Ṛgveda · Maṇḍala 1

Sūkta 54

Indra · Savya Āṅgirasa · 11 ṛks

Link
Devatā देवता
Indra
Ṛṣi ऋषि
Savya Āṅgirasa
Chandas छन्दस्
Jagatī, Triṣṭubh
Metres by ṛk

1st set of styles virāḍjagatī (1, 4, 10); nicṛjjagatī (2, 3, 5); nicṛttriṣṭup (8, 9, 11); virāṭtrisṭup (6); jagatī (7)

2nd set of styles jagatī (1-5, 7, 10); triṣṭubh (6, 8-9, 11)

  1. Ṛk 1

    मा नो॑ अ॒स्मिन्म॑घवन्पृ॒त्स्वंह॑सि न॒हि ते॒ अंतः॒ शव॑सः परी॒णशे॑ ।
    अक्रं॑दयो न॒द्यो॒३॒॑ रोरु॑व॒द्वना॑ क॒था न क्षो॒णीर्भि॒यसा॒ समा॑रत ॥

    मा नो अस्मिन् मघवन् पृत्स्व् अंहसि नहि ते अन्तः शवसः परीणशे |
    अक्रन्दयो नद्यो रोरुवद् वना कथा न क्षोणीर् भियसा सम् आरत ||

    mā́ no asmínmaghavanpṛtsváṃhasi nahí te ántaḥ śávasaḥ parīṇáśe ǀ
    ákrandayo nadyó róruvadvánā kathā́ ná kṣoṇī́rbhiyásā sámārata ǁ

    mā no asmin maghavan pṛtsv aṃhasi nahi te antaḥ śavasaḥ parīṇaśe |
    akrandayo nadyo roruvad vanā kathā na kṣoṇīr bhiyasā sam ārata ||

    मा । नः॒ । अ॒स्मिन् । म॒घ॒ऽव॒न् । पृ॒त्ऽसु । अंह॑सि । न॒हि । ते॒ । अन्तः॑ । शव॑सः । प॒रि॒ऽनशे॑ ।
    अक्र॑न्दयः । न॒द्यः॑ । रोरु॑वत् । वना॑ । क॒था । न । क्षो॒णीः । भि॒यसा॑ । सम् । आ॒र॒त॒ ॥

    मा । नः । अस्मिन् । मघऽवन् । पृत्ऽसु । अंहसि । नहि । ते । अन्तः । शवसः । परिऽनशे ।
    अक्रन्दयः । नद्यः । रोरुवत् । वना । कथा । न । क्षोणीः । भियसा । सम् । आरत ॥

    mā́ ǀ naḥ ǀ asmín ǀ magha-van ǀ pṛt-sú ǀ áṃhasi ǀ nahí ǀ te ǀ ántaḥ ǀ śávasaḥ ǀ pari-náśe ǀ
    ákrandayaḥ ǀ nadyáḥ ǀ róruvat ǀ vánā ǀ kathā́ ǀ ná ǀ kṣoṇī́ḥ ǀ bhiyásā ǀ sám ǀ ārata ǁ

    mā ǀ naḥ ǀ asmin ǀ magha-van ǀ pṛt-su ǀ aṃhasi ǀ nahi ǀ te ǀ antaḥ ǀ śavasaḥ ǀ pari-naśe ǀ
    akrandayaḥ ǀ nadyaḥ ǀ roruvat ǀ vanā ǀ kathā ǀ na ǀ kṣoṇīḥ ǀ bhiyasā ǀ sam ǀ ārata ǁ

    1.54.1 Aṣṭaka 1.4.17.1Anuvāka 1.10.42

  2. Ṛk 2

    अर्चा॑ श॒क्राय॑ शा॒किने॒ शची॑वते शृ॒ण्वंत॒मिंद्रं॑ म॒हय॑न्न॒भि ष्टु॑हि ।
    यो धृ॒ष्णुना॒ शव॑सा॒ रोद॑सी उ॒भे वृषा॑ वृष॒त्वा वृ॑ष॒भो न्यृं॒जते॑ ॥

    अर्चा शक्राय शाकिने शचीवते शृण्वन्तम् इन्द्रम् महयन्न् अभि ष्टुहि |
    यो धृष्णुना शवसा रोदसी उभे वृषा वृषत्वा वृषभो न्यृञ्जते ||

