Ṛgveda · Maṇḍala 1 · Sūkta 168
Ṛk 1.168.9
Saṃhitā
असू॑त॒ पृश्नि॑र्मह॒ते रणा॑य त्वे॒षम॒यासां॑ म॒रुता॒मनी॑कं ।
ते स॑प्स॒रासो॑ऽजनयं॒ताभ्व॒मादित्स्व॒धामि॑षि॒रां पर्य॑पश्यन् ॥
असूत पृश्निर् महते रणाय त्वेषम् अयासाम् मरुताम् अनीकम् |
ते सप्सरासो ऽजनयन्ताभ्वम् आद् इत् स्वधाम् इषिराम् पर्य् अपश्यन् ||
ásūta pṛ́śnirmahaté ráṇāya tveṣámayā́sām marútāmánīkam ǀ
té sapsarā́so’janayantā́bhvamā́dítsvadhā́miṣirā́m páryapaśyan ǁ
asūta pṛśnir mahate raṇāya tveṣam ayāsām marutām anīkam |
te sapsarāso 'janayantābhvam ād it svadhām iṣirām pary apaśyan ||
Padapāṭha
असू॑त । पृश्निः॑ । म॒ह॒ते । रणा॑य । त्वे॒षम् । अ॒यासा॑म् । म॒रुता॑म् । अनी॑कम् ।
ते । स॒प्स॒रासः॑ । अ॒ज॒न॒य॒न्त॒ । अभ्व॑म् । आत् । इत् । स्व॒धाम् । इ॒षि॒राम् । परि॑ । अ॒प॒श्य॒न् ॥
असूत । पृश्निः । महते । रणाय । त्वेषम् । अयासाम् । मरुताम् । अनीकम् ।
ते । सप्सरासः । अजनयन्त । अभ्वम् । आत् । इत् । स्वधाम् । इषिराम् । परि । अपश्यन् ॥
ásūta ǀ pṛ́śniḥ ǀ mahaté ǀ ráṇāya ǀ tveṣám ǀ ayā́sām ǀ marútām ǀ ánīkam ǀ
té ǀ sapsarā́saḥ ǀ ajanayanta ǀ ábhvam ǀ ā́t ǀ ít ǀ svadhā́m ǀ iṣirā́m ǀ pári ǀ apaśyan ǁ
asūta ǀ pṛśniḥ ǀ mahate ǀ raṇāya ǀ tveṣam ǀ ayāsām ǀ marutām ǀ anīkam ǀ
te ǀ sapsarāsaḥ ǀ ajanayanta ǀ abhvam ǀ āt ǀ it ǀ svadhām ǀ iṣirām ǀ pari ǀ apaśyan ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.168.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.4.07.00
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.