Ṛk 1.2.5
Saṃhitā
वाय॒विंद्र॑श्च चेतथः सु॒तानां॑ वाजिनीवसू ।
तावा या॑त॒मुप॑ द्र॒वत् ॥
वायव् इन्द्रश् च चेतथः सुतानां वाजिनीवसू |
ताव् आ यातम् उप द्रवत् ||
vā́yavíndraśca cetathaḥ sutā́nām vājinīvasū ǀ
tā́vā́ yātamúpa dravát ǁ
vāyav indraś ca cetathaḥ sutānāṃ vājinīvasū |
tāv ā yātam upa dravat ||
Padapāṭha
वायो॒ इति॑ । इन्द्रः॑ । च॒ । चे॒त॒थः॒ । सु॒ताना॑म् । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ।
तौ । आ । या॒त॒म् । उप॑ । द्र॒वत् ॥
वायो इति । इन्द्रः । च । चेतथः । सुतानाम् । वाजिनीवसू इति वाजिनीऽवसू ।
तौ । आ । यातम् । उप । द्रवत् ॥
vā́yo íti ǀ índraḥ ǀ ca ǀ cetathaḥ ǀ sutā́nām ǀ vājinīvasū íti vājinī-vasū ǀ
táu ǀ ā́ ǀ yātam ǀ úpa ǀ dravát ǁ
vāyo iti ǀ indraḥ ǀ ca ǀ cetathaḥ ǀ sutānām ǀ vājinīvasū iti vājinī-vasū ǀ
tau ǀ ā ǀ yātam ǀ upa ǀ dravat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.002.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.1.03.05
- Maṇḍala · Anuvāka · Ṛk
- 01.01.014
- Devatā देवता
- 1-3: Vāyu; 4-6: Indra, Vāyu; 7-9: Mitra, Varuṇa
- Ṛṣi ऋषि
- Madhucchandas Vaiśvāmitra
- Chandas छन्दस्
- Gāyatrī
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.