    árcā śakrā́ya śākíne śácīvate śṛṇvántamíndram maháyannabhí ṣṭuhi ǀ
    yó dhṛṣṇúnā śávasā ródasī ubhé vṛ́ṣā vṛṣatvā́ vṛṣabhó nyṛñjáte ǁ

    arcā śakrāya śākine śacīvate śṛṇvantam indram mahayann abhi ṣṭuhi |
    yo dhṛṣṇunā śavasā rodasī ubhe vṛṣā vṛṣatvā vṛṣabho nyṛñjate ||

    अर्च॑ । श॒क्राय॑ । शा॒किने॑ । शची॑ऽवते । शृ॒ण्वन्त॑म् । इन्द्र॑म् । म॒हय॑न् । अ॒भि । स्तु॒हि॒ ।
    यः । धृ॒ष्णुना॑ । शव॑सा । रोद॑सी॒ इति॑ । उ॒भे इति॑ । वृषा॑ । वृ॒ष॒ऽत्वा । वृ॒ष॒भः । नि॒ऽऋ॒ञ्जते॑ ॥

    अर्च । शक्राय । शाकिने । शचीऽवते । शृण्वन्तम् । इन्द्रम् । महयन् । अभि । स्तुहि ।
    यः । धृष्णुना । शवसा । रोदसी इति । उभे इति । वृषा । वृषऽत्वा । वृषभः । निऽऋञ्जते ॥

    árca ǀ śakrā́ya ǀ śākíne ǀ śácī-vate ǀ śṛṇvántam ǀ índram ǀ maháyan ǀ abhí ǀ stuhi ǀ
    yáḥ ǀ dhṛṣṇúnā ǀ śávasā ǀ ródasī íti ǀ ubhé íti ǀ vṛ́ṣā ǀ vṛṣa-tvā́ ǀ vṛṣabháḥ ǀ ni-ṛñjáte ǁ

    arca ǀ śakrāya ǀ śākine ǀ śacī-vate ǀ śṛṇvantam ǀ indram ǀ mahayan ǀ abhi ǀ stuhi ǀ
    yaḥ ǀ dhṛṣṇunā ǀ śavasā ǀ rodasī iti ǀ ubhe iti ǀ vṛṣā ǀ vṛṣa-tvā ǀ vṛṣabhaḥ ǀ ni-ṛñjate ǁ

    1.54.2 Aṣṭaka 1.4.17.2Anuvāka 1.10.43

  3. Ṛk 3

    अर्चा॑ दि॒वे बृ॑ह॒ते शू॒ष्यं१॒॑ वचः॒ स्वक्ष॑त्रं॒ यस्य॑ धृष॒तो धृ॒षन्मनः॑ ।
    बृ॒हच्छ्र॑वा॒ असु॑रो ब॒र्हणा॑ कृ॒तः पु॒रो हरि॑भ्यां वृष॒भो रथो॒ हि षः ॥

    अर्चा दिवे बृहते शूष्यं वचः स्वक्षत्रं यस्य धृषतो धृषन् मनः |
    बृहच्छ्रवा असुरो बर्हणा कृतः पुरो हरिभ्यां वृषभो रथो हि षः ||

    árcā divé bṛhaté śūṣyám vácaḥ svákṣatram yásya dhṛṣató dhṛṣánmánaḥ ǀ
    bṛhácchravā ásuro barháṇā kṛtáḥ puró háribhyām vṛṣabhó rátho hí ṣáḥ ǁ

    arcā dive bṛhate śūṣyaṃ vacaḥ svakṣatraṃ yasya dhṛṣato dhṛṣan manaḥ |
    bṛhacchravā asuro barhaṇā kṛtaḥ puro haribhyāṃ vṛṣabho ratho hi ṣaḥ ||

    अर्च॑ । दि॒वे । बृ॒ह॒ते । शू॒ष्य॑म् । वचः॑ । स्वऽक्ष॑त्रम् । यस्य॑ । धृ॒ष॒तः । धृ॒षत् । मनः॑ ।
    बृ॒हत्ऽश्र॑वाः । असु॑रः । ब॒र्हणा॑ । कृ॒तः । पु॒रः । हरि॑ऽभ्याम् । वृ॒ष॒भः । रथः॑ । हि । सः ॥

