Sūkta 168
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Jagatī, Triṣṭubh
Metres by ṛk
1st set of styles nicṛjjagatī (1, 4); virāṭtrisṭup (2, 5); bhuriktriṣṭup (6, 7); svarāṭtriṣṭup (3); triṣṭup (8); nicṛttriṣṭup (9); paṅktiḥ (10)
2nd set of styles jagatī (1-7); triṣṭubh (8-10)
-
Ṛk 1
य॒ज्ञाय॑ज्ञा वः सम॒ना तु॑तु॒र्वणि॒र्धियं॑धियं वो देव॒या उ॑ दधिध्वे ।
आ वो॒ऽर्वाचः॑ सुवि॒ताय॒ रोद॑स्योर्म॒हे व॑वृत्या॒मव॑से सुवृ॒क्तिभिः॑ ॥यज्ञा-यज्ञा वः समना तुतुर्वणिर् धियं-धियं वो देवया उ दधिध्वे |
आ वो ऽर्वाचः सुविताय रोदस्योर् महे ववृत्याम् अवसे सुवृक्तिभिः ||yajñā́yajñā vaḥ samanā́ tuturváṇirdhíyaṃdhiyam vo devayā́ u dadhidhve ǀ
ā́ vo’rvā́caḥ suvitā́ya ródasyormahé vavṛtyāmávase suvṛktíbhiḥ ǁyajñā-yajñā vaḥ samanā tuturvaṇir dhiyaṃ-dhiyaṃ vo devayā u dadhidhve |
ā vo 'rvācaḥ suvitāya rodasyor mahe vavṛtyām avase suvṛktibhiḥ ||य॒ज्ञाऽय॑ज्ञा । वः॒ । स॒म॒ना । तु॒तु॒र्वणिः॑ । धिय॑म्ऽधियम् । वः॒ । दे॒व॒ऽयाः । ऊं॒ इति॑ । द॒धि॒ध्वे॒ ।
आ । वः॒ । अ॒र्वाचः॑ । सु॒वि॒ताय॑ । रोद॑स्योः । म॒हे । व॒वृ॒त्या॒म् । अव॑से । सु॒वृ॒क्तिऽभिः॑ ॥यज्ञाऽयज्ञा । वः । समना । तुतुर्वणिः । धियम्ऽधियम् । वः । देवऽयाः । ऊं इति । दधिध्वे ।
आ । वः । अर्वाचः । सुविताय । रोदस्योः । महे । ववृत्याम् । अवसे । सुवृक्तिऽभिः ॥yajñā́-yajñā ǀ vaḥ ǀ samanā́ ǀ tuturváṇiḥ ǀ dhíyam-dhiyam ǀ vaḥ ǀ deva-yā́ḥ ǀ ūṃ íti ǀ dadhidhve ǀ
ā́ ǀ vaḥ ǀ arvā́caḥ ǀ suvitā́ya ǀ ródasyoḥ ǀ mahé ǀ vavṛtyām ǀ ávase ǀ suvṛktí-bhiḥ ǁyajñā-yajñā ǀ vaḥ ǀ samanā ǀ tuturvaṇiḥ ǀ dhiyam-dhiyam ǀ vaḥ ǀ deva-yāḥ ǀ ūṃ iti ǀ dadhidhve ǀ
ā ǀ vaḥ ǀ arvācaḥ ǀ suvitāya ǀ rodasyoḥ ǀ mahe ǀ vavṛtyām ǀ avase ǀ suvṛkti-bhiḥ ǁ1.168.1 Aṣṭaka 2.4.6.0
-
Ṛk 2
व॒व्रासो॒ न ये स्व॒जाः स्वत॑वस॒ इषं॒ स्व॑रभि॒जायं॑त॒ धूत॑यः ।
स॒ह॒स्रिया॑सो अ॒पां नोर्मय॑ आ॒सा गावो॒ वंद्या॑सो॒ नोक्षणः॑ ॥वव्रासो न ये स्वजाः स्वतवस इषं स्वर् अभिजायन्त धूतयः |
