Sūkta 24
- Devatā देवता
- 1: Prajāpati; 2: Agni; 3-5: Savitṛ; 6-15: Varuṇa
- Ṛṣi ऋषि
- Śunaḥśepa Ājīgarti
- Chandas छन्दस्
- Triṣṭubh, Gāyatrī
Metres by ṛk
1st set of styles nicṛttriṣṭup (6-9, 11, 12); triṣṭup (1, 2, 10, 14); gāyatrī (3-5); bhurikpaṅkti (13); virāṭtrisṭup (15)
2nd set of styles triṣṭubh (1-2, 6-15); gāyatrī (3-5)
-
Ṛk 1
कस्य॑ नू॒नं क॑त॒मस्या॒मृता॑नां॒ मना॑महे॒ चारु॑ दे॒वस्य॒ नाम॑ ।
को नो॑ म॒ह्या अदि॑तये॒ पुन॑र्दात्पि॒तरं॑ च दृ॒शेयं॑ मा॒तरं॑ च ॥कस्य नूनं कतमस्यामृतानाम् मनामहे चारु देवस्य नाम |
को नो मह्या अदितये पुनर् दात् पितरं च दृशेयम् मातरं च ||kásya nūnám katamásyāmṛ́tānām mánāmahe cā́ru devásya nā́ma ǀ
kó no mahyā́ áditaye púnardātpitáram ca dṛśéyam mātáram ca ǁkasya nūnaṃ katamasyāmṛtānām manāmahe cāru devasya nāma |
ko no mahyā aditaye punar dāt pitaraṃ ca dṛśeyam mātaraṃ ca ||कस्य॑ । नू॒नम् । क॒त॒मस्य॑ । अ॒मृता॑नाम् । मना॑महे । चारु॑ । दे॒वस्य॑ । नाम॑ ।
कः । नः॒ । म॒ह्यै । अदि॑तये । पुनः॑ । दा॒त् । पि॒तर॑म् । च॒ । दृ॒शेय॑म् । मा॒तर॑म् । च॒ ॥कस्य । नूनम् । कतमस्य । अमृतानाम् । मनामहे । चारु । देवस्य । नाम ।
कः । नः । मह्यै । अदितये । पुनः । दात् । पितरम् । च । दृशेयम् । मातरम् । च ॥kásya ǀ nūnám ǀ katamásya ǀ amṛ́tānām ǀ mánāmahe ǀ cā́ru ǀ devásya ǀ nā́ma ǀ
káḥ ǀ naḥ ǀ mahyái ǀ áditaye ǀ púnaḥ ǀ dāt ǀ pitáram ǀ ca ǀ dṛśéyam ǀ mātáram ǀ ca ǁkasya ǀ nūnam ǀ katamasya ǀ amṛtānām ǀ manāmahe ǀ cāru ǀ devasya ǀ nāma ǀ
kaḥ ǀ naḥ ǀ mahyai ǀ aditaye ǀ punaḥ ǀ dāt ǀ pitaram ǀ ca ǀ dṛśeyam ǀ mātaram ǀ ca ǁ1.24.1 Aṣṭaka 1.2.13.1Anuvāka 1.6.1
-
Ṛk 2
अ॒ग्नेर्व॒यं प्र॑थ॒मस्या॒मृता॑नां॒ मना॑महे॒ चारु॑ दे॒वस्य॒ नाम॑ ।
स नो॑ म॒ह्या अदि॑तये॒ पुन॑र्दात्पि॒तरं॑ च दृ॒शेयं॑ मा॒तरं॑ च ॥अग्नेर् वयम् प्रथमस्यामृतानाम् मनामहे चारु देवस्य नाम |
स नो मह्या अदितये पुनर् दात् पितरं च दृशेयम् मातरं च ||agnérvayám prathamásyāmṛ́tānām mánāmahe cā́ru devásya nā́ma ǀ
sá no mahyā́ áditaye púnardātpitáram ca dṛśéyam mātáram ca ǁagner vayam prathamasyāmṛtānām manāmahe cāru devasya nāma |
sa no mahyā aditaye punar dāt pitaraṃ ca dṛśeyam mātaraṃ ca ||अ॒ग्नेः । व॒यम् । प्र॒थ॒मस्य॑ । अ॒मृता॑नाम् । मना॑महे । चारु॑ । दे॒वस्य॑ । नाम॑ ।