    अर्च । दिवे । बृहते । शूष्यम् । वचः । स्वऽक्षत्रम् । यस्य । धृषतः । धृषत् । मनः ।
    बृहत्ऽश्रवाः । असुरः । बर्हणा । कृतः । पुरः । हरिऽभ्याम् । वृषभः । रथः । हि । सः ॥

    árca ǀ divé ǀ bṛhaté ǀ śūṣyám ǀ vácaḥ ǀ svá-kṣatram ǀ yásya ǀ dhṛṣatáḥ ǀ dhṛṣát ǀ mánaḥ ǀ
    bṛhát-śravāḥ ǀ ásuraḥ ǀ barháṇā ǀ kṛtáḥ ǀ puráḥ ǀ hári-bhyām ǀ vṛṣabháḥ ǀ ráthaḥ ǀ hí ǀ sáḥ ǁ

    arca ǀ dive ǀ bṛhate ǀ śūṣyam ǀ vacaḥ ǀ sva-kṣatram ǀ yasya ǀ dhṛṣataḥ ǀ dhṛṣat ǀ manaḥ ǀ
    bṛhat-śravāḥ ǀ asuraḥ ǀ barhaṇā ǀ kṛtaḥ ǀ puraḥ ǀ hari-bhyām ǀ vṛṣabhaḥ ǀ rathaḥ ǀ hi ǀ saḥ ǁ

    1.54.3 Aṣṭaka 1.4.17.3Anuvāka 1.10.44

  4. Ṛk 4

    त्वं दि॒वो बृ॑ह॒तः सानु॑ कोप॒योऽव॒ त्मना॑ धृष॒ता शंब॑रं भिनत् ।
    यन्मा॒यिनो॑ व्रं॒दिनो॑ मं॒दिना॑ धृ॒षच्छि॒तां गभ॑स्तिम॒शनिं॑ पृत॒न्यसि॑ ॥

    त्वं दिवो बृहतः सानु कोपयो ऽव त्मना धृषता शम्बरम् भिनत् |
    यन् मायिनो व्रन्दिनो मन्दिना धृषच् छितां गभस्तिम् अशनिम् पृतन्यसि ||

    tvám divó bṛhatáḥ sā́nu kopayó’va tmánā dhṛṣatā́ śámbaram bhinat ǀ
    yánmāyíno vrandíno mandínā dhṛṣácchitā́m gábhastimaśánim pṛtanyási ǁ

    tvaṃ divo bṛhataḥ sānu kopayo 'va tmanā dhṛṣatā śambaram bhinat |
    yan māyino vrandino mandinā dhṛṣac chitāṃ gabhastim aśanim pṛtanyasi ||

    त्वम् । दि॒वः । बृ॒ह॒तः । सानु॑ । को॒प॒यः॒ । अव॑ । त्मना॑ । धृ॒ष॒ता । शम्ब॑रम् । भि॒न॒त् ।
    यत् । मा॒यिनः॑ । व्र॒न्दिनः॑ । म॒न्दिना॑ । धृ॒षत् । शि॒ताम् । गभ॑स्तिम् । अ॒शनि॑म् । पृ॒त॒न्यसि॑ ॥

    त्वम् । दिवः । बृहतः । सानु । कोपयः । अव । त्मना । धृषता । शम्बरम् । भिनत् ।
    यत् । मायिनः । व्रन्दिनः । मन्दिना । धृषत् । शिताम् । गभस्तिम् । अशनिम् । पृतन्यसि ॥

    tvám ǀ diváḥ ǀ bṛhatáḥ ǀ sā́nu ǀ kopayaḥ ǀ áva ǀ tmánā ǀ dhṛṣatā́ ǀ śámbaram ǀ bhinat ǀ
    yát ǀ māyínaḥ ǀ vrandínaḥ ǀ mandínā ǀ dhṛṣát ǀ śitā́m ǀ gábhastim ǀ aśánim ǀ pṛtanyási ǁ

    tvam ǀ divaḥ ǀ bṛhataḥ ǀ sānu ǀ kopayaḥ ǀ ava ǀ tmanā ǀ dhṛṣatā ǀ śambaram ǀ bhinat ǀ
    yat ǀ māyinaḥ ǀ vrandinaḥ ǀ mandinā ǀ dhṛṣat ǀ śitām ǀ gabhastim ǀ aśanim ǀ pṛtanyasi ǁ