सहस्रियासो अपां नोर्मय आसा गावो वन्द्यासो नोक्षणः ||vavrā́so ná yé svajā́ḥ svátavasa íṣam svárabhijā́yanta dhū́tayaḥ ǀ
sahasríyāso apā́m nórmáya āsā́ gā́vo vándyāso nókṣáṇaḥ ǁvavrāso na ye svajāḥ svatavasa iṣaṃ svar abhijāyanta dhūtayaḥ |
sahasriyāso apāṃ normaya āsā gāvo vandyāso nokṣaṇaḥ ||व॒व्रासः॑ । न । ये । स्व॒ऽजाः । स्वऽत॑वसः । इष॑म् । स्वः॑ । अ॒भि॒ऽजाय॑न्त । धूत॑यः ।
स॒ह॒स्रिया॑सः । अ॒पाम् । न । ऊ॒र्मयः॑ । आ॒सा । गावः॑ । वन्द्या॑सः । न । उ॒क्षणः॑ ॥वव्रासः । न । ये । स्वऽजाः । स्वऽतवसः । इषम् । स्वः । अभिऽजायन्त । धूतयः ।
सहस्रियासः । अपाम् । न । ऊर्मयः । आसा । गावः । वन्द्यासः । न । उक्षणः ॥vavrā́saḥ ǀ ná ǀ yé ǀ sva-jā́ḥ ǀ svá-tavasaḥ ǀ íṣam ǀ sváḥ ǀ abhi-jā́yanta ǀ dhū́tayaḥ ǀ
sahasríyāsaḥ ǀ apā́m ǀ ná ǀ ūrmáyaḥ ǀ āsā́ ǀ gā́vaḥ ǀ vándyāsaḥ ǀ ná ǀ ukṣáṇaḥ ǁvavrāsaḥ ǀ na ǀ ye ǀ sva-jāḥ ǀ sva-tavasaḥ ǀ iṣam ǀ svaḥ ǀ abhi-jāyanta ǀ dhūtayaḥ ǀ
sahasriyāsaḥ ǀ apām ǀ na ǀ ūrmayaḥ ǀ āsā ǀ gāvaḥ ǀ vandyāsaḥ ǀ na ǀ ukṣaṇaḥ ǁ1.168.2 Aṣṭaka 2.4.6.0
-
Ṛk 3
सोमा॑सो॒ न ये सु॒तास्तृ॒प्तांश॑वो हृ॒त्सु पी॒तासो॑ दु॒वसो॒ नास॑ते ।
ऐषा॒मंसे॑षु रं॒भिणी॑व रारभे॒ हस्ते॑षु खा॒दिश्च॑ कृ॒तिश्च॒ सं द॑धे ॥सोमासो न ये सुतास् तृप्तांशवो हृत्सु पीतासो दुवसो नासते |
ऐषाम् अंसेषु रम्भिणीव रारभे हस्तेषु खादिश् च कृतिश् च सं दधे ||sómāso ná yé sutā́stṛptā́ṃśavo hṛtsú pītā́so duváso nā́sate ǀ
áiṣāmáṃseṣu rambhíṇīva rārabhe hásteṣu khādíśca kṛtíśca sám dadhe ǁsomāso na ye sutās tṛptāṃśavo hṛtsu pītāso duvaso nāsate |
aiṣām aṃseṣu rambhiṇīva rārabhe hasteṣu khādiś ca kṛtiś ca saṃ dadhe ||सोमा॑सः । न । ये । सु॒ताः । तृ॒प्तऽअं॑शवः । हृ॒त्ऽसु । पी॒तासः॑ । दु॒वसः॑ । न । आस॑ते ।
आ । ए॒षा॒म् । अंसे॑षु । र॒म्भिणी॑ऽइव । र॒र॒भे॒ । हस्ते॑षु । खा॒दिः । च॒ । कृ॒तिः । च॒ । सम् । द॒धे॒ ॥सोमासः । न । ये । सुताः । तृप्तऽअंशवः । हृत्ऽसु । पीतासः । दुवसः । न । आसते ।
