Ṛk 1.24.9
Saṃhitā
श॒तं ते॑ राजन्भि॒षजः॑ स॒हस्र॑मु॒र्वी ग॑भी॒रा सु॑म॒तिष्टे॑ अस्तु ।
बाध॑स्व दू॒रे निर्ऋ॑तिं परा॒चैः कृ॒तं चि॒देनः॒ प्र मु॑मुग्ध्य॒स्मत् ॥
शतं ते राजन् भिषजः सहस्रम् उर्वी गभीरा सुमतिष् टे अस्तु |
बाधस्व दूरे निरृतिम् पराचैः कृतं चिद् एनः प्र मुमुग्ध्य् अस्मत् ||
śatám te rājanbhiṣájaḥ sahásramurvī́ gabhīrā́ sumatíṣṭe astu ǀ
bā́dhasva dūré nírṛtim parācáiḥ kṛtám cidénaḥ prá mumugdhyasmát ǁ
śataṃ te rājan bhiṣajaḥ sahasram urvī gabhīrā sumatiṣ ṭe astu |
bādhasva dūre nirṛtim parācaiḥ kṛtaṃ cid enaḥ pra mumugdhy asmat ||
Padapāṭha
श॒तम् । ते॒ । रा॒ज॒न् । भि॒षजः॑ । स॒हस्र॑म् । उ॒र्वी । ग॒भी॒रा । सु॒ऽम॒तिः । ते॒ । अ॒स्तु॒ ।
बाध॑स्व । दू॒रे । निःऽऋ॑तिम् । प॒रा॒चैः । कृ॒तम् । चि॒त् । एनः॑ । प्र । मु॒मु॒ग्धि॒ । अ॒स्मत् ॥
शतम् । ते । राजन् । भिषजः । सहस्रम् । उर्वी । गभीरा । सुऽमतिः । ते । अस्तु ।
बाधस्व । दूरे । निःऽऋतिम् । पराचैः । कृतम् । चित् । एनः । प्र । मुमुग्धि । अस्मत् ॥
śatám ǀ te ǀ rājan ǀ bhiṣájaḥ ǀ sahásram ǀ urvī́ ǀ gabhīrā́ ǀ su-matíḥ ǀ te ǀ astu ǀ
bā́dhasva ǀ dūré ǀ níḥ-ṛtim ǀ parācáiḥ ǀ kṛtám ǀ cit ǀ énaḥ ǀ prá ǀ mumugdhi ǀ asmát ǁ
śatam ǀ te ǀ rājan ǀ bhiṣajaḥ ǀ sahasram ǀ urvī ǀ gabhīrā ǀ su-matiḥ ǀ te ǀ astu ǀ
bādhasva ǀ dūre ǀ niḥ-ṛtim ǀ parācaiḥ ǀ kṛtam ǀ cit ǀ enaḥ ǀ pra ǀ mumugdhi ǀ asmat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.024.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.2.14.04
- Maṇḍala · Anuvāka · Ṛk
- 01.06.009
- Devatā देवता
- 1: Prajāpati; 2: Agni; 3-5: Savitṛ; 6-15: Varuṇa
- Ṛṣi ऋषि
- Śunaḥśepa Ājīgarti
- Chandas छन्दस्
- Triṣṭubh, Gāyatrī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.