः स्वम् अनु व्रतम् |
विश्वश्रुष्टिः सखीयते रयिर् इव श्रवस्यते |
अदब्धो होता नि षदद् इऌअस् पदे परिवीत इऌअस् पदे ||ayám jāyata mánuṣo dhárīmaṇi hótā yájiṣṭha uśíjāmánu vratámagníḥ svámánu vratám ǀ
viśváśruṣṭiḥ sakhīyaté rayíriva śravasyaté ǀ
ádabdho hótā ní ṣadadiḷáspadé párivīta iḷáspadé ǁayaṃ jāyata manuṣo dharīmaṇi hotā yajiṣṭha uśijām anu vratam agniḥ svam anu vratam |
viśvaśruṣṭiḥ sakhīyate rayir iva śravasyate |
adabdho hotā ni ṣadad iḷas pade parivīta iḷas pade ||अ॒यम् । जा॒य॒त॒ । मनु॑षः । धरी॑मणि । होता॑ । यजि॑ष्ठः । उ॒शिजा॑म् । अनु॑ । व्र॒तम् । अ॒ग्निः । स्वम् । अनु॑ । व्र॒तम् ।
वि॒श्वऽश्रु॑ष्टिः । स॒खि॒ऽय॒ते । र॒यिःऽइ॑व । श्र॒व॒स्य॒ते ।
अद॑ब्धः । होता॑ । नि । स॒द॒त् । इ॒ळः । प॒दे । परि॑ऽवीतः । इ॒ळः । प॒दे ॥अयम् । जायत । मनुषः । धरीमणि । होता । यजिष्ठः । उशिजाम् । अनु । व्रतम् । अग्निः । स्वम् । अनु । व्रतम् ।
विश्वऽश्रुष्टिः । सखिऽयते । रयिःऽइव । श्रवस्यते ।
अदब्धः । होता । नि । सदत् । इळः । पदे । परिऽवीतः । इळः । पदे ॥ayám ǀ jāyata ǀ mánuṣaḥ ǀ dhárīmaṇi ǀ hótā ǀ yájiṣṭhaḥ ǀ uśíjām ǀ ánu ǀ vratám ǀ agníḥ ǀ svám ǀ ánu ǀ vratám ǀ
viśvá-śruṣṭiḥ ǀ sakhi-yaté ǀ rayíḥ-iva ǀ śravasyaté ǀ
ádabdhaḥ ǀ hótā ǀ ní ǀ sadat ǀ iḷáḥ ǀ padé ǀ pári-vītaḥ ǀ iḷáḥ ǀ padé ǁayam ǀ jāyata ǀ manuṣaḥ ǀ dharīmaṇi ǀ hotā ǀ yajiṣṭhaḥ ǀ uśijām ǀ anu ǀ vratam ǀ agniḥ ǀ svam ǀ anu ǀ vratam ǀ
viśva-śruṣṭiḥ ǀ sakhi-yate ǀ rayiḥ-iva ǀ śravasyate ǀ
adabdhaḥ ǀ hotā ǀ ni ǀ sadat ǀ iḷaḥ ǀ pade ǀ pari-vītaḥ ǀ iḷaḥ ǀ pade ǁ1.128.1 Aṣṭaka 2.1.14.1Anuvāka 1.19.12
-
Ṛk 2
तं य॑ज्ञ॒साध॒मपि॑ वातयामस्यृ॒तस्य॑ प॒था नम॑सा ह॒विष्म॑ता दे॒वता॑ता ह॒विष्म॑ता ।
स न॑ ऊ॒र्जामु॒पाभृ॑त्य॒या कृ॒पा न जू॑र्यति ।
यं मा॑त॒रिश्वा॒ मन॑वे परा॒वतो॑ दे॒वं भाः प॑रा॒वतः॑ ॥तं यज्ञसाधम् अपि वातयामस्य् ऋतस्य पथा नमसा हविष्मता देवताता हविष्मता |
स न ऊर्जाम् उपाभृत्य् अया कृपा न जूर्यति |