सः । नः॒ । म॒ह्यै । अदि॑तये । पुनः॑ । दा॒त् । पि॒तर॑म् । च॒ । दृ॒शेय॑म् । मा॒तर॑म् । च॒ ॥अग्नेः । वयम् । प्रथमस्य । अमृतानाम् । मनामहे । चारु । देवस्य । नाम ।
सः । नः । मह्यै । अदितये । पुनः । दात् । पितरम् । च । दृशेयम् । मातरम् । च ॥agnéḥ ǀ vayám ǀ prathamásya ǀ amṛ́tānām ǀ mánāmahe ǀ cā́ru ǀ devásya ǀ nā́ma ǀ
sáḥ ǀ naḥ ǀ mahyái ǀ áditaye ǀ púnaḥ ǀ dāt ǀ pitáram ǀ ca ǀ dṛśéyam ǀ mātáram ǀ ca ǁagneḥ ǀ vayam ǀ prathamasya ǀ amṛtānām ǀ manāmahe ǀ cāru ǀ devasya ǀ nāma ǀ
saḥ ǀ naḥ ǀ mahyai ǀ aditaye ǀ punaḥ ǀ dāt ǀ pitaram ǀ ca ǀ dṛśeyam ǀ mātaram ǀ ca ǁ1.24.2 Aṣṭaka 1.2.13.2Anuvāka 1.6.2
-
Ṛk 3
अ॒भि त्वा॑ देव सवित॒रीशा॑नं॒ वार्या॑णां ।
सदा॑वन्भा॒गमी॑महे ॥अभि त्वा देव सवितर् ईशानं वार्याणाम् |
सदावन् भागम् ईमहे ||abhí tvā deva savitarī́śānam vā́ryāṇām ǀ
sádāvanbhāgámīmahe ǁabhi tvā deva savitar īśānaṃ vāryāṇām |
sadāvan bhāgam īmahe ||अ॒भि । त्वा॒ । दे॒व॒ । स॒वि॒तः॒ । ईशा॑नम् । वार्या॑णाम् ।
सदा॑ । अ॒व॒न् । भा॒गम् । ई॒म॒हे॒ ॥अभि । त्वा । देव । सवितः । ईशानम् । वार्याणाम् ।
सदा । अवन् । भागम् । ईमहे ॥abhí ǀ tvā ǀ deva ǀ savitaḥ ǀ ī́śānam ǀ vā́ryāṇām ǀ
sádā ǀ avan ǀ bhāgám ǀ īmahe ǁabhi ǀ tvā ǀ deva ǀ savitaḥ ǀ īśānam ǀ vāryāṇām ǀ
sadā ǀ avan ǀ bhāgam ǀ īmahe ǁ1.24.3 Aṣṭaka 1.2.13.3Anuvāka 1.6.3
-
Ṛk 4
यश्चि॒द्धि त॑ इ॒त्था भगः॑ शशमा॒नः पु॒रा नि॒दः ।
अ॒द्वे॒षो हस्त॑योर्द॒धे ॥यश् चिद् धि त इत्था भगः शशमानः पुरा निदः |
अद्वेषो हस्तयोर् दधे ||yáściddhí ta itthā́ bhágaḥ śaśamānáḥ purā́ nidáḥ ǀ
adveṣó hástayordadhé ǁyaś cid dhi ta itthā bhagaḥ śaśamānaḥ purā nidaḥ |
adveṣo hastayor dadhe ||यः । चि॒त् । हि । ते॒ । इ॒त्था । भगः॑ । श॒श॒मा॒नः । पु॒रा । नि॒दः ।
अ॒द्वे॒षः । हस्त॑योः । द॒धे ॥यः । चित् । हि । ते । इत्था । भगः । शशमानः । पुरा । निदः ।
अद्वेषः । हस्तयोः । दधे ॥yáḥ ǀ cit ǀ hí ǀ te ǀ itthā́ ǀ bhágaḥ ǀ śaśamānáḥ ǀ purā́ ǀ nidáḥ ǀ
adveṣáḥ ǀ hástayoḥ ǀ dadhé ǁyaḥ ǀ cit ǀ hi ǀ te ǀ itthā ǀ bhagaḥ ǀ śaśamānaḥ ǀ purā ǀ nidaḥ ǀ
adveṣaḥ ǀ hastayoḥ ǀ dadhe ǁ1.24.4 Aṣṭaka 1.2.13.4Anuvāka 1.6.4
-
Ṛk 5
भग॑भक्तस्य ते व॒यमुद॑शेम॒ तवाव॑सा ।
मू॒र्धानं॑ रा॒य आ॒रभे॑ ॥भगभक्तस्य ते वयम् उद् अशेम तवावसा |
मूर्धानं राय आरभे ||bhágabhaktasya te vayámúdaśema távā́vasā ǀ
mūrdhā́nam rāyá ārábhe ǁbhagabhaktasya te vayam ud aśema tavāvasā |
