Ṛgveda · Maṇḍala 1 · Sūkta 128
Ṛk 1.128.3
Saṃhitā
एवे॑न स॒द्यः पर्ये॑ति॒ पार्थि॑वं मुहु॒र्गी रेतो॑ वृष॒भः कनि॑क्रद॒द्दध॒द्रेतः॒ कनि॑क्रदत् ।
श॒तं चक्षा॑णो अ॒क्षभि॑र्दे॒वो वने॑षु तु॒र्वणिः॑ ।
सदो॒ दधा॑न॒ उप॑रेषु॒ सानु॑ष्व॒ग्निः परे॑षु॒ सानु॑षु ॥
एवेन सद्यः पर्य् एति पार्थिवम् मुहुर्गी रेतो वृषभः कनिक्रदद् दधद् रेतः कनिक्रदत् |
शतं चक्षाणो अक्षभिर् देवो वनेषु तुर्वणिः |
सदो दधान उपरेषु सानुष्व् अग्निः परेषु सानुषु ||
évena sadyáḥ páryeti pā́rthivam muhurgī́ réto vṛṣabháḥ kánikradaddádhadrétaḥ kánikradat ǀ
śatám cákṣāṇo akṣábhirdevó váneṣu turváṇiḥ ǀ
sádo dádhāna úpareṣu sā́nuṣvagníḥ páreṣu sā́nuṣu ǁ
evena sadyaḥ pary eti pārthivam muhurgī reto vṛṣabhaḥ kanikradad dadhad retaḥ kanikradat |
śataṃ cakṣāṇo akṣabhir devo vaneṣu turvaṇiḥ |
sado dadhāna upareṣu sānuṣv agniḥ pareṣu sānuṣu ||
Padapāṭha
एवे॑न । स॒द्यः । परि॑ । ए॒ति॒ । पार्थि॑वम् । मु॒हुः॒ऽगीः । रेतः॑ । वृ॒ष॒भः । कनि॑क्रदत् । दध॑त् । रेतः॑ । कनि॑क्रदत् ।
श॒तम् । चक्षा॑णः । अ॒क्षऽभिः॑ । दे॒वः । वने॑षु । तु॒र्वणिः॑ ।
सदः॑ । दधा॑नः । उप॑रेषु । सानु॑षु । अ॒ग्निः । परे॑षु । सानु॑षु ॥
एवेन । सद्यः । परि । एति । पार्थिवम् । मुहुःऽगीः । रेतः । वृषभः । कनिक्रदत् । दधत् । रेतः । कनिक्रदत् ।
शतम् । चक्षाणः । अक्षऽभिः । देवः । वनेषु । तुर्वणिः ।
सदः । दधानः । उपरेषु । सानुषु । अग्निः । परेषु । सानुषु ॥
évena ǀ sadyáḥ ǀ pári ǀ eti ǀ pā́rthivam ǀ muhuḥ-gī́ḥ ǀ rétaḥ ǀ vṛṣabháḥ ǀ kánikradat ǀ dádhat ǀ rétaḥ ǀ kánikradat ǀ
śatám ǀ cákṣāṇaḥ ǀ akṣá-bhiḥ ǀ deváḥ ǀ váneṣu ǀ turváṇiḥ ǀ
sádaḥ ǀ dádhānaḥ ǀ úpareṣu ǀ sā́nuṣu ǀ agníḥ ǀ páreṣu ǀ sā́nuṣu ǁ
evena ǀ sadyaḥ ǀ pari ǀ eti ǀ pārthivam ǀ muhuḥ-gīḥ ǀ retaḥ ǀ vṛṣabhaḥ ǀ kanikradat ǀ dadhat ǀ retaḥ ǀ kanikradat ǀ
śatam ǀ cakṣāṇaḥ ǀ akṣa-bhiḥ ǀ devaḥ ǀ vaneṣu ǀ turvaṇiḥ ǀ
sadaḥ ǀ dadhānaḥ ǀ upareṣu ǀ sānuṣu ǀ agniḥ ǀ pareṣu ǀ sānuṣu ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.128.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.1.14.03
- Maṇḍala · Anuvāka · Ṛk
- 1.19.014
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Parucchepa Daivodāsi
- Chandas छन्दस्
- Atyaṣṭi
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.