    1.54.4 Aṣṭaka 1.4.17.4Anuvāka 1.10.45

  5. Ṛk 5

    नि यद्वृ॒णक्षि॑ श्वस॒नस्य॑ मू॒र्धनि॒ शुष्ण॑स्य चिद्व्रं॒दिनो॒ रोरु॑व॒द्वना॑ ।
    प्रा॒चीने॑न॒ मन॑सा ब॒र्हणा॑वता॒ यद॒द्या चि॑त्कृ॒णवः॒ कस्त्वा॒ परि॑ ॥

    नि यद् वृणक्षि श्वसनस्य मूर्धनि शुष्णस्य चिद् व्रन्दिनो रोरुवद् वना |
    प्राचीनेन मनसा बर्हणावता यद् अद्या चित् कृणवः कस् त्वा परि ||

    ní yádvṛṇákṣi śvasanásya mūrdháni śúṣṇasya cidvrandíno róruvadvánā ǀ
    prācī́nena mánasā barháṇāvatā yádadyā́ citkṛṇávaḥ kástvā pári ǁ

    ni yad vṛṇakṣi śvasanasya mūrdhani śuṣṇasya cid vrandino roruvad vanā |
    prācīnena manasā barhaṇāvatā yad adyā cit kṛṇavaḥ kas tvā pari ||

    नि । यत् । वृ॒णक्षि॑ । श्व॒स॒नस्य॑ । मू॒र्धनि॑ । शुष्ण॑स्य । चि॒त् । व्र॒न्दिनः॑ । रोरु॑वत् । वना॑ ।
    प्रा॒चीने॑न । मन॑सा । ब॒र्हणा॑ऽवता । यत् । अ॒द्य । चि॒त् । कृ॒णवः॑ । कः । त्वा॒ । परि॑ ॥

    नि । यत् । वृणक्षि । श्वसनस्य । मूर्धनि । शुष्णस्य । चित् । व्रन्दिनः । रोरुवत् । वना ।
    प्राचीनेन । मनसा । बर्हणाऽवता । यत् । अद्य । चित् । कृणवः । कः । त्वा । परि ॥

    ní ǀ yát ǀ vṛṇákṣi ǀ śvasanásya ǀ mūrdháni ǀ śúṣṇasya ǀ cit ǀ vrandínaḥ ǀ róruvat ǀ vánā ǀ
    prācī́nena ǀ mánasā ǀ barháṇā-vatā ǀ yát ǀ adyá ǀ cit ǀ kṛṇávaḥ ǀ káḥ ǀ tvā ǀ pári ǁ

    ni ǀ yat ǀ vṛṇakṣi ǀ śvasanasya ǀ mūrdhani ǀ śuṣṇasya ǀ cit ǀ vrandinaḥ ǀ roruvat ǀ vanā ǀ
    prācīnena ǀ manasā ǀ barhaṇā-vatā ǀ yat ǀ adya ǀ cit ǀ kṛṇavaḥ ǀ kaḥ ǀ tvā ǀ pari ǁ

    1.54.5 Aṣṭaka 1.4.17.5Anuvāka 1.10.46

  6. Ṛk 6

    त्वमा॑विथ॒ नर्यं॑ तु॒र्वशं॒ यदुं॒ त्वं तु॒र्वीतिं॑ व॒य्यं॑ शतक्रतो ।
    त्वं रथ॒मेत॑शं॒ कृत्व्ये॒ धने॒ त्वं पुरो॑ नव॒तिं दं॑भयो॒ नव॑ ॥

    त्वम् आविथ नर्यं तुर्वशं यदुं त्वं तुर्वीतिं वय्यं शतक्रतो |
    त्वं रथम् एतशं कृत्व्ये धने त्वम् पुरो नवतिं दम्भयो नव ||

    tvámāvitha náryam turváśam yádum tvám turvī́tim vayyám śatakrato ǀ
    tvám ráthamétaśam kṛ́tvye dháne tvám púro navatím dambhayo náva ǁ

    tvam āvitha naryaṃ turvaśaṃ yaduṃ tvaṃ turvītiṃ vayyaṃ śatakrato |
    tvaṃ ratham etaśaṃ kṛtvye dhane tvam puro navatiṃ dambhayo nava ||

