Sūkta 2
- Devatā देवता
- 1-3: Vāyu; 4-6: Indra, Vāyu; 7-9: Mitra, Varuṇa
- Ṛṣi ऋषि
- Madhucchandas Vaiśvāmitra
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles gāyatrī (3-5, 7-9); pipīlikāmadhyānicṛdgāyatrī (1, 2); nicṛdgāyatrī (6)
2nd set of styles gāyatrī
-
Ṛk 1
वाय॒वा या॑हि दर्शते॒मे सोमा॒ अरं॑कृताः ।
तेषां॑ पाहि श्रु॒धी हवं॑ ॥वायव् आ याहि दर्शतेमे सोमा अरङ्कृताः |
तेषाम् पाहि श्रुधी हवम् ||vā́yavā́ yāhi darśatemé sómā áraṃkṛtāḥ ǀ
téṣām pāhi śrudhī́ hávam ǁvāyav ā yāhi darśateme somā araṅkṛtāḥ |
teṣām pāhi śrudhī havam ||वायो॒ इति॑ । आ । या॒हि॒ । द॒र्श॒त॒ । इ॒मे । सोमाः॑ । अर॑म्ऽकृताः ।
तेषा॑म् । पा॒हि॒ । श्रु॒धि । हव॑म् ॥वायो इति । आ । याहि । दर्शत । इमे । सोमाः । अरम्ऽकृताः ।
तेषाम् । पाहि । श्रुधि । हवम् ॥vā́yo íti ǀ ā́ ǀ yāhi ǀ darśata ǀ imé ǀ sómāḥ ǀ áram-kṛtāḥ ǀ
téṣām ǀ pāhi ǀ śrudhí ǀ hávam ǁvāyo iti ǀ ā ǀ yāhi ǀ darśata ǀ ime ǀ somāḥ ǀ aram-kṛtāḥ ǀ
teṣām ǀ pāhi ǀ śrudhi ǀ havam ǁ1.2.1 Aṣṭaka 1.1.3.1Anuvāka 1.1.10
-
Ṛk 2
वाय॑ उ॒क्थेभि॑र्जरंते॒ त्वामच्छा॑ जरि॒तारः॑ ।
सु॒तसो॑मा अह॒र्विदः॑ ॥वाय उक्थेभिर् जरन्ते त्वाम् अच्छा जरितारः |
सुतसोमा अहर्विदः ||vā́ya ukthébhirjarante tvā́mácchā jaritā́raḥ ǀ
sutásomā aharvídaḥ ǁvāya ukthebhir jarante tvām acchā jaritāraḥ |
sutasomā aharvidaḥ ||वायो॒ इति॑ । उ॒क्थेभिः॑ । ज॒र॒न्ते॒ । त्वाम् । अच्छ॑ । ज॒रि॒तारः॑ ।
सु॒तऽसो॑माः । अ॒हः॒ऽविदः॑ ॥वायो इति । उक्थेभिः । जरन्ते । त्वाम् । अच्छ । जरितारः ।
सुतऽसोमाः । अहःऽविदः ॥vā́yo íti ǀ ukthébhiḥ ǀ jarante ǀ tvā́m ǀ áccha ǀ jaritā́raḥ ǀ
sutá-somāḥ ǀ ahaḥ-vídaḥ ǁvāyo iti ǀ ukthebhiḥ ǀ jarante ǀ tvām ǀ accha ǀ jaritāraḥ ǀ
suta-somāḥ ǀ ahaḥ-vidaḥ ǁ1.2.2 Aṣṭaka 1.1.3.2Anuvāka 1.1.11
-
Ṛk 3
वायो॒ तव॑ प्रपृंच॒ती धेना॑ जिगाति दा॒शुषे॑ ।
उ॒रू॒ची सोम॑पीतये ॥वायो तव प्रपृञ्चती धेना जिगाति दाशुषे |
उरूची सोमपीतये ||vā́yo táva prapṛñcatī́ dhénā jigāti dāśúṣe ǀ
urūcī́ sómapītaye ǁvāyo tava prapṛñcatī dhenā jigāti dāśuṣe |
urūcī somapītaye ||वायो॒ इति॑ । तव॑ । प्र॒ऽपृ॒ञ्च॒ती । धेना॑ । जि॒गा॒ति॒ । दा॒शुषे॑ ।
उ॒रू॒ची । सोम॑ऽपीतये ॥वायो इति । तव । प्रऽपृञ्चती । धेना । जिगाति । दाशुषे ।
उरूची । सोमऽपीतये ॥vā́yo íti ǀ táva ǀ pra-pṛñcatī́ ǀ dhénā ǀ jigāti ǀ dāśúṣe ǀ
urūcī́ ǀ sóma-pītaye ǁvāyo iti ǀ tava ǀ pra-pṛñcatī ǀ dhenā ǀ jigāti ǀ dāśuṣe ǀ