यम् मातरिश्वा मनवे परावतो देवम् भाः परावतः ||tám yajñasā́dhamápi vātayāmasyṛtásya pathā́ námasā havíṣmatā devátātā havíṣmatā ǀ
sá na ūrjā́mupā́bhṛtyayā́ kṛpā́ ná jūryati ǀ
yám mātaríśvā mánave parāváto devám bhā́ḥ parāvátaḥ ǁtaṃ yajñasādham api vātayāmasy ṛtasya pathā namasā haviṣmatā devatātā haviṣmatā |
sa na ūrjām upābhṛty ayā kṛpā na jūryati |
yam mātariśvā manave parāvato devam bhāḥ parāvataḥ ||तम् । य॒ज्ञ॒ऽसाध॑म् । अपि॑ । वा॒त॒या॒म॒सि॒ । ऋ॒तस्य॑ । प॒था । नम॑सा । ह॒विष्म॑ता । दे॒वऽता॑ता । ह॒विष्म॑ता ।
सः । नः॒ । ऊ॒र्जाम् । उ॒प॒ऽआभृ॑ति । अ॒या । कृ॒पा । न । जू॒र्य॒ति॒ ।
यम् । मा॒त॒रिश्वा॑ । मन॑वे । प॒रा॒ऽवतः॑ । दे॒वम् । भारिति॒ भाः । प॒रा॒ऽवतः॑ ॥तम् । यज्ञऽसाधम् । अपि । वातयामसि । ऋतस्य । पथा । नमसा । हविष्मता । देवऽताता । हविष्मता ।
सः । नः । ऊर्जाम् । उपऽआभृति । अया । कृपा । न । जूर्यति ।
यम् । मातरिश्वा । मनवे । पराऽवतः । देवम् । भारिति भाः । पराऽवतः ॥tám ǀ yajña-sā́dham ǀ ápi ǀ vātayāmasi ǀ ṛtásya ǀ pathā́ ǀ námasā ǀ havíṣmatā ǀ devá-tātā ǀ havíṣmatā ǀ
sáḥ ǀ naḥ ǀ ūrjā́m ǀ upa-ā́bhṛti ǀ ayā́ ǀ kṛpā́ ǀ ná ǀ jūryati ǀ
yám ǀ mātaríśvā ǀ mánave ǀ parā-vátaḥ ǀ devám ǀ bhā́ríti bhā́ḥ ǀ parā-vátaḥ ǁtam ǀ yajña-sādham ǀ api ǀ vātayāmasi ǀ ṛtasya ǀ pathā ǀ namasā ǀ haviṣmatā ǀ deva-tātā ǀ haviṣmatā ǀ
saḥ ǀ naḥ ǀ ūrjām ǀ upa-ābhṛti ǀ ayā ǀ kṛpā ǀ na ǀ jūryati ǀ
yam ǀ mātariśvā ǀ manave ǀ parā-vataḥ ǀ devam ǀ bhāriti bhāḥ ǀ parā-vataḥ ǁ1.128.2 Aṣṭaka 2.1.14.2Anuvāka 1.19.13
-
Ṛk 3
एवे॑न स॒द्यः पर्ये॑ति॒ पार्थि॑वं मुहु॒र्गी रेतो॑ वृष॒भः कनि॑क्रद॒द्दध॒द्रेतः॒ कनि॑क्रदत् ।
श॒तं चक्षा॑णो अ॒क्षभि॑र्दे॒वो वने॑षु तु॒र्वणिः॑ ।
सदो॒ दधा॑न॒ उप॑रेषु॒ सानु॑ष्व॒ग्निः परे॑षु॒ सानु॑षु ॥एवेन सद्यः पर्य् एति पार्थिवम् मुहुर्गी रेतो वृषभः कनिक्रदद् दधद् रेतः कनिक्रदत् |
शतं चक्षाणो अक्षभिर् देवो वनेषु तुर्वणिः |
