Ṛgveda · Maṇḍala 1 · Sūkta 128
Ṛk 1.128.5
Saṃhitā
क्रत्वा॒ यद॑स्य॒ तवि॑षीषु पृं॒चते॒ऽग्नेरवे॑ण म॒रुतां॒ न भो॒ज्ये॑षि॒राय॒ न भो॒ज्या॑ ।
स हि ष्मा॒ दान॒मिन्व॑ति॒ वसू॑नां च म॒ज्मना॑ ।
स न॑स्त्रासते दुरि॒ताद॑भि॒ह्रुतः॒ शंसा॑द॒घाद॑भि॒ह्रुतः॑ ॥
क्रत्वा यद् अस्य तविषीषु पृञ्चते ऽग्नेर् अवेण मरुतां न भोज्येषिराय न भोज्या |
स हि ष्मा दानम् इन्वति वसूनां च मज्मना |
स नस् त्रासते दुरिताद् अभिह्रुतः शंसाद् अघाद् अभिह्रुतः ||
krátvā yádasya táviṣīṣu pṛñcáte’gnéráveṇa marútām ná bhojyéṣirā́ya ná bhojyā́ ǀ
sá hí ṣmā dā́namínvati vásūnām ca majmánā ǀ
sá nastrāsate duritā́dabhihrútaḥ śáṃsādaghā́dabhihrútaḥ ǁ
kratvā yad asya taviṣīṣu pṛñcate 'gner aveṇa marutāṃ na bhojyeṣirāya na bhojyā |
sa hi ṣmā dānam invati vasūnāṃ ca majmanā |
sa nas trāsate duritād abhihrutaḥ śaṃsād aghād abhihrutaḥ ||
Padapāṭha
क्रत्वा॑ । यत् । अ॒स्य॒ । तवि॑षीषु । पृ॒ञ्चते॑ । अ॒ग्नेः । अवे॑न । म॒रुता॑म् । न । भो॒ज्या॑ । इ॒षि॒राय॑ । न । भो॒ज्या॑ ।
सः । हि । स्म॒ । दान॑म् । इन्व॑ति । वसू॑नाम् । च॒ । म॒ज्मना॑ ।
सः । नः॒ । त्रा॒स॒ते॒ । दुः॒ऽइ॒तात् । अ॒भि॒ऽह्रुतः॑ । शंसा॑त् । अ॒घात् । अ॒भि॒ऽह्रुतः॑ ॥
क्रत्वा । यत् । अस्य । तविषीषु । पृञ्चते । अग्नेः । अवेन । मरुताम् । न । भोज्या । इषिराय । न । भोज्या ।
सः । हि । स्म । दानम् । इन्वति । वसूनाम् । च । मज्मना ।
सः । नः । त्रासते । दुःऽइतात् । अभिऽह्रुतः । शंसात् । अघात् । अभिऽह्रुतः ॥
krátvā ǀ yát ǀ asya ǀ táviṣīṣu ǀ pṛñcáte ǀ agnéḥ ǀ ávena ǀ marútām ǀ ná ǀ bhojyā́ ǀ iṣirā́ya ǀ ná ǀ bhojyā́ ǀ
sáḥ ǀ hí ǀ sma ǀ dā́nam ǀ ínvati ǀ vásūnām ǀ ca ǀ majmánā ǀ
sáḥ ǀ naḥ ǀ trāsate ǀ duḥ-itā́t ǀ abhi-hrútaḥ ǀ śáṃsāt ǀ aghā́t ǀ abhi-hrútaḥ ǁ
kratvā ǀ yat ǀ asya ǀ taviṣīṣu ǀ pṛñcate ǀ agneḥ ǀ avena ǀ marutām ǀ na ǀ bhojyā ǀ iṣirāya ǀ na ǀ bhojyā ǀ
saḥ ǀ hi ǀ sma ǀ dānam ǀ invati ǀ vasūnām ǀ ca ǀ majmanā ǀ
saḥ ǀ naḥ ǀ trāsate ǀ duḥ-itāt ǀ abhi-hrutaḥ ǀ śaṃsāt ǀ aghāt ǀ abhi-hrutaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.128.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.1.14.05
- Maṇḍala · Anuvāka · Ṛk
- 1.19.016
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Parucchepa Daivodāsi
- Chandas छन्दस्
- Atyaṣṭi
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.