Ṛgveda · Maṇḍala 1 · Sūkta 128
Ṛk 1.128.6
Saṃhitā
विश्वो॒ विहा॑या अर॒तिर्वसु॑र्दधे॒ हस्ते॒ दक्षि॑णे त॒रणि॒र्न शि॑श्रथच्छ्रव॒स्यया॒ न शि॑श्रथत् ।
विश्व॑स्मा॒ इदि॑षुध्य॒ते दे॑व॒त्रा ह॒व्यमोहि॑षे ।
विश्व॑स्मा॒ इत्सु॒कृते॒ वार॑मृण्वत्य॒ग्निर्द्वारा॒ व्यृ॑ण्वति ॥
विश्वो विहाया अरतिर् वसुर् दधे हस्ते दक्षिणे तरणिर् न शिश्रथच् छ्रवस्यया न शिश्रथत् |
विश्वस्मा इद् इषुध्यते देवत्रा हव्यम् ओहिषे |
विश्वस्मा इत् सुकृते वारम् ऋण्वत्य् अग्निर् द्वारा व्य् ऋण्वति ||
víśvo víhāyā aratírvásurdadhe háste dákṣiṇe taráṇirná śiśrathacchravasyáyā ná śiśrathat ǀ
víśvasmā ídiṣudhyaté devatrā́ havyámóhiṣe ǀ
víśvasmā ítsukṛ́te vā́ramṛṇvatyagnírdvā́rā vyṛ́ṇvati ǁ
viśvo vihāyā aratir vasur dadhe haste dakṣiṇe taraṇir na śiśrathac chravasyayā na śiśrathat |
viśvasmā id iṣudhyate devatrā havyam ohiṣe |
viśvasmā it sukṛte vāram ṛṇvaty agnir dvārā vy ṛṇvati ||
Padapāṭha
विश्वः॑ । विऽहा॑याः । अ॒र॒तिः । वसुः॑ । द॒धे॒ । हस्ते॑ । दक्षि॑णे । त॒रणिः॑ । न । शि॒श्र॒थ॒त् । श्र॒व॒स्यया॑ । न । शि॒श्र॒थ॒त् ।
विश्व॑स्मै । इत् । इ॒षु॒ध्य॒ते । दे॒व॒ऽत्रा । ह॒व्यम् । आ । ऊ॒हि॒षे॒ ।
विश्व॑स्मै । इत् । सु॒ऽकृते॑ । वार॑म् । ऋ॒ण्व॒ति॒ । अ॒ग्निः । द्वारा॑ । वि । ऋ॒ण्व॒ति॒ ॥
विश्वः । विऽहायाः । अरतिः । वसुः । दधे । हस्ते । दक्षिणे । तरणिः । न । शिश्रथत् । श्रवस्यया । न । शिश्रथत् ।
विश्वस्मै । इत् । इषुध्यते । देवऽत्रा । हव्यम् । आ । ऊहिषे ।
विश्वस्मै । इत् । सुऽकृते । वारम् । ऋण्वति । अग्निः । द्वारा । वि । ऋण्वति ॥
víśvaḥ ǀ ví-hāyāḥ ǀ aratíḥ ǀ vásuḥ ǀ dadhe ǀ háste ǀ dákṣiṇe ǀ taráṇiḥ ǀ ná ǀ śiśrathat ǀ śravasyáyā ǀ ná ǀ śiśrathat ǀ
víśvasmai ǀ ít ǀ iṣudhyaté ǀ deva-trā́ ǀ havyám ǀ ā́ ǀ ūhiṣe ǀ
víśvasmai ǀ ít ǀ su-kṛ́te ǀ vā́ram ǀ ṛṇvati ǀ agníḥ ǀ dvā́rā ǀ ví ǀ ṛṇvati ǁ
viśvaḥ ǀ vi-hāyāḥ ǀ aratiḥ ǀ vasuḥ ǀ dadhe ǀ haste ǀ dakṣiṇe ǀ taraṇiḥ ǀ na ǀ śiśrathat ǀ śravasyayā ǀ na ǀ śiśrathat ǀ
viśvasmai ǀ it ǀ iṣudhyate ǀ deva-trā ǀ havyam ǀ ā ǀ ūhiṣe ǀ
viśvasmai ǀ it ǀ su-kṛte ǀ vāram ǀ ṛṇvati ǀ agniḥ ǀ dvārā ǀ vi ǀ ṛṇvati ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.128.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.1.15.01
- Maṇḍala · Anuvāka · Ṛk
- 1.19.017
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Parucchepa Daivodāsi
- Chandas छन्दस्
- Atyaṣṭi
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.