सदो दधान उपरेषु सानुष्व् अग्निः परेषु सानुषु ||évena sadyáḥ páryeti pā́rthivam muhurgī́ réto vṛṣabháḥ kánikradaddádhadrétaḥ kánikradat ǀ
śatám cákṣāṇo akṣábhirdevó váneṣu turváṇiḥ ǀ
sádo dádhāna úpareṣu sā́nuṣvagníḥ páreṣu sā́nuṣu ǁevena sadyaḥ pary eti pārthivam muhurgī reto vṛṣabhaḥ kanikradad dadhad retaḥ kanikradat |
śataṃ cakṣāṇo akṣabhir devo vaneṣu turvaṇiḥ |
sado dadhāna upareṣu sānuṣv agniḥ pareṣu sānuṣu ||एवे॑न । स॒द्यः । परि॑ । ए॒ति॒ । पार्थि॑वम् । मु॒हुः॒ऽगीः । रेतः॑ । वृ॒ष॒भः । कनि॑क्रदत् । दध॑त् । रेतः॑ । कनि॑क्रदत् ।
श॒तम् । चक्षा॑णः । अ॒क्षऽभिः॑ । दे॒वः । वने॑षु । तु॒र्वणिः॑ ।
सदः॑ । दधा॑नः । उप॑रेषु । सानु॑षु । अ॒ग्निः । परे॑षु । सानु॑षु ॥एवेन । सद्यः । परि । एति । पार्थिवम् । मुहुःऽगीः । रेतः । वृषभः । कनिक्रदत् । दधत् । रेतः । कनिक्रदत् ।
शतम् । चक्षाणः । अक्षऽभिः । देवः । वनेषु । तुर्वणिः ।
सदः । दधानः । उपरेषु । सानुषु । अग्निः । परेषु । सानुषु ॥évena ǀ sadyáḥ ǀ pári ǀ eti ǀ pā́rthivam ǀ muhuḥ-gī́ḥ ǀ rétaḥ ǀ vṛṣabháḥ ǀ kánikradat ǀ dádhat ǀ rétaḥ ǀ kánikradat ǀ
śatám ǀ cákṣāṇaḥ ǀ akṣá-bhiḥ ǀ deváḥ ǀ váneṣu ǀ turváṇiḥ ǀ
sádaḥ ǀ dádhānaḥ ǀ úpareṣu ǀ sā́nuṣu ǀ agníḥ ǀ páreṣu ǀ sā́nuṣu ǁevena ǀ sadyaḥ ǀ pari ǀ eti ǀ pārthivam ǀ muhuḥ-gīḥ ǀ retaḥ ǀ vṛṣabhaḥ ǀ kanikradat ǀ dadhat ǀ retaḥ ǀ kanikradat ǀ
śatam ǀ cakṣāṇaḥ ǀ akṣa-bhiḥ ǀ devaḥ ǀ vaneṣu ǀ turvaṇiḥ ǀ
sadaḥ ǀ dadhānaḥ ǀ upareṣu ǀ sānuṣu ǀ agniḥ ǀ pareṣu ǀ sānuṣu ǁ1.128.3 Aṣṭaka 2.1.14.3Anuvāka 1.19.14
-
Ṛk 4
स सु॒क्रतुः॑ पु॒रोहि॑तो॒ दमे॑दमे॒ऽग्निर्य॒ज्ञस्या॑ध्व॒रस्य॑ चेतति॒ क्रत्वा॑ य॒ज्ञस्य॑ चेतति ।
क्रत्वा॑ वे॒धा इ॑षूय॒ते विश्वा॑ जा॒तानि॑ पस्पशे ।
यतो॑ घृत॒श्रीरति॑थि॒रजा॑यत॒ वह्नि॑र्वे॒धा अजा॑यत ॥स सुक्रतुः पुरोहितो दमे-दमे ऽग्निर् यज्ञस्याध्वरस्य चेतति क्रत्वा यज्ञस्य चेतति |
क्रत्वा वेधा इषूयते विश्वा जातानि पस्पशे |