mūrdhānaṃ rāya ārabhe ||भग॑ऽभक्तस्य । ते॒ । व॒यम् । उत् । अ॒शे॒म॒ । तव॑ । अव॑सा ।
मू॒र्धान॑म् । रा॒यः । आ॒ऽरभे॑ ॥भगऽभक्तस्य । ते । वयम् । उत् । अशेम । तव । अवसा ।
मूर्धानम् । रायः । आऽरभे ॥bhága-bhaktasya ǀ te ǀ vayám ǀ út ǀ aśema ǀ táva ǀ ávasā ǀ
mūrdhā́nam ǀ rāyáḥ ǀ ā-rábhe ǁbhaga-bhaktasya ǀ te ǀ vayam ǀ ut ǀ aśema ǀ tava ǀ avasā ǀ
mūrdhānam ǀ rāyaḥ ǀ ā-rabhe ǁ1.24.5 Aṣṭaka 1.2.13.5Anuvāka 1.6.5
-
Ṛk 6
न॒हि ते॑ क्ष॒त्रं न सहो॒ न म॒न्युं वय॑श्च॒नामी प॒तयं॑त आ॒पुः ।
नेमा आपो॑ अनिमि॒षं चरं॑ती॒र्न ये वात॑स्य प्रमि॒नंत्यभ्वं॑ ॥नहि ते क्षत्रं न सहो न मन्युं वयश् चनामी पतयन्त आपुः |
नेमा आपो अनिमिषं चरन्तीर् न ये वातस्य प्रमिनन्त्य् अभ्वम् ||nahí te kṣatrám ná sáho ná manyúm váyaścanā́mī́ patáyanta āpúḥ ǀ
némā́ ā́po animiṣám cárantīrná yé vā́tasya praminántyábhvam ǁnahi te kṣatraṃ na saho na manyuṃ vayaś canāmī patayanta āpuḥ |
nemā āpo animiṣaṃ carantīr na ye vātasya praminanty abhvam ||न॒हि । ते॒ । क्ष॒त्रम् । न । सहः॑ । न । म॒न्युम् । वयः॑ । च॒न । अ॒मी इति॑ । प॒तय॑न्तः । आ॒पुः ।
न । इ॒माः । आपः॑ । अ॒नि॒ऽमि॒षम् । चर॑न्तीः । न । ये । वात॑स्य । प्र॒ऽमि॒नन्ति॑ । अभ्व॑म् ॥नहि । ते । क्षत्रम् । न । सहः । न । मन्युम् । वयः । चन । अमी इति । पतयन्तः । आपुः ।
न । इमाः । आपः । अनिऽमिषम् । चरन्तीः । न । ये । वातस्य । प्रऽमिनन्ति । अभ्वम् ॥nahí ǀ te ǀ kṣatrám ǀ ná ǀ sáhaḥ ǀ ná ǀ manyúm ǀ váyaḥ ǀ caná ǀ amī́ íti ǀ patáyantaḥ ǀ āpúḥ ǀ
ná ǀ imā́ḥ ǀ ā́paḥ ǀ ani-miṣám ǀ cárantīḥ ǀ ná ǀ yé ǀ vā́tasya ǀ pra-minánti ǀ ábhvam ǁnahi ǀ te ǀ kṣatram ǀ na ǀ sahaḥ ǀ na ǀ manyum ǀ vayaḥ ǀ cana ǀ amī iti ǀ patayantaḥ ǀ āpuḥ ǀ
na ǀ imāḥ ǀ āpaḥ ǀ ani-miṣam ǀ carantīḥ ǀ na ǀ ye ǀ vātasya ǀ pra-minanti ǀ abhvam ǁ1.24.6 Aṣṭaka 1.2.14.1Anuvāka 1.6.6
-
Ṛk 7
अ॒बु॒ध्ने राजा॒ वरु॑णो॒ वन॑स्यो॒र्ध्वं स्तूपं॑ ददते पू॒तद॑क्षः ।
नी॒चीनाः॑ स्थुरु॒परि॑ बु॒ध्न ए॑षाम॒स्मे अं॒तर्निहि॑ताः के॒तवः॑ स्युः ॥अबुध्ने राजा वरुणो वनस्योर्ध्वं स्तूपं ददते पूतदक्षः |
नीचीना स्थुर् उपरि बुध्न एषाम् अस्मे अन्तर् निहिताः केतवः स्युः ||abudhné rā́jā váruṇo vánasyordhvám stū́pam dadate pūtádakṣaḥ ǀ
nīcī́nāḥ sthurupári budhná eṣāmasmé antárníhitāḥ ketávaḥ syuḥ ǁabudhne rājā varuṇo vanasyordhvaṃ stūpaṃ dadate pūtadakṣaḥ |
