Ṛgveda · Maṇḍala 1 · Sūkta 128
Ṛk 1.128.4
Saṃhitā
स सु॒क्रतुः॑ पु॒रोहि॑तो॒ दमे॑दमे॒ऽग्निर्य॒ज्ञस्या॑ध्व॒रस्य॑ चेतति॒ क्रत्वा॑ य॒ज्ञस्य॑ चेतति ।
क्रत्वा॑ वे॒धा इ॑षूय॒ते विश्वा॑ जा॒तानि॑ पस्पशे ।
यतो॑ घृत॒श्रीरति॑थि॒रजा॑यत॒ वह्नि॑र्वे॒धा अजा॑यत ॥
स सुक्रतुः पुरोहितो दमे-दमे ऽग्निर् यज्ञस्याध्वरस्य चेतति क्रत्वा यज्ञस्य चेतति |
क्रत्वा वेधा इषूयते विश्वा जातानि पस्पशे |
यतो घृतश्रीर् अतिथिर् अजायत वह्निर् वेधा अजायत ||
sá sukrátuḥ puróhito dámedame’gníryajñásyādhvarásya cetati krátvā yajñásya cetati ǀ
krátvā vedhā́ iṣūyaté víśvā jātā́ni paspaśe ǀ
yáto ghṛtaśrī́rátithirájāyata váhnirvedhā́ ájāyata ǁ
sa sukratuḥ purohito dame-dame 'gnir yajñasyādhvarasya cetati kratvā yajñasya cetati |
kratvā vedhā iṣūyate viśvā jātāni paspaśe |
yato ghṛtaśrīr atithir ajāyata vahnir vedhā ajāyata ||
Padapāṭha
सः । सु॒ऽक्रतुः॑ । पु॒रःऽहि॑तः । दमे॑ऽदमे । अ॒ग्निः । य॒ज्ञस्य॑ । अ॒ध्व॒रस्य॑ । चे॒त॒ति॒ । क्रत्वा॑ । य॒ज्ञस्य॑ । चे॒त॒ति॒ ।
क्रत्वा॑ । वे॒धाः । इ॒षु॒ऽय॒ते । विश्वा॑ । जा॒तानि॑ । प॒स्प॒शे॒ ।
यतः॑ । घृ॒त॒ऽश्रीः । अति॑थिः । अजा॑यत । वह्निः॑ । वे॒धाः । अजा॑यत ॥
सः । सुऽक्रतुः । पुरःऽहितः । दमेऽदमे । अग्निः । यज्ञस्य । अध्वरस्य । चेतति । क्रत्वा । यज्ञस्य । चेतति ।
क्रत्वा । वेधाः । इषुऽयते । विश्वा । जातानि । पस्पशे ।
यतः । घृतऽश्रीः । अतिथिः । अजायत । वह्निः । वेधाः । अजायत ॥
sáḥ ǀ su-krátuḥ ǀ puráḥ-hitaḥ ǀ dáme-dame ǀ agníḥ ǀ yajñásya ǀ adhvarásya ǀ cetati ǀ krátvā ǀ yajñásya ǀ cetati ǀ
krátvā ǀ vedhā́ḥ ǀ iṣu-yaté ǀ víśvā ǀ jātā́ni ǀ paspaśe ǀ
yátaḥ ǀ ghṛta-śrī́ḥ ǀ átithiḥ ǀ ájāyata ǀ váhniḥ ǀ vedhā́ḥ ǀ ájāyata ǁ
saḥ ǀ su-kratuḥ ǀ puraḥ-hitaḥ ǀ dame-dame ǀ agniḥ ǀ yajñasya ǀ adhvarasya ǀ cetati ǀ kratvā ǀ yajñasya ǀ cetati ǀ
kratvā ǀ vedhāḥ ǀ iṣu-yate ǀ viśvā ǀ jātāni ǀ paspaśe ǀ
yataḥ ǀ ghṛta-śrīḥ ǀ atithiḥ ǀ ajāyata ǀ vahniḥ ǀ vedhāḥ ǀ ajāyata ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.128.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.1.14.04
- Maṇḍala · Anuvāka · Ṛk
- 1.19.015
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Parucchepa Daivodāsi
- Chandas छन्दस्
- Atyaṣṭi
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.