आ । एषाम् । अंसेषु । रम्भिणीऽइव । ररभे । हस्तेषु । खादिः । च । कृतिः । च । सम् । दधे ॥sómāsaḥ ǀ ná ǀ yé ǀ sutā́ḥ ǀ tṛptá-aṃśavaḥ ǀ hṛt-sú ǀ pītā́saḥ ǀ duvásaḥ ǀ ná ǀ ā́sate ǀ
ā́ ǀ eṣām ǀ áṃseṣu ǀ rambhíṇī-iva ǀ rarabhe ǀ hásteṣu ǀ khādíḥ ǀ ca ǀ kṛtíḥ ǀ ca ǀ sám ǀ dadhe ǁsomāsaḥ ǀ na ǀ ye ǀ sutāḥ ǀ tṛpta-aṃśavaḥ ǀ hṛt-su ǀ pītāsaḥ ǀ duvasaḥ ǀ na ǀ āsate ǀ
ā ǀ eṣām ǀ aṃseṣu ǀ rambhiṇī-iva ǀ rarabhe ǀ hasteṣu ǀ khādiḥ ǀ ca ǀ kṛtiḥ ǀ ca ǀ sam ǀ dadhe ǁ1.168.3 Aṣṭaka 2.4.6.0
-
Ṛk 4
अव॒ स्वयु॑क्ता दि॒व आ वृथा॑ ययु॒रम॑र्त्याः॒ कश॑या चोदत॒ त्मना॑ ।
अ॒रे॒णव॑स्तुविजा॒ता अ॑चुच्यवुर्दृ॒ळ्हानि॑ चिन्म॒रुतो॒ भ्राज॑दृष्टयः ॥अव स्वयुक्ता दिव आ वृथा ययुर् अमर्त्याः कशया चोदत त्मना |
अरेणवस् तुविजाता अचुच्यवुर् दृऌहानि चिन् मरुतो भ्राजदृष्टयः ||áva sváyuktā divá ā́ vṛ́thā yayurámartyāḥ káśayā codata tmánā ǀ
areṇávastuvijātā́ acucyavurdṛḷhā́ni cinmarúto bhrā́jadṛṣṭayaḥ ǁava svayuktā diva ā vṛthā yayur amartyāḥ kaśayā codata tmanā |
areṇavas tuvijātā acucyavur dṛḷhāni cin maruto bhrājadṛṣṭayaḥ ||अव॑ । स्वऽयु॑क्ताः । दि॒वः । आ । वृथा॑ । य॒युः॒ । अम॑र्त्याः । कश॑या । चो॒द॒त॒ । त्मना॑ ।
अ॒रे॒णवः॑ । तु॒वि॒ऽजा॒ताः । अ॒चु॒च्य॒वुः॒ । दृ॒ळ्हानि॑ । चि॒त् । म॒रुतः॑ । भ्राज॑त्ऽऋष्टयः ॥अव । स्वऽयुक्ताः । दिवः । आ । वृथा । ययुः । अमर्त्याः । कशया । चोदत । त्मना ।
अरेणवः । तुविऽजाताः । अचुच्यवुः । दृळ्हानि । चित् । मरुतः । भ्राजत्ऽऋष्टयः ॥áva ǀ svá-yuktāḥ ǀ diváḥ ǀ ā́ ǀ vṛ́thā ǀ yayuḥ ǀ ámartyāḥ ǀ káśayā ǀ codata ǀ tmánā ǀ
areṇávaḥ ǀ tuvi-jātā́ḥ ǀ acucyavuḥ ǀ dṛḷhā́ni ǀ cit ǀ marútaḥ ǀ bhrā́jat-ṛṣṭayaḥ ǁava ǀ sva-yuktāḥ ǀ divaḥ ǀ ā ǀ vṛthā ǀ yayuḥ ǀ amartyāḥ ǀ kaśayā ǀ codata ǀ tmanā ǀ
areṇavaḥ ǀ tuvi-jātāḥ ǀ acucyavuḥ ǀ dṛḷhāni ǀ cit ǀ marutaḥ ǀ bhrājat-ṛṣṭayaḥ ǁ1.168.4 Aṣṭaka 2.4.6.0
-
Ṛk 5
को वो॒ऽंतर्म॑रुत ऋष्टिविद्युतो॒ रेज॑ति॒ त्मना॒ हन्वे॑व जि॒ह्वया॑ ।
ध॒न्व॒च्युत॑ इ॒षां न याम॑नि पुरु॒प्रैषा॑ अह॒न्यो॒३॒॑ नैत॑शः ॥को वो ऽन्तर् मरुत ऋष्टिविद्युतो रेजति त्मना हन्वेव जिह्वया |