nīcīnā sthur upari budhna eṣām asme antar nihitāḥ ketavaḥ syuḥ ||अ॒बु॒ध्ने । राजा॑ । वरु॑णः । वन॑स्य । ऊ॒र्ध्वम् । स्तूप॑म् । द॒द॒ते॒ । पू॒तऽद॑क्षः ।
नी॒चीनाः॑ । स्थुः॒ । उ॒परि॑ । बु॒ध्नः । ए॒षा॒म् । अ॒स्मे इति॑ । अ॒न्तः । निऽहि॑ताः । के॒तवः॑ । स्यु॒रिति॑ स्युः ॥अबुध्ने । राजा । वरुणः । वनस्य । ऊर्ध्वम् । स्तूपम् । ददते । पूतऽदक्षः ।
नीचीनाः । स्थुः । उपरि । बुध्नः । एषाम् । अस्मे इति । अन्तः । निऽहिताः । केतवः । स्युरिति स्युः ॥abudhné ǀ rā́jā ǀ váruṇaḥ ǀ vánasya ǀ ūrdhvám ǀ stū́pam ǀ dadate ǀ pūtá-dakṣaḥ ǀ
nīcī́nāḥ ǀ sthuḥ ǀ upári ǀ budhnáḥ ǀ eṣām ǀ asmé íti ǀ antáḥ ǀ ní-hitāḥ ǀ ketávaḥ ǀ syuríti syuḥ ǁabudhne ǀ rājā ǀ varuṇaḥ ǀ vanasya ǀ ūrdhvam ǀ stūpam ǀ dadate ǀ pūta-dakṣaḥ ǀ
nīcīnāḥ ǀ sthuḥ ǀ upari ǀ budhnaḥ ǀ eṣām ǀ asme iti ǀ antaḥ ǀ ni-hitāḥ ǀ ketavaḥ ǀ syuriti syuḥ ǁ1.24.7 Aṣṭaka 1.2.14.2Anuvāka 1.6.7
-
Ṛk 8
उ॒रुं हि राजा॒ वरु॑णश्च॒कार॒ सूर्या॑य॒ पंथा॒मन्वे॑त॒वा उ॑ ।
अ॒पदे॒ पादा॒ प्रति॑धातवेऽकरु॒ताप॑व॒क्ता हृ॑दया॒विध॑श्चित् ॥उरुं हि राजा वरुणश् चकार सूर्याय पन्थाम् अन्वेतवा उ |
अपदे पादा प्रतिधातवे ऽकर् उतापवक्ता हृदयाविधश् चित् ||urúm hí rā́jā váruṇaścakā́ra sū́ryāya pánthāmánvetavā́ u ǀ
apáde pā́dā prátidhātave’karutā́pavaktā́ hṛdayāvídhaścit ǁuruṃ hi rājā varuṇaś cakāra sūryāya panthām anvetavā u |
apade pādā pratidhātave 'kar utāpavaktā hṛdayāvidhaś cit ||उ॒रुम् । हि । राजा॑ । वरु॑णः । च॒कार॑ । सूर्या॑य । पन्था॑म् । अनु॑ऽए॒त॒वै । ऊं॒ इति॑ ।
अ॒पदे॑ । पादा॑ । प्रति॑ऽधातवे । अ॒कः॒ । उ॒त । अ॒प॒ऽव॒क्ता । हृ॒द॒य॒ऽविधः॑ । चि॒त् ॥उरुम् । हि । राजा । वरुणः । चकार । सूर्याय । पन्थाम् । अनुऽएतवै । ऊं इति ।
अपदे । पादा । प्रतिऽधातवे । अकः । उत । अपऽवक्ता । हृदयऽविधः । चित् ॥urúm ǀ hí ǀ rā́jā ǀ váruṇaḥ ǀ cakā́ra ǀ sū́ryāya ǀ pánthām ǀ ánu-etavái ǀ ūṃ íti ǀ
apáde ǀ pā́dā ǀ práti-dhātave ǀ akaḥ ǀ utá ǀ apa-vaktā́ ǀ hṛdaya-vídhaḥ ǀ cit ǁurum ǀ hi ǀ rājā ǀ varuṇaḥ ǀ cakāra ǀ sūryāya ǀ panthām ǀ anu-etavai ǀ ūṃ iti ǀ
apade ǀ pādā ǀ prati-dhātave ǀ akaḥ ǀ uta ǀ apa-vaktā ǀ hṛdaya-vidhaḥ ǀ cit ǁ1.24.8 Aṣṭaka 1.2.14.3Anuvāka 1.6.8
-
Ṛk 9
श॒तं ते॑ राजन्भि॒षजः॑ स॒हस्र॑मु॒र्वी ग॑भी॒रा सु॑म॒तिष्टे॑ अस्तु ।