यतो घृतश्रीर् अतिथिर् अजायत वह्निर् वेधा अजायत ||sá sukrátuḥ puróhito dámedame’gníryajñásyādhvarásya cetati krátvā yajñásya cetati ǀ
krátvā vedhā́ iṣūyaté víśvā jātā́ni paspaśe ǀ
yáto ghṛtaśrī́rátithirájāyata váhnirvedhā́ ájāyata ǁsa sukratuḥ purohito dame-dame 'gnir yajñasyādhvarasya cetati kratvā yajñasya cetati |
kratvā vedhā iṣūyate viśvā jātāni paspaśe |
yato ghṛtaśrīr atithir ajāyata vahnir vedhā ajāyata ||सः । सु॒ऽक्रतुः॑ । पु॒रःऽहि॑तः । दमे॑ऽदमे । अ॒ग्निः । य॒ज्ञस्य॑ । अ॒ध्व॒रस्य॑ । चे॒त॒ति॒ । क्रत्वा॑ । य॒ज्ञस्य॑ । चे॒त॒ति॒ ।
क्रत्वा॑ । वे॒धाः । इ॒षु॒ऽय॒ते । विश्वा॑ । जा॒तानि॑ । प॒स्प॒शे॒ ।
यतः॑ । घृ॒त॒ऽश्रीः । अति॑थिः । अजा॑यत । वह्निः॑ । वे॒धाः । अजा॑यत ॥सः । सुऽक्रतुः । पुरःऽहितः । दमेऽदमे । अग्निः । यज्ञस्य । अध्वरस्य । चेतति । क्रत्वा । यज्ञस्य । चेतति ।
क्रत्वा । वेधाः । इषुऽयते । विश्वा । जातानि । पस्पशे ।
यतः । घृतऽश्रीः । अतिथिः । अजायत । वह्निः । वेधाः । अजायत ॥sáḥ ǀ su-krátuḥ ǀ puráḥ-hitaḥ ǀ dáme-dame ǀ agníḥ ǀ yajñásya ǀ adhvarásya ǀ cetati ǀ krátvā ǀ yajñásya ǀ cetati ǀ
krátvā ǀ vedhā́ḥ ǀ iṣu-yaté ǀ víśvā ǀ jātā́ni ǀ paspaśe ǀ
yátaḥ ǀ ghṛta-śrī́ḥ ǀ átithiḥ ǀ ájāyata ǀ váhniḥ ǀ vedhā́ḥ ǀ ájāyata ǁsaḥ ǀ su-kratuḥ ǀ puraḥ-hitaḥ ǀ dame-dame ǀ agniḥ ǀ yajñasya ǀ adhvarasya ǀ cetati ǀ kratvā ǀ yajñasya ǀ cetati ǀ
kratvā ǀ vedhāḥ ǀ iṣu-yate ǀ viśvā ǀ jātāni ǀ paspaśe ǀ
yataḥ ǀ ghṛta-śrīḥ ǀ atithiḥ ǀ ajāyata ǀ vahniḥ ǀ vedhāḥ ǀ ajāyata ǁ1.128.4 Aṣṭaka 2.1.14.4Anuvāka 1.19.15
-
Ṛk 5
क्रत्वा॒ यद॑स्य॒ तवि॑षीषु पृं॒चते॒ऽग्नेरवे॑ण म॒रुतां॒ न भो॒ज्ये॑षि॒राय॒ न भो॒ज्या॑ ।
स हि ष्मा॒ दान॒मिन्व॑ति॒ वसू॑नां च म॒ज्मना॑ ।
स न॑स्त्रासते दुरि॒ताद॑भि॒ह्रुतः॒ शंसा॑द॒घाद॑भि॒ह्रुतः॑ ॥क्रत्वा यद् अस्य तविषीषु पृञ्चते ऽग्नेर् अवेण मरुतां न भोज्येषिराय न भोज्या |
स हि ष्मा दानम् इन्वति वसूनां च मज्मना |