urūcī ǀ soma-pītaye ǁ1.2.3 Aṣṭaka 1.1.3.3Anuvāka 1.1.12
-
Ṛk 4
इंद्र॑वायू इ॒मे सु॒ता उप॒ प्रयो॑भि॒रा ग॑तं ।
इंद॑वो वामु॒शंति॒ हि ॥इन्द्रवायू इमे सुता उप प्रयोभिर् आ गतम् |
इन्दवो वाम् उशन्ति हि ||índravāyū imé sutā́ úpa práyobhirā́ gatam ǀ
índavo vāmuśánti hí ǁindravāyū ime sutā upa prayobhir ā gatam |
indavo vām uśanti hi ||इन्द्र॑वायू॒ इति॑ । इ॒मे । सु॒ताः । उप॑ । प्रयः॑ऽभिः । आ । ग॒त॒म् ।
इन्द॑वः । वा॒म् । उ॒शन्ति॑ । हि ॥इन्द्रवायू इति । इमे । सुताः । उप । प्रयःऽभिः । आ । गतम् ।
इन्दवः । वाम् । उशन्ति । हि ॥índravāyū íti ǀ imé ǀ sutā́ḥ ǀ úpa ǀ práyaḥ-bhiḥ ǀ ā́ ǀ gatam ǀ
índavaḥ ǀ vām ǀ uśánti ǀ hí ǁindravāyū iti ǀ ime ǀ sutāḥ ǀ upa ǀ prayaḥ-bhiḥ ǀ ā ǀ gatam ǀ
indavaḥ ǀ vām ǀ uśanti ǀ hi ǁ1.2.4 Aṣṭaka 1.1.3.4Anuvāka 1.1.13
-
Ṛk 5
वाय॒विंद्र॑श्च चेतथः सु॒तानां॑ वाजिनीवसू ।
तावा या॑त॒मुप॑ द्र॒वत् ॥वायव् इन्द्रश् च चेतथः सुतानां वाजिनीवसू |
ताव् आ यातम् उप द्रवत् ||vā́yavíndraśca cetathaḥ sutā́nām vājinīvasū ǀ
tā́vā́ yātamúpa dravát ǁvāyav indraś ca cetathaḥ sutānāṃ vājinīvasū |
tāv ā yātam upa dravat ||वायो॒ इति॑ । इन्द्रः॑ । च॒ । चे॒त॒थः॒ । सु॒ताना॑म् । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ।
तौ । आ । या॒त॒म् । उप॑ । द्र॒वत् ॥वायो इति । इन्द्रः । च । चेतथः । सुतानाम् । वाजिनीवसू इति वाजिनीऽवसू ।
तौ । आ । यातम् । उप । द्रवत् ॥vā́yo íti ǀ índraḥ ǀ ca ǀ cetathaḥ ǀ sutā́nām ǀ vājinīvasū íti vājinī-vasū ǀ
táu ǀ ā́ ǀ yātam ǀ úpa ǀ dravát ǁvāyo iti ǀ indraḥ ǀ ca ǀ cetathaḥ ǀ sutānām ǀ vājinīvasū iti vājinī-vasū ǀ
tau ǀ ā ǀ yātam ǀ upa ǀ dravat ǁ1.2.5 Aṣṭaka 1.1.3.5Anuvāka 1.1.14
-
Ṛk 6
वाय॒विंद्र॑श्च सुन्व॒त आ या॑त॒मुप॑ निष्कृ॒तं ।
म॒क्ष्वि१॒॑त्था धि॒या न॑रा ॥वायव् इन्द्रश् च सुन्वत आ यातम् उप निष्कृतम् |
मक्ष्व् इत्था धिया नरा ||vā́yavíndraśca sunvatá ā́ yātamúpa niṣkṛtám ǀ
makṣvítthā́ dhiyā́ narā ǁvāyav indraś ca sunvata ā yātam upa niṣkṛtam |
makṣv itthā dhiyā narā ||वायो॒ इति॑ । इन्द्रः॑ । च॒ । सु॒न्व॒तः । आ । या॒त॒म् । उप॑ । निः॒ऽकृ॒तम् ।
म॒क्षु । इ॒त्था । धि॒या । न॒रा॒ ॥वायो इति । इन्द्रः । च । सुन्वतः । आ । यातम् । उप । निःऽकृतम् ।
मक्षु । इत्था । धिया । नरा ॥vā́yo íti ǀ índraḥ ǀ ca ǀ sunvatáḥ ǀ ā́ ǀ yātam ǀ úpa ǀ niḥ-kṛtám ǀ