धन्वच्युत इषां न यामनि पुरुप्रैषा अहन्यो नैतशः ||kó vo’ntármaruta ṛṣṭividyuto réjati tmánā hánveva jihváyā ǀ
dhanvacyúta iṣā́m ná yā́mani purupráiṣā ahanyó náitaśaḥ ǁko vo 'ntar maruta ṛṣṭividyuto rejati tmanā hanveva jihvayā |
dhanvacyuta iṣāṃ na yāmani purupraiṣā ahanyo naitaśaḥ ||कः । वः॒ । अ॒न्तः । म॒रु॒तः॒ । ऋ॒ष्टि॒ऽवि॒द्यु॒तः॒ । रेज॑ति । त्मना॑ । हन्वा॑ऽइव । जि॒ह्वया॑ ।
ध॒न्व॒ऽच्युतः॑ । इ॒षाम् । न । याम॑नि । पु॒रु॒ऽप्रैषाः॑ । अ॒ह॒न्यः॑ । न । एत॑शः ॥कः । वः । अन्तः । मरुतः । ऋष्टिऽविद्युतः । रेजति । त्मना । हन्वाऽइव । जिह्वया ।
धन्वऽच्युतः । इषाम् । न । यामनि । पुरुऽप्रैषाः । अहन्यः । न । एतशः ॥káḥ ǀ vaḥ ǀ antáḥ ǀ marutaḥ ǀ ṛṣṭi-vidyutaḥ ǀ réjati ǀ tmánā ǀ hánvā-iva ǀ jihváyā ǀ
dhanva-cyútaḥ ǀ iṣā́m ǀ ná ǀ yā́mani ǀ puru-práiṣāḥ ǀ ahanyáḥ ǀ ná ǀ étaśaḥ ǁkaḥ ǀ vaḥ ǀ antaḥ ǀ marutaḥ ǀ ṛṣṭi-vidyutaḥ ǀ rejati ǀ tmanā ǀ hanvā-iva ǀ jihvayā ǀ
dhanva-cyutaḥ ǀ iṣām ǀ na ǀ yāmani ǀ puru-praiṣāḥ ǀ ahanyaḥ ǀ na ǀ etaśaḥ ǁ1.168.5 Aṣṭaka 2.4.6.0
-
Ṛk 6
क्व॑ स्विद॒स्य रज॑सो म॒हस्परं॒ क्वाव॑रं मरुतो॒ यस्मि॑न्नाय॒य ।
यच्च्या॒वय॑थ विथु॒रेव॒ संहि॑तं॒ व्यद्रि॑णा पतथ त्वे॒षम॑र्ण॒वं ॥क्व स्विद् अस्य रजसो महस् परं क्वावरम् मरुतो यस्मिन्न् आयय |
यच् च्यावयथ विथुरेव संहितं व्य् अद्रिणा पतथ त्वेषम् अर्णवम् ||kvá svidasyá rájaso maháspáram kvā́varam maruto yásminnāyayá ǀ
yáccyāváyatha vithuréva sáṃhitam vyádriṇā patatha tveṣámarṇavám ǁkva svid asya rajaso mahas paraṃ kvāvaram maruto yasminn āyaya |
yac cyāvayatha vithureva saṃhitaṃ vy adriṇā patatha tveṣam arṇavam ||क्व॑ । स्वि॒त् । अ॒स्य । रज॑सः । म॒हः । पर॑म् । क्व॑ । अव॑रम् । म॒रु॒तः॒ । यस्मि॑न् । आ॒ऽय॒य ।
यत् । च्य॒वय॑थ । वि॒थु॒राऽइ॑व । सम्ऽहि॑तम् । वि । अद्रि॑णा । प॒त॒थ॒ । त्वे॒षम् । अ॒र्ण॒वम् ॥क्व । स्वित् । अस्य । रजसः । महः । परम् । क्व । अवरम् । मरुतः । यस्मिन् । आऽयय ।