    त्वम् । आ॒वि॒थ॒ । नर्य॑म् । तु॒र्वश॑म् । यदु॑म् । त्वम् । तु॒र्वीति॑म् । व॒य्य॑म् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
    त्वम् । रथ॑म् । एत॑शम् । कृत्व्ये॑ । धने॑ । त्वम् । पुरः॑ । न॒व॒तिम् । द॒म्भ॒यः॒ । नव॑ ॥

    त्वम् । आविथ । नर्यम् । तुर्वशम् । यदुम् । त्वम् । तुर्वीतिम् । वय्यम् । शतक्रतो इति शतऽक्रतो ।
    त्वम् । रथम् । एतशम् । कृत्व्ये । धने । त्वम् । पुरः । नवतिम् । दम्भयः । नव ॥

    tvám ǀ āvitha ǀ náryam ǀ turváśam ǀ yádum ǀ tvám ǀ turvī́tim ǀ vayyám ǀ śatakrato íti śata-krato ǀ
    tvám ǀ rátham ǀ étaśam ǀ kṛ́tvye ǀ dháne ǀ tvám ǀ púraḥ ǀ navatím ǀ dambhayaḥ ǀ náva ǁ

    tvam ǀ āvitha ǀ naryam ǀ turvaśam ǀ yadum ǀ tvam ǀ turvītim ǀ vayyam ǀ śatakrato iti śata-krato ǀ
    tvam ǀ ratham ǀ etaśam ǀ kṛtvye ǀ dhane ǀ tvam ǀ puraḥ ǀ navatim ǀ dambhayaḥ ǀ nava ǁ

    1.54.6 Aṣṭaka 1.4.18.1Anuvāka 1.10.47

  7. Ṛk 7

    स घा॒ राजा॒ सत्प॑तिः शूशुव॒ज्जनो॑ रा॒तह॑व्यः॒ प्रति॒ यः शास॒मिन्व॑ति ।
    उ॒क्था वा॒ यो अ॑भिगृ॒णाति॒ राध॑सा॒ दानु॑रस्मा॒ उप॑रा पिन्वते दि॒वः ॥

    स घा राजा सत्पतिः शूशुवज् जनो रातहव्यः प्रति यः शासम् इन्वति |
    उक्था वा यो अभिगृणाति राधसा दानुर् अस्मा उपरा पिन्वते दिवः ||

    sá ghā rā́jā sátpatiḥ śūśuvajjáno rātáhavyaḥ práti yáḥ śā́samínvati ǀ
    ukthā́ vā yó abhigṛṇā́ti rā́dhasā dā́nurasmā úparā pinvate diváḥ ǁ

    sa ghā rājā satpatiḥ śūśuvaj jano rātahavyaḥ prati yaḥ śāsam invati |
    ukthā vā yo abhigṛṇāti rādhasā dānur asmā uparā pinvate divaḥ ||

    सः । घ॒ । राजा॑ । सत्ऽप॑तिः । शू॒शु॒व॒त् । जनः॑ । रा॒तऽह॑व्यः । प्रति॑ । यः । शास॑म् । इन्व॑ति ।
    उ॒क्था । वा॒ । यः । अ॒भि॒ऽगृ॒णाति॑ । राध॑सा । दानुः॑ । अ॒स्मै॒ । उप॑रा । पि॒न्व॒ते॒ । दि॒वः ॥

    सः । घ । राजा । सत्ऽपतिः । शूशुवत् । जनः । रातऽहव्यः । प्रति । यः । शासम् । इन्वति ।
    उक्था । वा । यः । अभिऽगृणाति । राधसा । दानुः । अस्मै । उपरा । पिन्वते । दिवः ॥

    sáḥ ǀ gha ǀ rā́jā ǀ sát-patiḥ ǀ śūśuvat ǀ jánaḥ ǀ rātá-havyaḥ ǀ práti ǀ yáḥ ǀ śā́sam ǀ ínvati ǀ
    ukthā́ ǀ vā ǀ yáḥ ǀ abhi-gṛṇā́ti ǀ rā́dhasā ǀ dā́nuḥ ǀ asmai ǀ úparā ǀ pinvate ǀ diváḥ ǁ

    saḥ ǀ gha ǀ rājā ǀ sat-patiḥ ǀ śūśuvat ǀ janaḥ ǀ rāta-havyaḥ ǀ prati ǀ yaḥ ǀ śāsam ǀ invati ǀ
    ukthā ǀ vā ǀ yaḥ ǀ abhi-gṛṇāti ǀ rādhasā ǀ dānuḥ ǀ asmai ǀ uparā ǀ pinvate ǀ divaḥ ǁ