स नस् त्रासते दुरिताद् अभिह्रुतः शंसाद् अघाद् अभिह्रुतः ||krátvā yádasya táviṣīṣu pṛñcáte’gnéráveṇa marútām ná bhojyéṣirā́ya ná bhojyā́ ǀ
sá hí ṣmā dā́namínvati vásūnām ca majmánā ǀ
sá nastrāsate duritā́dabhihrútaḥ śáṃsādaghā́dabhihrútaḥ ǁkratvā yad asya taviṣīṣu pṛñcate 'gner aveṇa marutāṃ na bhojyeṣirāya na bhojyā |
sa hi ṣmā dānam invati vasūnāṃ ca majmanā |
sa nas trāsate duritād abhihrutaḥ śaṃsād aghād abhihrutaḥ ||क्रत्वा॑ । यत् । अ॒स्य॒ । तवि॑षीषु । पृ॒ञ्चते॑ । अ॒ग्नेः । अवे॑न । म॒रुता॑म् । न । भो॒ज्या॑ । इ॒षि॒राय॑ । न । भो॒ज्या॑ ।
सः । हि । स्म॒ । दान॑म् । इन्व॑ति । वसू॑नाम् । च॒ । म॒ज्मना॑ ।
सः । नः॒ । त्रा॒स॒ते॒ । दुः॒ऽइ॒तात् । अ॒भि॒ऽह्रुतः॑ । शंसा॑त् । अ॒घात् । अ॒भि॒ऽह्रुतः॑ ॥क्रत्वा । यत् । अस्य । तविषीषु । पृञ्चते । अग्नेः । अवेन । मरुताम् । न । भोज्या । इषिराय । न । भोज्या ।
सः । हि । स्म । दानम् । इन्वति । वसूनाम् । च । मज्मना ।
सः । नः । त्रासते । दुःऽइतात् । अभिऽह्रुतः । शंसात् । अघात् । अभिऽह्रुतः ॥krátvā ǀ yát ǀ asya ǀ táviṣīṣu ǀ pṛñcáte ǀ agnéḥ ǀ ávena ǀ marútām ǀ ná ǀ bhojyā́ ǀ iṣirā́ya ǀ ná ǀ bhojyā́ ǀ
sáḥ ǀ hí ǀ sma ǀ dā́nam ǀ ínvati ǀ vásūnām ǀ ca ǀ majmánā ǀ
sáḥ ǀ naḥ ǀ trāsate ǀ duḥ-itā́t ǀ abhi-hrútaḥ ǀ śáṃsāt ǀ aghā́t ǀ abhi-hrútaḥ ǁkratvā ǀ yat ǀ asya ǀ taviṣīṣu ǀ pṛñcate ǀ agneḥ ǀ avena ǀ marutām ǀ na ǀ bhojyā ǀ iṣirāya ǀ na ǀ bhojyā ǀ
saḥ ǀ hi ǀ sma ǀ dānam ǀ invati ǀ vasūnām ǀ ca ǀ majmanā ǀ
saḥ ǀ naḥ ǀ trāsate ǀ duḥ-itāt ǀ abhi-hrutaḥ ǀ śaṃsāt ǀ aghāt ǀ abhi-hrutaḥ ǁ1.128.5 Aṣṭaka 2.1.14.5Anuvāka 1.19.16
-
Ṛk 6
विश्वो॒ विहा॑या अर॒तिर्वसु॑र्दधे॒ हस्ते॒ दक्षि॑णे त॒रणि॒र्न शि॑श्रथच्छ्रव॒स्यया॒ न शि॑श्रथत् ।
विश्व॑स्मा॒ इदि॑षुध्य॒ते दे॑व॒त्रा ह॒व्यमोहि॑षे ।
विश्व॑स्मा॒ इत्सु॒कृते॒ वार॑मृण्वत्य॒ग्निर्द्वारा॒ व्यृ॑ण्वति ॥विश्वो विहाया अरतिर् वसुर् दधे हस्ते दक्षिणे तरणिर् न शिश्रथच् छ्रवस्यया न शिश्रथत् |