बाध॑स्व दू॒रे निर्ऋ॑तिं परा॒चैः कृ॒तं चि॒देनः॒ प्र मु॑मुग्ध्य॒स्मत् ॥शतं ते राजन् भिषजः सहस्रम् उर्वी गभीरा सुमतिष् टे अस्तु |
बाधस्व दूरे निरृतिम् पराचैः कृतं चिद् एनः प्र मुमुग्ध्य् अस्मत् ||śatám te rājanbhiṣájaḥ sahásramurvī́ gabhīrā́ sumatíṣṭe astu ǀ
bā́dhasva dūré nírṛtim parācáiḥ kṛtám cidénaḥ prá mumugdhyasmát ǁśataṃ te rājan bhiṣajaḥ sahasram urvī gabhīrā sumatiṣ ṭe astu |
bādhasva dūre nirṛtim parācaiḥ kṛtaṃ cid enaḥ pra mumugdhy asmat ||श॒तम् । ते॒ । रा॒ज॒न् । भि॒षजः॑ । स॒हस्र॑म् । उ॒र्वी । ग॒भी॒रा । सु॒ऽम॒तिः । ते॒ । अ॒स्तु॒ ।
बाध॑स्व । दू॒रे । निःऽऋ॑तिम् । प॒रा॒चैः । कृ॒तम् । चि॒त् । एनः॑ । प्र । मु॒मु॒ग्धि॒ । अ॒स्मत् ॥शतम् । ते । राजन् । भिषजः । सहस्रम् । उर्वी । गभीरा । सुऽमतिः । ते । अस्तु ।
बाधस्व । दूरे । निःऽऋतिम् । पराचैः । कृतम् । चित् । एनः । प्र । मुमुग्धि । अस्मत् ॥śatám ǀ te ǀ rājan ǀ bhiṣájaḥ ǀ sahásram ǀ urvī́ ǀ gabhīrā́ ǀ su-matíḥ ǀ te ǀ astu ǀ
bā́dhasva ǀ dūré ǀ níḥ-ṛtim ǀ parācáiḥ ǀ kṛtám ǀ cit ǀ énaḥ ǀ prá ǀ mumugdhi ǀ asmát ǁśatam ǀ te ǀ rājan ǀ bhiṣajaḥ ǀ sahasram ǀ urvī ǀ gabhīrā ǀ su-matiḥ ǀ te ǀ astu ǀ
bādhasva ǀ dūre ǀ niḥ-ṛtim ǀ parācaiḥ ǀ kṛtam ǀ cit ǀ enaḥ ǀ pra ǀ mumugdhi ǀ asmat ǁ1.24.9 Aṣṭaka 1.2.14.4Anuvāka 1.6.9
-
Ṛk 10
अ॒मी य ऋक्षा॒ निहि॑तास उ॒च्चा नक्तं॒ ददृ॑श्रे॒ कुह॑ चि॒द्दिवे॑युः ।
अद॑ब्धानि॒ वरु॑णस्य व्र॒तानि॑ वि॒चाक॑शच्चं॒द्रमा॒ नक्त॑मेति ॥अमी य ऋक्षा निहितास उच्चा नक्तं ददृश्रे कुह चिद् दिवेयुः |
अदब्धानि वरुणस्य व्रतानि विचाकशच् चन्द्रमा नक्तम् एति ||amī́ yá ṛ́kṣā níhitāsa uccā́ náktam dádṛśre kúha ciddíveyuḥ ǀ
ádabdhāni váruṇasya vratā́ni vicā́kaśaccandrámā náktameti ǁamī ya ṛkṣā nihitāsa uccā naktaṃ dadṛśre kuha cid diveyuḥ |
adabdhāni varuṇasya vratāni vicākaśac candramā naktam eti ||अ॒मी इति॑ । ये । ऋक्षाः॑ । निऽहि॑तासः । उ॒च्चा । नक्त॑म् । ददृ॑श्रे । कुह॑ । चि॒त् । दिवा॑ । ई॒युः॒ ।
अद॑ब्धानि । वरु॑णस्य । व्र॒तानि॑ । वि॒ऽचाक॑शत् । च॒न्द्रमाः॑ । नक्त॑म् । ए॒ति॒ ॥अमी इति । ये । ऋक्षाः । निऽहितासः । उच्चा । नक्तम् । ददृश्रे । कुह । चित् । दिवा । ईयुः ।
अदब्धानि । वरुणस्य । व्रतानि । विऽचाकशत् । चन्द्रमाः । नक्तम् । एति ॥amī́ íti ǀ yé ǀ ṛ́kṣāḥ ǀ ní-hitāsaḥ ǀ uccā́ ǀ náktam ǀ dádṛśre ǀ kúha ǀ cit ǀ dívā ǀ īyuḥ ǀ