यत् । च्यवयथ । विथुराऽइव । सम्ऽहितम् । वि । अद्रिणा । पतथ । त्वेषम् । अर्णवम् ॥kvá ǀ svit ǀ asyá ǀ rájasaḥ ǀ maháḥ ǀ páram ǀ kvá ǀ ávaram ǀ marutaḥ ǀ yásmin ǀ ā-yayá ǀ
yát ǀ cyaváyatha ǀ vithurā́-iva ǀ sám-hitam ǀ ví ǀ ádriṇā ǀ patatha ǀ tveṣám ǀ arṇavám ǁkva ǀ svit ǀ asya ǀ rajasaḥ ǀ mahaḥ ǀ param ǀ kva ǀ avaram ǀ marutaḥ ǀ yasmin ǀ ā-yaya ǀ
yat ǀ cyavayatha ǀ vithurā-iva ǀ sam-hitam ǀ vi ǀ adriṇā ǀ patatha ǀ tveṣam ǀ arṇavam ǁ1.168.6 Aṣṭaka 2.4.7.0
-
Ṛk 7
सा॒तिर्न वोऽम॑वती॒ स्व॑र्वती त्वे॒षा विपा॑का मरुतः॒ पिपि॑ष्वती ।
भ॒द्रा वो॑ रा॒तिः पृ॑ण॒तो न दक्षि॑णा पृथु॒ज्रयी॑ असु॒र्ये॑व॒ जंज॑ती ॥सातिर् न वो ऽमवती स्वर्वती त्वेषा विपाका मरुतः पिपिष्वती |
भद्रा वो रातिः पृणतो न दक्षिणा पृथुज्रयी असुर्येव जञ्जती ||sātírná vó’mavatī svárvatī tveṣā́ vípākā marutaḥ pípiṣvatī ǀ
bhadrā́ vo rātíḥ pṛṇató ná dákṣiṇā pṛthujráyī asuryéva jáñjatī ǁsātir na vo 'mavatī svarvatī tveṣā vipākā marutaḥ pipiṣvatī |
bhadrā vo rātiḥ pṛṇato na dakṣiṇā pṛthujrayī asuryeva jañjatī ||सा॒तिः । न । वः॒ । अम॑ऽवती । स्वः॑ऽवती । त्वे॒षा । विऽपा॑का । म॒रु॒तः॒ । पिपि॑ष्वती ।
भ॒द्रा । वः॒ । रा॒तिः । पृ॒ण॒तः । न । दक्षि॑णा । पृ॒थु॒ऽज्रयी॑ । असु॒र्या॑ऽइव । जञ्ज॑ती ॥सातिः । न । वः । अमऽवती । स्वःऽवती । त्वेषा । विऽपाका । मरुतः । पिपिष्वती ।
भद्रा । वः । रातिः । पृणतः । न । दक्षिणा । पृथुऽज्रयी । असुर्याऽइव । जञ्जती ॥sātíḥ ǀ ná ǀ vaḥ ǀ áma-vatī ǀ sváḥ-vatī ǀ tveṣā́ ǀ ví-pākā ǀ marutaḥ ǀ pípiṣvatī ǀ
bhadrā́ ǀ vaḥ ǀ rātíḥ ǀ pṛṇatáḥ ǀ ná ǀ dákṣiṇā ǀ pṛthu-jráyī ǀ ásuryā-iva ǀ jáñjatī ǁsātiḥ ǀ na ǀ vaḥ ǀ ama-vatī ǀ svaḥ-vatī ǀ tveṣā ǀ vi-pākā ǀ marutaḥ ǀ pipiṣvatī ǀ
bhadrā ǀ vaḥ ǀ rātiḥ ǀ pṛṇataḥ ǀ na ǀ dakṣiṇā ǀ pṛthu-jrayī ǀ asuryā-iva ǀ jañjatī ǁ1.168.7 Aṣṭaka 2.4.7.0
-
Ṛk 8
प्रति॑ ष्टोभंति॒ सिंध॑वः प॒विभ्यो॒ यद॒भ्रियां॒ वाच॑मुदी॒रयं॑ति ।