    1.54.7 Aṣṭaka 1.4.18.2Anuvāka 1.10.48

  8. Ṛk 8

    अस॑मं क्ष॒त्रमस॑मा मनी॒षा प्र सो॑म॒पा अप॑सा संतु॒ नेमे॑ ।
    ये त॑ इंद्र द॒दुषो॑ व॒र्धयं॑ति॒ महि॑ क्ष॒त्रं स्थवि॑रं॒ वृष्ण्यं॑ च ॥

    असमं क्षत्रम् असमा मनीषा प्र सोमपा अपसा सन्तु नेमे |
    ये त इन्द्र ददुषो वर्धयन्ति महि क्षत्रं स्थविरं वृष्ण्यं च ||

    ásamam kṣatrámásamā manīṣā́ prá somapā́ ápasā santu néme ǀ
    yé ta indra dadúṣo vardháyanti máhi kṣatrám stháviram vṛ́ṣṇyam ca ǁ

    asamaṃ kṣatram asamā manīṣā pra somapā apasā santu neme |
    ye ta indra daduṣo vardhayanti mahi kṣatraṃ sthaviraṃ vṛṣṇyaṃ ca ||

    अस॑मम् । क्ष॒त्रम् । अस॑मा । म॒नी॒षा । प्र । सो॒म॒ऽपाः । अप॑सा । स॒न्तु॒ । नेमे॑ ।
    ये । ते॒ । इ॒न्द्र॒ । द॒दुषः॑ । व॒र्धय॑न्ति । महि॑ । क्ष॒त्रम् । स्थवि॑रम् । वृष्ण्य॑म् । च॒ ॥

    असमम् । क्षत्रम् । असमा । मनीषा । प्र । सोमऽपाः । अपसा । सन्तु । नेमे ।
    ये । ते । इन्द्र । ददुषः । वर्धयन्ति । महि । क्षत्रम् । स्थविरम् । वृष्ण्यम् । च ॥

    ásamam ǀ kṣatrám ǀ ásamā ǀ manīṣā́ ǀ prá ǀ soma-pā́ḥ ǀ ápasā ǀ santu ǀ néme ǀ
    yé ǀ te ǀ indra ǀ dadúṣaḥ ǀ vardháyanti ǀ máhi ǀ kṣatrám ǀ stháviram ǀ vṛ́ṣṇyam ǀ ca ǁ

    asamam ǀ kṣatram ǀ asamā ǀ manīṣā ǀ pra ǀ soma-pāḥ ǀ apasā ǀ santu ǀ neme ǀ
    ye ǀ te ǀ indra ǀ daduṣaḥ ǀ vardhayanti ǀ mahi ǀ kṣatram ǀ sthaviram ǀ vṛṣṇyam ǀ ca ǁ

    1.54.8 Aṣṭaka 1.4.18.3Anuvāka 1.10.49

  9. Ṛk 9

    तुभ्येदे॒ते ब॑हु॒ला अद्रि॑दुग्धाश्चमू॒षद॑श्चम॒सा इं॑द्र॒पानाः॑ ।
    व्य॑श्नुहि त॒र्पया॒ काम॑मेषा॒मथा॒ मनो॑ वसु॒देया॑य कृष्व ॥

    तुभ्येद् एते बहुला अद्रिदुग्धाश् चमूषदश् चमसा इन्द्रपानाः |
    व्य् अश्नुहि तर्पया कामम् एषाम् अथा मनो वसुदेयाय कृष्व ||

    túbhyédeté bahulā́ ádridugdhāścamūṣádaścamasā́ indrapā́nāḥ ǀ
    vyáśnuhi tarpáyā kā́mameṣāmáthā máno vasudéyāya kṛṣva ǁ

    tubhyed ete bahulā adridugdhāś camūṣadaś camasā indrapānāḥ |
    vy aśnuhi tarpayā kāmam eṣām athā mano vasudeyāya kṛṣva ||

