Ṛgveda · Maṇḍala 1 · Sūkta 168
Ṛk 1.168.3
Saṃhitā
सोमा॑सो॒ न ये सु॒तास्तृ॒प्तांश॑वो हृ॒त्सु पी॒तासो॑ दु॒वसो॒ नास॑ते ।
ऐषा॒मंसे॑षु रं॒भिणी॑व रारभे॒ हस्ते॑षु खा॒दिश्च॑ कृ॒तिश्च॒ सं द॑धे ॥
सोमासो न ये सुतास् तृप्तांशवो हृत्सु पीतासो दुवसो नासते |
ऐषाम् अंसेषु रम्भिणीव रारभे हस्तेषु खादिश् च कृतिश् च सं दधे ||
sómāso ná yé sutā́stṛptā́ṃśavo hṛtsú pītā́so duváso nā́sate ǀ
áiṣāmáṃseṣu rambhíṇīva rārabhe hásteṣu khādíśca kṛtíśca sám dadhe ǁ
somāso na ye sutās tṛptāṃśavo hṛtsu pītāso duvaso nāsate |
aiṣām aṃseṣu rambhiṇīva rārabhe hasteṣu khādiś ca kṛtiś ca saṃ dadhe ||
Padapāṭha
सोमा॑सः । न । ये । सु॒ताः । तृ॒प्तऽअं॑शवः । हृ॒त्ऽसु । पी॒तासः॑ । दु॒वसः॑ । न । आस॑ते ।
आ । ए॒षा॒म् । अंसे॑षु । र॒म्भिणी॑ऽइव । र॒र॒भे॒ । हस्ते॑षु । खा॒दिः । च॒ । कृ॒तिः । च॒ । सम् । द॒धे॒ ॥
सोमासः । न । ये । सुताः । तृप्तऽअंशवः । हृत्ऽसु । पीतासः । दुवसः । न । आसते ।
आ । एषाम् । अंसेषु । रम्भिणीऽइव । ररभे । हस्तेषु । खादिः । च । कृतिः । च । सम् । दधे ॥
sómāsaḥ ǀ ná ǀ yé ǀ sutā́ḥ ǀ tṛptá-aṃśavaḥ ǀ hṛt-sú ǀ pītā́saḥ ǀ duvásaḥ ǀ ná ǀ ā́sate ǀ
ā́ ǀ eṣām ǀ áṃseṣu ǀ rambhíṇī-iva ǀ rarabhe ǀ hásteṣu ǀ khādíḥ ǀ ca ǀ kṛtíḥ ǀ ca ǀ sám ǀ dadhe ǁ
somāsaḥ ǀ na ǀ ye ǀ sutāḥ ǀ tṛpta-aṃśavaḥ ǀ hṛt-su ǀ pītāsaḥ ǀ duvasaḥ ǀ na ǀ āsate ǀ
ā ǀ eṣām ǀ aṃseṣu ǀ rambhiṇī-iva ǀ rarabhe ǀ hasteṣu ǀ khādiḥ ǀ ca ǀ kṛtiḥ ǀ ca ǀ sam ǀ dadhe ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.168.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.4.06.00
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.