विश्वस्मा इद् इषुध्यते देवत्रा हव्यम् ओहिषे |
विश्वस्मा इत् सुकृते वारम् ऋण्वत्य् अग्निर् द्वारा व्य् ऋण्वति ||víśvo víhāyā aratírvásurdadhe háste dákṣiṇe taráṇirná śiśrathacchravasyáyā ná śiśrathat ǀ
víśvasmā ídiṣudhyaté devatrā́ havyámóhiṣe ǀ
víśvasmā ítsukṛ́te vā́ramṛṇvatyagnírdvā́rā vyṛ́ṇvati ǁviśvo vihāyā aratir vasur dadhe haste dakṣiṇe taraṇir na śiśrathac chravasyayā na śiśrathat |
viśvasmā id iṣudhyate devatrā havyam ohiṣe |
viśvasmā it sukṛte vāram ṛṇvaty agnir dvārā vy ṛṇvati ||विश्वः॑ । विऽहा॑याः । अ॒र॒तिः । वसुः॑ । द॒धे॒ । हस्ते॑ । दक्षि॑णे । त॒रणिः॑ । न । शि॒श्र॒थ॒त् । श्र॒व॒स्यया॑ । न । शि॒श्र॒थ॒त् ।
विश्व॑स्मै । इत् । इ॒षु॒ध्य॒ते । दे॒व॒ऽत्रा । ह॒व्यम् । आ । ऊ॒हि॒षे॒ ।
विश्व॑स्मै । इत् । सु॒ऽकृते॑ । वार॑म् । ऋ॒ण्व॒ति॒ । अ॒ग्निः । द्वारा॑ । वि । ऋ॒ण्व॒ति॒ ॥विश्वः । विऽहायाः । अरतिः । वसुः । दधे । हस्ते । दक्षिणे । तरणिः । न । शिश्रथत् । श्रवस्यया । न । शिश्रथत् ।
विश्वस्मै । इत् । इषुध्यते । देवऽत्रा । हव्यम् । आ । ऊहिषे ।
विश्वस्मै । इत् । सुऽकृते । वारम् । ऋण्वति । अग्निः । द्वारा । वि । ऋण्वति ॥víśvaḥ ǀ ví-hāyāḥ ǀ aratíḥ ǀ vásuḥ ǀ dadhe ǀ háste ǀ dákṣiṇe ǀ taráṇiḥ ǀ ná ǀ śiśrathat ǀ śravasyáyā ǀ ná ǀ śiśrathat ǀ
víśvasmai ǀ ít ǀ iṣudhyaté ǀ deva-trā́ ǀ havyám ǀ ā́ ǀ ūhiṣe ǀ
víśvasmai ǀ ít ǀ su-kṛ́te ǀ vā́ram ǀ ṛṇvati ǀ agníḥ ǀ dvā́rā ǀ ví ǀ ṛṇvati ǁviśvaḥ ǀ vi-hāyāḥ ǀ aratiḥ ǀ vasuḥ ǀ dadhe ǀ haste ǀ dakṣiṇe ǀ taraṇiḥ ǀ na ǀ śiśrathat ǀ śravasyayā ǀ na ǀ śiśrathat ǀ
viśvasmai ǀ it ǀ iṣudhyate ǀ deva-trā ǀ havyam ǀ ā ǀ ūhiṣe ǀ
viśvasmai ǀ it ǀ su-kṛte ǀ vāram ǀ ṛṇvati ǀ agniḥ ǀ dvārā ǀ vi ǀ ṛṇvati ǁ1.128.6 Aṣṭaka 2.1.15.1Anuvāka 1.19.17
-
Ṛk 7
स मानु॑षे वृ॒जने॒ शंत॑मो हि॒तो॒३॒॑ऽग्निर्य॒ज्ञेषु॒ जेन्यो॒ न वि॒श्पतिः॑ प्रि॒यो य॒ज्ञेषु॑ वि॒श्पतिः॑ ।
