Ṛgveda · Maṇḍala 1 · Sūkta 128
Ṛk 1.128.7
Saṃhitā
स मानु॑षे वृ॒जने॒ शंत॑मो हि॒तो॒३॒॑ऽग्निर्य॒ज्ञेषु॒ जेन्यो॒ न वि॒श्पतिः॑ प्रि॒यो य॒ज्ञेषु॑ वि॒श्पतिः॑ ।
स ह॒व्या मानु॑षाणामि॒ळा कृ॒तानि॑ पत्यते ।
स न॑स्त्रासते॒ वरु॑णस्य धू॒र्तेर्म॒हो दे॒वस्य॑ धू॒र्तेः ॥
स मानुषे वृजने शन्तमो हितो ऽग्निर् यज्ञेषु जेन्यो न विश्पतिः प्रियो यज्ञेषु विश्पतिः |
स हव्या मानुषाणाम् इऌआ कृतानि पत्यते |
स नस् त्रासते वरुणस्य धूर्तेर् महो देवस्य धूर्तेः ||
sá mā́nuṣe vṛjáne śáṃtamo hitó’gníryajñéṣu jényo ná viśpátiḥ priyó yajñéṣu viśpátiḥ ǀ
sá havyā́ mā́nuṣāṇāmiḷā́ kṛtā́ni patyate ǀ
sá nastrāsate váruṇasya dhūrtérmahó devásya dhūrtéḥ ǁ
sa mānuṣe vṛjane śantamo hito 'gnir yajñeṣu jenyo na viśpatiḥ priyo yajñeṣu viśpatiḥ |
sa havyā mānuṣāṇām iḷā kṛtāni patyate |
sa nas trāsate varuṇasya dhūrter maho devasya dhūrteḥ ||
Padapāṭha
सः । मानु॑षे । वृ॒जने॑ । शम्ऽत॑मः । हि॒तः । अ॒ग्निः । य॒ज्ञेषु॑ । जेन्यः॑ । न । वि॒श्पतिः॑ । प्रि॒यः । य॒ज्ञेषु॑ । वि॒श्पतिः॑ ।
सः । ह॒व्या । मानु॑षाणाम् । इ॒ळा । कृ॒तानि॑ । प॒त्य॒ते॒ ।
सः । नः॒ । त्रा॒स॒ते॒ । वरु॑णस्य । धू॒र्तेः । म॒हः । दे॒वस्य॑ । धू॒र्तेः ॥
सः । मानुषे । वृजने । शम्ऽतमः । हितः । अग्निः । यज्ञेषु । जेन्यः । न । विश्पतिः । प्रियः । यज्ञेषु । विश्पतिः ।
सः । हव्या । मानुषाणाम् । इळा । कृतानि । पत्यते ।
सः । नः । त्रासते । वरुणस्य । धूर्तेः । महः । देवस्य । धूर्तेः ॥
sáḥ ǀ mā́nuṣe ǀ vṛjáne ǀ śám-tamaḥ ǀ hitáḥ ǀ agníḥ ǀ yajñéṣu ǀ jényaḥ ǀ ná ǀ viśpátiḥ ǀ priyáḥ ǀ yajñéṣu ǀ viśpátiḥ ǀ
sáḥ ǀ havyā́ ǀ mā́nuṣāṇām ǀ iḷā́ ǀ kṛtā́ni ǀ patyate ǀ
sáḥ ǀ naḥ ǀ trāsate ǀ váruṇasya ǀ dhūrtéḥ ǀ maháḥ ǀ devásya ǀ dhūrtéḥ ǁ
saḥ ǀ mānuṣe ǀ vṛjane ǀ śam-tamaḥ ǀ hitaḥ ǀ agniḥ ǀ yajñeṣu ǀ jenyaḥ ǀ na ǀ viśpatiḥ ǀ priyaḥ ǀ yajñeṣu ǀ viśpatiḥ ǀ
saḥ ǀ havyā ǀ mānuṣāṇām ǀ iḷā ǀ kṛtāni ǀ patyate ǀ
saḥ ǀ naḥ ǀ trāsate ǀ varuṇasya ǀ dhūrteḥ ǀ mahaḥ ǀ devasya ǀ dhūrteḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.128.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.1.15.02
- Maṇḍala · Anuvāka · Ṛk
- 1.19.018
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Parucchepa Daivodāsi
- Chandas छन्दस्
- Atyaṣṭi
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.