अव॑ स्मयंत वि॒द्युतः॑ पृथि॒व्यां यदी॑ घृ॒तं म॒रुतः॑ प्रुष्णु॒वंति॑ ॥प्रति ष्टोभन्ति सिन्धवः पविभ्यो यद् अभ्रियां वाचम् उदीरयन्ति |
अव स्मयन्त विद्युतः पृथिव्यां यदी घृतम् मरुतः प्रुष्णुवन्ति ||práti ṣṭobhanti síndhavaḥ pavíbhyo yádabhríyām vā́camudīráyanti ǀ
áva smayanta vidyútaḥ pṛthivyā́m yádī ghṛtám marútaḥ pruṣṇuvánti ǁprati ṣṭobhanti sindhavaḥ pavibhyo yad abhriyāṃ vācam udīrayanti |
ava smayanta vidyutaḥ pṛthivyāṃ yadī ghṛtam marutaḥ pruṣṇuvanti ||प्रति॑ । स्तो॒भ॒न्ति॒ । सिन्ध॑वः । प॒विऽभ्यः॑ । यत् । अ॒भ्रिया॑म् । वाच॑म् । उ॒त्ऽई॒रय॑न्ति ।
अव॑ । स्म॒य॒न्त॒ । वि॒ऽद्युतः॑ । पृ॒थि॒व्याम् । यदि॑ । घृ॒तम् । म॒रुतः॑ । प्रु॒ष्णु॒वन्ति॑ ॥प्रति । स्तोभन्ति । सिन्धवः । पविऽभ्यः । यत् । अभ्रियाम् । वाचम् । उत्ऽईरयन्ति ।
अव । स्मयन्त । विऽद्युतः । पृथिव्याम् । यदि । घृतम् । मरुतः । प्रुष्णुवन्ति ॥práti ǀ stobhanti ǀ síndhavaḥ ǀ paví-bhyaḥ ǀ yát ǀ abhríyām ǀ vā́cam ǀ ut-īráyanti ǀ
áva ǀ smayanta ǀ vi-dyútaḥ ǀ pṛthivyā́m ǀ yádi ǀ ghṛtám ǀ marútaḥ ǀ pruṣṇuvánti ǁprati ǀ stobhanti ǀ sindhavaḥ ǀ pavi-bhyaḥ ǀ yat ǀ abhriyām ǀ vācam ǀ ut-īrayanti ǀ
ava ǀ smayanta ǀ vi-dyutaḥ ǀ pṛthivyām ǀ yadi ǀ ghṛtam ǀ marutaḥ ǀ pruṣṇuvanti ǁ1.168.8 Aṣṭaka 2.4.7.0
-
Ṛk 9
असू॑त॒ पृश्नि॑र्मह॒ते रणा॑य त्वे॒षम॒यासां॑ म॒रुता॒मनी॑कं ।
ते स॑प्स॒रासो॑ऽजनयं॒ताभ्व॒मादित्स्व॒धामि॑षि॒रां पर्य॑पश्यन् ॥असूत पृश्निर् महते रणाय त्वेषम् अयासाम् मरुताम् अनीकम् |
ते सप्सरासो ऽजनयन्ताभ्वम् आद् इत् स्वधाम् इषिराम् पर्य् अपश्यन् ||ásūta pṛ́śnirmahaté ráṇāya tveṣámayā́sām marútāmánīkam ǀ
té sapsarā́so’janayantā́bhvamā́dítsvadhā́miṣirā́m páryapaśyan ǁasūta pṛśnir mahate raṇāya tveṣam ayāsām marutām anīkam |
te sapsarāso 'janayantābhvam ād it svadhām iṣirām pary apaśyan ||असू॑त । पृश्निः॑ । म॒ह॒ते । रणा॑य । त्वे॒षम् । अ॒यासा॑म् । म॒रुता॑म् । अनी॑कम् ।