स ह॒व्या मानु॑षाणामि॒ळा कृ॒तानि॑ पत्यते ।
स न॑स्त्रासते॒ वरु॑णस्य धू॒र्तेर्म॒हो दे॒वस्य॑ धू॒र्तेः ॥स मानुषे वृजने शन्तमो हितो ऽग्निर् यज्ञेषु जेन्यो न विश्पतिः प्रियो यज्ञेषु विश्पतिः |
स हव्या मानुषाणाम् इऌआ कृतानि पत्यते |
स नस् त्रासते वरुणस्य धूर्तेर् महो देवस्य धूर्तेः ||sá mā́nuṣe vṛjáne śáṃtamo hitó’gníryajñéṣu jényo ná viśpátiḥ priyó yajñéṣu viśpátiḥ ǀ
sá havyā́ mā́nuṣāṇāmiḷā́ kṛtā́ni patyate ǀ
sá nastrāsate váruṇasya dhūrtérmahó devásya dhūrtéḥ ǁsa mānuṣe vṛjane śantamo hito 'gnir yajñeṣu jenyo na viśpatiḥ priyo yajñeṣu viśpatiḥ |
sa havyā mānuṣāṇām iḷā kṛtāni patyate |
sa nas trāsate varuṇasya dhūrter maho devasya dhūrteḥ ||सः । मानु॑षे । वृ॒जने॑ । शम्ऽत॑मः । हि॒तः । अ॒ग्निः । य॒ज्ञेषु॑ । जेन्यः॑ । न । वि॒श्पतिः॑ । प्रि॒यः । य॒ज्ञेषु॑ । वि॒श्पतिः॑ ।
सः । ह॒व्या । मानु॑षाणाम् । इ॒ळा । कृ॒तानि॑ । प॒त्य॒ते॒ ।
सः । नः॒ । त्रा॒स॒ते॒ । वरु॑णस्य । धू॒र्तेः । म॒हः । दे॒वस्य॑ । धू॒र्तेः ॥सः । मानुषे । वृजने । शम्ऽतमः । हितः । अग्निः । यज्ञेषु । जेन्यः । न । विश्पतिः । प्रियः । यज्ञेषु । विश्पतिः ।
सः । हव्या । मानुषाणाम् । इळा । कृतानि । पत्यते ।
सः । नः । त्रासते । वरुणस्य । धूर्तेः । महः । देवस्य । धूर्तेः ॥sáḥ ǀ mā́nuṣe ǀ vṛjáne ǀ śám-tamaḥ ǀ hitáḥ ǀ agníḥ ǀ yajñéṣu ǀ jényaḥ ǀ ná ǀ viśpátiḥ ǀ priyáḥ ǀ yajñéṣu ǀ viśpátiḥ ǀ
sáḥ ǀ havyā́ ǀ mā́nuṣāṇām ǀ iḷā́ ǀ kṛtā́ni ǀ patyate ǀ
sáḥ ǀ naḥ ǀ trāsate ǀ váruṇasya ǀ dhūrtéḥ ǀ maháḥ ǀ devásya ǀ dhūrtéḥ ǁsaḥ ǀ mānuṣe ǀ vṛjane ǀ śam-tamaḥ ǀ hitaḥ ǀ agniḥ ǀ yajñeṣu ǀ jenyaḥ ǀ na ǀ viśpatiḥ ǀ priyaḥ ǀ yajñeṣu ǀ viśpatiḥ ǀ
saḥ ǀ havyā ǀ mānuṣāṇām ǀ iḷā ǀ kṛtāni ǀ patyate ǀ
saḥ ǀ naḥ ǀ trāsate ǀ varuṇasya ǀ dhūrteḥ ǀ mahaḥ ǀ devasya ǀ dhūrteḥ ǁ1.128.7 Aṣṭaka 2.1.15.2Anuvāka 1.19.18
-
Ṛk 8
अ॒ग्निं होता॑रमीळते॒ वसु॑धितिं प्रि॒यं चेति॑ष्ठमर॒तिं न्ये॑रिरे हव्य॒वाहं॒ न्ये॑रिरे ।