    तुभ्य॑ । इत् । ए॒ते । ब॒हु॒लाः । अद्रि॑ऽदुग्धाः । च॒मू॒ऽसदः॑ । च॒म॒साः । इ॒न्द्र॒ऽपानाः॑ ।
    वि । अ॒श्नु॒हि॒ । त॒र्पय॑ । काम॑म् । ए॒षा॒म् । अथ॑ । मनः॑ । व॒सु॒ऽदेया॑य । कृ॒ष्व॒ ॥

    तुभ्य । इत् । एते । बहुलाः । अद्रिऽदुग्धाः । चमूऽसदः । चमसाः । इन्द्रऽपानाः ।
    वि । अश्नुहि । तर्पय । कामम् । एषाम् । अथ । मनः । वसुऽदेयाय । कृष्व ॥

    túbhya ǀ ít ǀ eté ǀ bahulā́ḥ ǀ ádri-dugdhāḥ ǀ camū-sádaḥ ǀ camasā́ḥ ǀ indra-pā́nāḥ ǀ
    ví ǀ aśnuhi ǀ tarpáya ǀ kā́mam ǀ eṣām ǀ átha ǀ mánaḥ ǀ vasu-déyāya ǀ kṛṣva ǁ

    tubhya ǀ it ǀ ete ǀ bahulāḥ ǀ adri-dugdhāḥ ǀ camū-sadaḥ ǀ camasāḥ ǀ indra-pānāḥ ǀ
    vi ǀ aśnuhi ǀ tarpaya ǀ kāmam ǀ eṣām ǀ atha ǀ manaḥ ǀ vasu-deyāya ǀ kṛṣva ǁ

    1.54.9 Aṣṭaka 1.4.18.4Anuvāka 1.10.50

  10. Ṛk 10

    अ॒पाम॑तिष्ठद्ध॒रुण॑ह्वरं॒ तमो॒ऽंतर्वृ॒त्रस्य॑ ज॒ठरे॑षु॒ पर्व॑तः ।
    अ॒भीमिंद्रो॑ न॒द्यो॑ व॒व्रिणा॑ हि॒ता विश्वा॑ अनु॒ष्ठाः प्र॑व॒णेषु॑ जिघ्नते ॥

    अपाम् अतिष्ठद् धरुणह्वरं तमो ऽन्तर् वृत्रस्य जठरेषु पर्वतः |
    अभीम् इन्द्रो नद्यो वव्रिणा हिता विश्वा अनुष्ठाः प्रवणेषु जिघ्नते ||

    apā́matiṣṭhaddharúṇahvaram támo’ntárvṛtrásya jaṭháreṣu párvataḥ ǀ
    abhī́míndro nadyó vavríṇā hitā́ víśvā anuṣṭhā́ḥ pravaṇéṣu jighnate ǁ

    apām atiṣṭhad dharuṇahvaraṃ tamo 'ntar vṛtrasya jaṭhareṣu parvataḥ |
    abhīm indro nadyo vavriṇā hitā viśvā anuṣṭhāḥ pravaṇeṣu jighnate ||

    अ॒पाम् । अ॒ति॒ष्ठ॒त् । ध॒रुण॑ऽह्वरम् । तमः॑ । अ॒न्तः । वृ॒त्रस्य॑ । ज॒ठरे॑षु । पर्व॑तः ।
    अ॒भि । ई॒म् । इन्द्रः॑ । न॒द्यः॑ । व॒व्रिणा॑ । हि॒ताः । विश्वाः॑ । अ॒नु॒ऽस्थाः । प्र॒व॒णेषु॑ । जि॒घ्न॒ते॒ ॥

    अपाम् । अतिष्ठत् । धरुणऽह्वरम् । तमः । अन्तः । वृत्रस्य । जठरेषु । पर्वतः ।
    अभि । ईम् । इन्द्रः । नद्यः । वव्रिणा । हिताः । विश्वाः । अनुऽस्थाः । प्रवणेषु । जिघ्नते ॥

    apā́m ǀ atiṣṭhat ǀ dharúṇa-hvaram ǀ támaḥ ǀ antáḥ ǀ vṛtrásya ǀ jaṭháreṣu ǀ párvataḥ ǀ
    abhí ǀ īm ǀ índraḥ ǀ nadyáḥ ǀ vavríṇā ǀ hitā́ḥ ǀ víśvāḥ ǀ anu-sthā́ḥ ǀ pravaṇéṣu ǀ jighnate ǁ