ádabdhāni ǀ váruṇasya ǀ vratā́ni ǀ vi-cā́kaśat ǀ candrámāḥ ǀ náktam ǀ eti ǁamī iti ǀ ye ǀ ṛkṣāḥ ǀ ni-hitāsaḥ ǀ uccā ǀ naktam ǀ dadṛśre ǀ kuha ǀ cit ǀ divā ǀ īyuḥ ǀ
adabdhāni ǀ varuṇasya ǀ vratāni ǀ vi-cākaśat ǀ candramāḥ ǀ naktam ǀ eti ǁ1.24.10 Aṣṭaka 1.2.14.5Anuvāka 1.6.10
-
Ṛk 11
तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वंद॑मान॒स्तदा शा॑स्ते॒ यज॑मानो ह॒विर्भिः॑ ।
अहे॑ळमानो वरुणे॒ह बो॒ध्युरु॑शंस॒ मा न॒ आयुः॒ प्र मो॑षीः ॥तत् त्वा यामि ब्रह्मणा वन्दमानस् तद् आ शास्ते यजमानो हविर्भिः |
अहेऌअमानो वरुणेह बोध्य् उरुशंस मा न आयुः प्र मोषीः ||táttvā yāmi bráhmaṇā vándamānastádā́ śāste yájamāno havírbhiḥ ǀ
áheḷamāno varuṇehá bodhyúruśaṃsa mā́ na ā́yuḥ prá moṣīḥ ǁtat tvā yāmi brahmaṇā vandamānas tad ā śāste yajamāno havirbhiḥ |
aheḷamāno varuṇeha bodhy uruśaṃsa mā na āyuḥ pra moṣīḥ ||तत् । त्वा॒ । या॒मि॒ । ब्रह्म॑णा । वन्द॑मानः । तत् । आ । शा॒स्ते॒ । यज॑मानः । ह॒विःऽभिः॑ ।
अहे॑ळमानः । व॒रु॒ण॒ । इ॒ह । बो॒धि॒ । उरु॑ऽशंस । मा । नः॒ । आयुः॑ । प्र । मो॒षीः॒ ॥तत् । त्वा । यामि । ब्रह्मणा । वन्दमानः । तत् । आ । शास्ते । यजमानः । हविःऽभिः ।
अहेळमानः । वरुण । इह । बोधि । उरुऽशंस । मा । नः । आयुः । प्र । मोषीः ॥tát ǀ tvā ǀ yāmi ǀ bráhmaṇā ǀ vándamānaḥ ǀ tát ǀ ā́ ǀ śāste ǀ yájamānaḥ ǀ havíḥ-bhiḥ ǀ
áheḷamānaḥ ǀ varuṇa ǀ ihá ǀ bodhi ǀ úru-śaṃsa ǀ mā́ ǀ naḥ ǀ ā́yuḥ ǀ prá ǀ moṣīḥ ǁtat ǀ tvā ǀ yāmi ǀ brahmaṇā ǀ vandamānaḥ ǀ tat ǀ ā ǀ śāste ǀ yajamānaḥ ǀ haviḥ-bhiḥ ǀ
aheḷamānaḥ ǀ varuṇa ǀ iha ǀ bodhi ǀ uru-śaṃsa ǀ mā ǀ naḥ ǀ āyuḥ ǀ pra ǀ moṣīḥ ǁ1.24.11 Aṣṭaka 1.2.15.1Anuvāka 1.6.11
-
Ṛk 12
तदिन्नक्तं॒ तद्दिवा॒ मह्य॑माहु॒स्तद॒यं केतो॑ हृ॒द आ वि च॑ष्टे ।
शुनः॒शेपो॒ यमह्व॑द्गृभी॒तः सो अ॒स्मान्राजा॒ वरु॑णो मुमोक्तु ॥तद् इन् नक्तं तद् दिवा मह्यम् आहुस् तद् अयं केतो हृद आ वि चष्टे |
शुनःशेपो यम् अह्वद् गृभीतः सो अस्मान् राजा वरुणो मुमोक्तु ||tádínnáktam táddívā máhyamāhustádayám kéto hṛdá ā́ ví caṣṭe ǀ
śúnaḥśépo yámáhvadgṛbhītáḥ só asmā́nrā́jā váruṇo mumoktu ǁtad in naktaṃ tad divā mahyam āhus tad ayaṃ keto hṛda ā vi caṣṭe |
śunaḥśepo yam ahvad gṛbhītaḥ so asmān rājā varuṇo mumoktu ||तत् । इत् । नक्त॑म् । तत् । दिवा॑ । मह्य॑म् । आ॒हुः॒ । तत् । अ॒यम् । केतः॑ । हृ॒दः । आ । वि । च॒ष्टे॒ ।