वि॒श्वायुं॑ वि॒श्ववे॑दसं॒ होता॑रं यज॒तं क॒विं ।
दे॒वासो॑ र॒ण्वमव॑से वसू॒यवो॑ गी॒र्भी र॒ण्वं व॑सू॒यवः॑ ॥अग्निं होतारम् ईऌअते वसुधितिम् प्रियं चेतिष्ठम् अरतिं न्य् एरिरे हव्यवाहं न्य् एरिरे |
विश्वायुं विश्ववेदसं होतारं यजतं कविम् |
देवासो रण्वम् अवसे वसूयवो गीर्भी रण्वं वसूयवः ||agním hótāramīḷate vásudhitim priyám cétiṣṭhamaratím nyérire havyavā́ham nyérire ǀ
viśvā́yum viśvávedasam hótāram yajatám kavím ǀ
devā́so raṇvámávase vasūyávo gīrbhī́ raṇvám vasūyávaḥ ǁagniṃ hotāram īḷate vasudhitim priyaṃ cetiṣṭham aratiṃ ny erire havyavāhaṃ ny erire |
viśvāyuṃ viśvavedasaṃ hotāraṃ yajataṃ kavim |
devāso raṇvam avase vasūyavo gīrbhī raṇvaṃ vasūyavaḥ ||अ॒ग्निम् । होता॑रम् । ई॒ळ॒ते॒ । वसु॑ऽधितिम् । प्रि॒यम् । चेति॑ष्ठम् । अ॒र॒तिम् । नि । ए॒रि॒रे॒ । ह॒व्य॒ऽवाह॑म् । नि । ए॒रि॒रे॒ ।
वि॒श्वऽआ॑युम् । वि॒श्वऽवे॑दसम् । होता॑रम् । य॒ज॒तम् । क॒विम् ।
दे॒वासः॑ । र॒ण्वम् । अव॑से । व॒सु॒ऽयवः॑ । गीः॒ऽभिः । र॒ण्वम् । व॒सु॒ऽयवः॑ ॥अग्निम् । होतारम् । ईळते । वसुऽधितिम् । प्रियम् । चेतिष्ठम् । अरतिम् । नि । एरिरे । हव्यऽवाहम् । नि । एरिरे ।
विश्वऽआयुम् । विश्वऽवेदसम् । होतारम् । यजतम् । कविम् ।
देवासः । रण्वम् । अवसे । वसुऽयवः । गीःऽभिः । रण्वम् । वसुऽयवः ॥agním ǀ hótāram ǀ īḷate ǀ vásu-dhitim ǀ priyám ǀ cétiṣṭham ǀ aratím ǀ ní ǀ erire ǀ havya-vā́ham ǀ ní ǀ erire ǀ
viśvá-āyum ǀ viśvá-vedasam ǀ hótāram ǀ yajatám ǀ kavím ǀ
devā́saḥ ǀ raṇvám ǀ ávase ǀ vasu-yávaḥ ǀ gīḥ-bhíḥ ǀ raṇvám ǀ vasu-yávaḥ ǁagnim ǀ hotāram ǀ īḷate ǀ vasu-dhitim ǀ priyam ǀ cetiṣṭham ǀ aratim ǀ ni ǀ erire ǀ havya-vāham ǀ ni ǀ erire ǀ
viśva-āyum ǀ viśva-vedasam ǀ hotāram ǀ yajatam ǀ kavim ǀ
devāsaḥ ǀ raṇvam ǀ avase ǀ vasu-yavaḥ ǀ gīḥ-bhiḥ ǀ raṇvam ǀ vasu-yavaḥ ǁ1.128.8 Aṣṭaka 2.1.15.3Anuvāka 1.19.19
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.