ते । स॒प्स॒रासः॑ । अ॒ज॒न॒य॒न्त॒ । अभ्व॑म् । आत् । इत् । स्व॒धाम् । इ॒षि॒राम् । परि॑ । अ॒प॒श्य॒न् ॥असूत । पृश्निः । महते । रणाय । त्वेषम् । अयासाम् । मरुताम् । अनीकम् ।
ते । सप्सरासः । अजनयन्त । अभ्वम् । आत् । इत् । स्वधाम् । इषिराम् । परि । अपश्यन् ॥ásūta ǀ pṛ́śniḥ ǀ mahaté ǀ ráṇāya ǀ tveṣám ǀ ayā́sām ǀ marútām ǀ ánīkam ǀ
té ǀ sapsarā́saḥ ǀ ajanayanta ǀ ábhvam ǀ ā́t ǀ ít ǀ svadhā́m ǀ iṣirā́m ǀ pári ǀ apaśyan ǁasūta ǀ pṛśniḥ ǀ mahate ǀ raṇāya ǀ tveṣam ǀ ayāsām ǀ marutām ǀ anīkam ǀ
te ǀ sapsarāsaḥ ǀ ajanayanta ǀ abhvam ǀ āt ǀ it ǀ svadhām ǀ iṣirām ǀ pari ǀ apaśyan ǁ1.168.9 Aṣṭaka 2.4.7.0
-
Ṛk 10
ए॒ष वः॒ स्तोमो॑ मरुत इ॒यं गीर्मां॑दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः ।
एषा या॑सीष्ट त॒न्वे॑ व॒यां वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥एष व स्तोमो मरुत इयं गीर् मान्दार्यस्य मान्यस्य कारोः |
एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ||eṣá vaḥ stómo maruta iyám gī́rmāndāryásya mānyásya kāróḥ ǀ
éṣā́ yāsīṣṭa tanvé vayā́m vidyā́meṣám vṛjánam jīrádānum ǁeṣa va stomo maruta iyaṃ gīr māndāryasya mānyasya kāroḥ |
eṣā yāsīṣṭa tanve vayāṃ vidyāmeṣaṃ vṛjanaṃ jīradānum ||ए॒षः । वः॒ । स्तोमः॑ । म॒रु॒तः॒ । इ॒यम् । गीः । मा॒न्दा॒र्यस्य॑ । मा॒न्यस्य॑ । का॒रोः ।
आ । इ॒षा । या॒सी॒ष्ट॒ । त॒न्वे॑ । व॒याम् । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥एषः । वः । स्तोमः । मरुतः । इयम् । गीः । मान्दार्यस्य । मान्यस्य । कारोः ।
आ । इषा । यासीष्ट । तन्वे । वयाम् । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥eṣáḥ ǀ vaḥ ǀ stómaḥ ǀ marutaḥ ǀ iyám ǀ gī́ḥ ǀ māndāryásya ǀ mānyásya ǀ kāróḥ ǀ
ā́ ǀ iṣā́ ǀ yāsīṣṭa ǀ tanvé ǀ vayā́m ǀ vidyā́ma ǀ iṣám ǀ vṛjánam ǀ jīrá-dānum ǁeṣaḥ ǀ vaḥ ǀ stomaḥ ǀ marutaḥ ǀ iyam ǀ gīḥ ǀ māndāryasya ǀ mānyasya ǀ kāroḥ ǀ
ā ǀ iṣā ǀ yāsīṣṭa ǀ tanve ǀ vayām ǀ vidyāma ǀ iṣam ǀ vṛjanam ǀ jīra-dānum ǁ1.168.10 Aṣṭaka 2.4.7.0
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.