शुनः॒शेपः॑ । यम् । अह्व॑त् । गृ॒भी॒तः । सः । अ॒स्मान् । राजा॑ । वरु॑णः । मु॒मो॒क्तु॒ ॥तत् । इत् । नक्तम् । तत् । दिवा । मह्यम् । आहुः । तत् । अयम् । केतः । हृदः । आ । वि । चष्टे ।
शुनःशेपः । यम् । अह्वत् । गृभीतः । सः । अस्मान् । राजा । वरुणः । मुमोक्तु ॥tát ǀ ít ǀ náktam ǀ tát ǀ dívā ǀ máhyam ǀ āhuḥ ǀ tát ǀ ayám ǀ kétaḥ ǀ hṛdáḥ ǀ ā́ ǀ ví ǀ caṣṭe ǀ
śúnaḥśépaḥ ǀ yám ǀ áhvat ǀ gṛbhītáḥ ǀ sáḥ ǀ asmā́n ǀ rā́jā ǀ váruṇaḥ ǀ mumoktu ǁtat ǀ it ǀ naktam ǀ tat ǀ divā ǀ mahyam ǀ āhuḥ ǀ tat ǀ ayam ǀ ketaḥ ǀ hṛdaḥ ǀ ā ǀ vi ǀ caṣṭe ǀ
śunaḥśepaḥ ǀ yam ǀ ahvat ǀ gṛbhītaḥ ǀ saḥ ǀ asmān ǀ rājā ǀ varuṇaḥ ǀ mumoktu ǁ1.24.12 Aṣṭaka 1.2.15.2Anuvāka 1.6.12
-
Ṛk 13
शुनः॒शेपो॒ ह्यह्व॑द्गृभी॒तस्त्रि॒ष्वा॑दि॒त्यं द्रु॑प॒देषु॑ ब॒द्धः ।
अवै॑नं॒ राजा॒ वरु॑णः ससृज्याद्वि॒द्वाँ अद॑ब्धो॒ वि मु॑मोक्तु॒ पाशा॑न् ॥शुनःशेपो ह्य् अह्वद् गृभीतस् त्रिष्व् आदित्यं द्रुपदेषु बद्धः |
अवैनं राजा वरुणः ससृज्याद् विद्वां अदब्धो वि मुमोक्तु पाशान् ||śúnaḥśépo hyáhvadgṛbhītástriṣvā́dityám drupadéṣu baddháḥ ǀ
ávainam rā́jā váruṇaḥ sasṛjyādvidvā́m̐ ádabdho ví mumoktu pā́śān ǁśunaḥśepo hy ahvad gṛbhītas triṣv ādityaṃ drupadeṣu baddhaḥ |
avainaṃ rājā varuṇaḥ sasṛjyād vidvāṃ adabdho vi mumoktu pāśān ||शुनः॒शेपः॑ । हि । अह्व॑त् । गृ॒भी॒तः । त्रि॒षु । आ॒दि॒त्यम् । द्रु॒ऽप॒देषु॑ । ब॒द्धः ।
अव॑ । ए॒न॒म् । राजा॑ । वरु॑णः । स॒सृ॒ज्या॒त् । वि॒द्वान् । अद॑ब्धः । वि । मु॒मो॒क्तु॒ । पाशा॑न् ॥शुनःशेपः । हि । अह्वत् । गृभीतः । त्रिषु । आदित्यम् । द्रुऽपदेषु । बद्धः ।
अव । एनम् । राजा । वरुणः । ससृज्यात् । विद्वान् । अदब्धः । वि । मुमोक्तु । पाशान् ॥śúnaḥśépaḥ ǀ hí ǀ áhvat ǀ gṛbhītáḥ ǀ triṣú ǀ ādityám ǀ dru-padéṣu ǀ baddháḥ ǀ
áva ǀ enam ǀ rā́jā ǀ váruṇaḥ ǀ sasṛjyāt ǀ vidvā́n ǀ ádabdhaḥ ǀ ví ǀ mumoktu ǀ pā́śān ǁśunaḥśepaḥ ǀ hi ǀ ahvat ǀ gṛbhītaḥ ǀ triṣu ǀ ādityam ǀ dru-padeṣu ǀ baddhaḥ ǀ
ava ǀ enam ǀ rājā ǀ varuṇaḥ ǀ sasṛjyāt ǀ vidvān ǀ adabdhaḥ ǀ vi ǀ mumoktu ǀ pāśān ǁ1.24.13 Aṣṭaka 1.2.15.3Anuvāka 1.6.13
-
Ṛk 14
अव॑ ते॒ हेळो॑ वरुण॒ नमो॑भि॒रव॑ य॒ज्ञेभि॑रीमहे ह॒विर्भिः॑ ।
क्षय॑न्न॒स्मभ्य॑मसुर प्रचेता॒ राज॒न्नेनां॑सि शिश्रथः कृ॒तानि॑ ॥अव ते हेऌओ वरुण नमोभिर् अव यज्ञेभिर् ईमहे हविर्भिः |
क्षयन्न् अस्मभ्यम् असुर प्रचेता राजन्न् एनांसि शिश्रथः कृतानि ||áva te héḷo varuṇa námobhiráva yajñébhirīmahe havírbhiḥ ǀ