makṣú ǀ itthā́ ǀ dhiyā́ ǀ narā ǁvāyo iti ǀ indraḥ ǀ ca ǀ sunvataḥ ǀ ā ǀ yātam ǀ upa ǀ niḥ-kṛtam ǀ
makṣu ǀ itthā ǀ dhiyā ǀ narā ǁ1.2.6 Aṣṭaka 1.1.4.1Anuvāka 1.1.15
-
Ṛk 7
मि॒त्रं हु॑वे पू॒तद॑क्षं॒ वरु॑णं च रि॒शाद॑सं ।
धियं॑ घृ॒ताचीं॒ साधं॑ता ॥मित्रं हुवे पूतदक्षं वरुणं च रिशादसम् |
धियं घृताचीं साधन्ता ||mitrám huve pūtádakṣam váruṇam ca riśā́dasam ǀ
dhíyam ghṛtā́cīm sā́dhantā ǁmitraṃ huve pūtadakṣaṃ varuṇaṃ ca riśādasam |
dhiyaṃ ghṛtācīṃ sādhantā ||मि॒त्रम् । हु॒वे॒ । पू॒तऽद॑क्षम् । वरु॑णम् । च॒ । रि॒शाद॑सम् ।
धिय॑म् । घृ॒ताची॑म् । साध॑न्ता ॥मित्रम् । हुवे । पूतऽदक्षम् । वरुणम् । च । रिशादसम् ।
धियम् । घृताचीम् । साधन्ता ॥mitrám ǀ huve ǀ pūtá-dakṣam ǀ váruṇam ǀ ca ǀ riśā́dasam ǀ
dhíyam ǀ ghṛtā́cīm ǀ sā́dhantā ǁmitram ǀ huve ǀ pūta-dakṣam ǀ varuṇam ǀ ca ǀ riśādasam ǀ
dhiyam ǀ ghṛtācīm ǀ sādhantā ǁ1.2.7 Aṣṭaka 1.1.4.2Anuvāka 1.1.16
-
Ṛk 8
ऋ॒तेन॑ मित्रावरुणावृतावृधावृतस्पृशा ।
क्रतुं॑ बृ॒हंत॑माशाथे ॥ऋतेन मित्रावरुणाव् ऋतावृधाव् ऋतस्पृशा |
क्रतुम् बृहन्तम् आशाथे ||ṛténa mitrāvaruṇāvṛtāvṛdhāvṛtaspṛśā ǀ
krátum bṛhántamāśāthe ǁṛtena mitrāvaruṇāv ṛtāvṛdhāv ṛtaspṛśā |
kratum bṛhantam āśāthe ||ऋ॒तेन॑ । मि॒त्रा॒व॒रु॒णौ॒ । ऋ॒त॒ऽवृ॒धौ॒ । ऋ॒त॒ऽस्पृ॒शा॒ ।
क्रतु॑म् । बृ॒हन्त॑म् । आ॒शा॒थे॒ इति॑ ॥ऋतेन । मित्रावरुणौ । ऋतऽवृधौ । ऋतऽस्पृशा ।
क्रतुम् । बृहन्तम् । आशाथे इति ॥ṛténa ǀ mitrāvaruṇau ǀ ṛta-vṛdhau ǀ ṛta-spṛśā ǀ
krátum ǀ bṛhántam ǀ āśāthe íti ǁṛtena ǀ mitrāvaruṇau ǀ ṛta-vṛdhau ǀ ṛta-spṛśā ǀ
kratum ǀ bṛhantam ǀ āśāthe iti ǁ1.2.8 Aṣṭaka 1.1.4.3Anuvāka 1.1.17
-
Ṛk 9
क॒वी नो॑ मि॒त्रावरु॑णा तुविजा॒ता उ॑रु॒क्षया॑ ।
दक्षं॑ दधाते अ॒पसं॑ ॥कवी नो मित्रावरुणा तुविजाता उरुक्षया |
दक्षं दधाते अपसम् ||kavī́ no mitrā́váruṇā tuvijātā́ urukṣáyā ǀ
dákṣam dadhāte apásam ǁkavī no mitrāvaruṇā tuvijātā urukṣayā |
dakṣaṃ dadhāte apasam ||क॒वी इति॑ । नः॒ । मि॒त्रावरु॑णा । तु॒वि॒ऽजा॒तौ । उ॒रु॒ऽक्षया॑ ।
दक्ष॑म् । द॒धा॒ते॒ इति॑ । अ॒पस॑म् ॥कवी इति । नः । मित्रावरुणा । तुविऽजातौ । उरुऽक्षया ।
दक्षम् । दधाते इति । अपसम् ॥kavī́ íti ǀ naḥ ǀ mitrā́váruṇā ǀ tuvi-jātáu ǀ uru-kṣáyā ǀ
dákṣam ǀ dadhāte íti ǀ apásam ǁkavī iti ǀ naḥ ǀ mitrāvaruṇā ǀ tuvi-jātau ǀ uru-kṣayā ǀ
dakṣam ǀ dadhāte iti ǀ apasam ǁ1.2.9 Aṣṭaka 1.1.4.4Anuvāka 1.1.18
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.