Ṛgveda · Maṇḍala 1 · Sūkta 168
Ṛk 1.168.6
Saṃhitā
क्व॑ स्विद॒स्य रज॑सो म॒हस्परं॒ क्वाव॑रं मरुतो॒ यस्मि॑न्नाय॒य ।
यच्च्या॒वय॑थ विथु॒रेव॒ संहि॑तं॒ व्यद्रि॑णा पतथ त्वे॒षम॑र्ण॒वं ॥
क्व स्विद् अस्य रजसो महस् परं क्वावरम् मरुतो यस्मिन्न् आयय |
यच् च्यावयथ विथुरेव संहितं व्य् अद्रिणा पतथ त्वेषम् अर्णवम् ||
kvá svidasyá rájaso maháspáram kvā́varam maruto yásminnāyayá ǀ
yáccyāváyatha vithuréva sáṃhitam vyádriṇā patatha tveṣámarṇavám ǁ
kva svid asya rajaso mahas paraṃ kvāvaram maruto yasminn āyaya |
yac cyāvayatha vithureva saṃhitaṃ vy adriṇā patatha tveṣam arṇavam ||
Padapāṭha
क्व॑ । स्वि॒त् । अ॒स्य । रज॑सः । म॒हः । पर॑म् । क्व॑ । अव॑रम् । म॒रु॒तः॒ । यस्मि॑न् । आ॒ऽय॒य ।
यत् । च्य॒वय॑थ । वि॒थु॒राऽइ॑व । सम्ऽहि॑तम् । वि । अद्रि॑णा । प॒त॒थ॒ । त्वे॒षम् । अ॒र्ण॒वम् ॥
क्व । स्वित् । अस्य । रजसः । महः । परम् । क्व । अवरम् । मरुतः । यस्मिन् । आऽयय ।
यत् । च्यवयथ । विथुराऽइव । सम्ऽहितम् । वि । अद्रिणा । पतथ । त्वेषम् । अर्णवम् ॥
kvá ǀ svit ǀ asyá ǀ rájasaḥ ǀ maháḥ ǀ páram ǀ kvá ǀ ávaram ǀ marutaḥ ǀ yásmin ǀ ā-yayá ǀ
yát ǀ cyaváyatha ǀ vithurā́-iva ǀ sám-hitam ǀ ví ǀ ádriṇā ǀ patatha ǀ tveṣám ǀ arṇavám ǁ
kva ǀ svit ǀ asya ǀ rajasaḥ ǀ mahaḥ ǀ param ǀ kva ǀ avaram ǀ marutaḥ ǀ yasmin ǀ ā-yaya ǀ
yat ǀ cyavayatha ǀ vithurā-iva ǀ sam-hitam ǀ vi ǀ adriṇā ǀ patatha ǀ tveṣam ǀ arṇavam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.168.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.4.07.00
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.