kṣáyannasmábhyamasura pracetā rā́jannénāṃsi śiśrathaḥ kṛtā́ni ǁava te heḷo varuṇa namobhir ava yajñebhir īmahe havirbhiḥ |
kṣayann asmabhyam asura pracetā rājann enāṃsi śiśrathaḥ kṛtāni ||अव॑ । ते॒ । हेळः॑ । व॒रु॒ण॒ । नमः॑ऽभिः । अव॑ । य॒ज्ञेभिः॑ । ई॒म॒हे॒ । ह॒विःऽभिः॑ ।
क्षय॑न् । अ॒स्मभ्य॑म् । अ॒सु॒र॒ । प्र॒चे॒त॒ इति॑ प्रऽचेतः । राज॑न् । एनां॑सि । शि॒श्र॒थः॒ । कृ॒तानि॑ ॥अव । ते । हेळः । वरुण । नमःऽभिः । अव । यज्ञेभिः । ईमहे । हविःऽभिः ।
क्षयन् । अस्मभ्यम् । असुर । प्रचेत इति प्रऽचेतः । राजन् । एनांसि । शिश्रथः । कृतानि ॥áva ǀ te ǀ héḷaḥ ǀ varuṇa ǀ námaḥ-bhiḥ ǀ áva ǀ yajñébhiḥ ǀ īmahe ǀ havíḥ-bhiḥ ǀ
kṣáyan ǀ asmábhyam ǀ asura ǀ praceta íti pra-cetaḥ ǀ rā́jan ǀ énāṃsi ǀ śiśrathaḥ ǀ kṛtā́ni ǁava ǀ te ǀ heḷaḥ ǀ varuṇa ǀ namaḥ-bhiḥ ǀ ava ǀ yajñebhiḥ ǀ īmahe ǀ haviḥ-bhiḥ ǀ
kṣayan ǀ asmabhyam ǀ asura ǀ praceta iti pra-cetaḥ ǀ rājan ǀ enāṃsi ǀ śiśrathaḥ ǀ kṛtāni ǁ1.24.14 Aṣṭaka 1.2.15.4Anuvāka 1.6.14
-
Ṛk 15
उदु॑त्त॒मं व॑रुण॒ पाश॑म॒स्मदवा॑ध॒मं वि म॑ध्य॒मं श्र॑थाय ।
अथा॑ व॒यमा॑दित्य व्र॒ते तवाना॑गसो॒ अदि॑तये स्याम ॥उद् उत्तमं वरुण पाशम् अस्मद् अवाधमं वि मध्यमं श्रथाय |
अथा वयम् आदित्य व्रते तवानागसो अदितये स्याम ||úduttamám varuṇa pā́śamasmádávādhamám ví madhyamám śrathāya ǀ
áthā vayámāditya vraté távā́nāgaso áditaye syāma ǁud uttamaṃ varuṇa pāśam asmad avādhamaṃ vi madhyamaṃ śrathāya |
athā vayam āditya vrate tavānāgaso aditaye syāma ||उत् । उ॒त्ऽत॒मम् । व॒रु॒ण॒ । पाश॑म् । अ॒स्मत् । अव॑ । अ॒ध॒मम् । वि । म॒ध्य॒मम् । श्र॒थ॒य॒ ।
अथ॑ । व॒यम् । आ॒दि॒त्य॒ । व्र॒ते । तव॑ । अना॑गसः । अदि॑तये । स्या॒म॒ ॥उत् । उत्ऽतमम् । वरुण । पाशम् । अस्मत् । अव । अधमम् । वि । मध्यमम् । श्रथय ।
अथ । वयम् । आदित्य । व्रते । तव । अनागसः । अदितये । स्याम ॥út ǀ ut-tamám ǀ varuṇa ǀ pā́śam ǀ asmát ǀ áva ǀ adhamám ǀ ví ǀ madhyamám ǀ śrathaya ǀ
átha ǀ vayám ǀ āditya ǀ vraté ǀ táva ǀ ánāgasaḥ ǀ áditaye ǀ syāma ǁut ǀ ut-tamam ǀ varuṇa ǀ pāśam ǀ asmat ǀ ava ǀ adhamam ǀ vi ǀ madhyamam ǀ śrathaya ǀ
atha ǀ vayam ǀ āditya ǀ vrate ǀ tava ǀ anāgasaḥ ǀ aditaye ǀ syāma ǁ1.24.15 Aṣṭaka 1.2.15.5Anuvāka 1.6.15
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.