Ṛk 1.24.10
Saṃhitā
अ॒मी य ऋक्षा॒ निहि॑तास उ॒च्चा नक्तं॒ ददृ॑श्रे॒ कुह॑ चि॒द्दिवे॑युः ।
अद॑ब्धानि॒ वरु॑णस्य व्र॒तानि॑ वि॒चाक॑शच्चं॒द्रमा॒ नक्त॑मेति ॥
अमी य ऋक्षा निहितास उच्चा नक्तं ददृश्रे कुह चिद् दिवेयुः |
अदब्धानि वरुणस्य व्रतानि विचाकशच् चन्द्रमा नक्तम् एति ||
amī́ yá ṛ́kṣā níhitāsa uccā́ náktam dádṛśre kúha ciddíveyuḥ ǀ
ádabdhāni váruṇasya vratā́ni vicā́kaśaccandrámā náktameti ǁ
amī ya ṛkṣā nihitāsa uccā naktaṃ dadṛśre kuha cid diveyuḥ |
adabdhāni varuṇasya vratāni vicākaśac candramā naktam eti ||
Padapāṭha
अ॒मी इति॑ । ये । ऋक्षाः॑ । निऽहि॑तासः । उ॒च्चा । नक्त॑म् । ददृ॑श्रे । कुह॑ । चि॒त् । दिवा॑ । ई॒युः॒ ।
अद॑ब्धानि । वरु॑णस्य । व्र॒तानि॑ । वि॒ऽचाक॑शत् । च॒न्द्रमाः॑ । नक्त॑म् । ए॒ति॒ ॥
अमी इति । ये । ऋक्षाः । निऽहितासः । उच्चा । नक्तम् । ददृश्रे । कुह । चित् । दिवा । ईयुः ।
अदब्धानि । वरुणस्य । व्रतानि । विऽचाकशत् । चन्द्रमाः । नक्तम् । एति ॥
amī́ íti ǀ yé ǀ ṛ́kṣāḥ ǀ ní-hitāsaḥ ǀ uccā́ ǀ náktam ǀ dádṛśre ǀ kúha ǀ cit ǀ dívā ǀ īyuḥ ǀ
ádabdhāni ǀ váruṇasya ǀ vratā́ni ǀ vi-cā́kaśat ǀ candrámāḥ ǀ náktam ǀ eti ǁ
amī iti ǀ ye ǀ ṛkṣāḥ ǀ ni-hitāsaḥ ǀ uccā ǀ naktam ǀ dadṛśre ǀ kuha ǀ cit ǀ divā ǀ īyuḥ ǀ
adabdhāni ǀ varuṇasya ǀ vratāni ǀ vi-cākaśat ǀ candramāḥ ǀ naktam ǀ eti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.024.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.2.14.05
- Maṇḍala · Anuvāka · Ṛk
- 01.06.010
- Devatā देवता
- 1: Prajāpati; 2: Agni; 3-5: Savitṛ; 6-15: Varuṇa
- Ṛṣi ऋषि
- Śunaḥśepa Ājīgarti
- Chandas छन्दस्
- Triṣṭubh, Gāyatrī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.