    apām ǀ atiṣṭhat ǀ dharuṇa-hvaram ǀ tamaḥ ǀ antaḥ ǀ vṛtrasya ǀ jaṭhareṣu ǀ parvataḥ ǀ
    abhi ǀ īm ǀ indraḥ ǀ nadyaḥ ǀ vavriṇā ǀ hitāḥ ǀ viśvāḥ ǀ anu-sthāḥ ǀ pravaṇeṣu ǀ jighnate ǁ

    1.54.10 Aṣṭaka 1.4.18.5Anuvāka 1.10.51

  11. Ṛk 11

    स शेवृ॑ध॒मधि॑ धा द्यु॒म्नम॒स्मे महि॑ क्ष॒त्रं ज॑ना॒षाळिं॑द्र॒ तव्यं॑ ।
    रक्षा॑ च नो म॒घोनः॑ पा॒हि सू॒रीन्रा॒ये च॑ नः स्वप॒त्या इ॒षे धाः॑ ॥

    स शेवृधम् अधि धा द्युम्नम् अस्मे महि क्षत्रं जनाषाऌ इन्द्र तव्यम् |
    रक्षा च नो मघोनः पाहि सूरीन् राये च नः स्वपत्या इषे धाः ||

    sá śévṛdhamádhi dhā dyumnámasmé máhi kṣatrám janāṣā́ḷindra távyam ǀ
    rákṣā ca no maghónaḥ pāhí sūrī́nrāyé ca naḥ svapatyā́ iṣé dhāḥ ǁ

    sa śevṛdham adhi dhā dyumnam asme mahi kṣatraṃ janāṣāḷ indra tavyam |
    rakṣā ca no maghonaḥ pāhi sūrīn rāye ca naḥ svapatyā iṣe dhāḥ ||

    सः । शेऽवृ॑धम् । अधि॑ । धाः॒ । द्यु॒म्नम् । अ॒स्मे इति॑ । महि॑ । क्ष॒त्रम् । ज॒ना॒षाट् । इ॒न्द्र॒ । तव्य॑म् ।
    रक्ष॑ । च॒ । नः॒ । म॒घोनः॑ । पा॒हि । सू॒रीन् । रा॒ये । च॒ । नः॒ । सु॒ऽअ॒प॒त्यै । इ॒षे । धाः॒ ॥

    सः । शेऽवृधम् । अधि । धाः । द्युम्नम् । अस्मे इति । महि । क्षत्रम् । जनाषाट् । इन्द्र । तव्यम् ।
    रक्ष । च । नः । मघोनः । पाहि । सूरीन् । राये । च । नः । सुऽअपत्यै । इषे । धाः ॥

    sáḥ ǀ śé-vṛdham ǀ ádhi ǀ dhāḥ ǀ dyumnám ǀ asmé íti ǀ máhi ǀ kṣatrám ǀ janāṣā́ṭ ǀ indra ǀ távyam ǀ
    rákṣa ǀ ca ǀ naḥ ǀ maghónaḥ ǀ pāhí ǀ sūrī́n ǀ rāyé ǀ ca ǀ naḥ ǀ su-apatyái ǀ iṣé ǀ dhāḥ ǁ

    saḥ ǀ śe-vṛdham ǀ adhi ǀ dhāḥ ǀ dyumnam ǀ asme iti ǀ mahi ǀ kṣatram ǀ janāṣāṭ ǀ indra ǀ tavyam ǀ
    rakṣa ǀ ca ǀ naḥ ǀ maghonaḥ ǀ pāhi ǀ sūrīn ǀ rāye ǀ ca ǀ naḥ ǀ su-apatyai ǀ iṣe ǀ dhāḥ ǁ

    1.54.11 Aṣṭaka 1.4.18.6Anuvāka 1.10.52

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.54 · Indra

Interpretations

Kapali Shastri

Ṛk 1

Commentary

O Indra, neglect us not in these fights with evil. Thy might cannot be surpassed. The rivers and woods reverberate with thy roar; how can the (three) worlds not come together in fear?

Ṛk 2

Commentary

Worship Indra with his consort. Praise adoringly Indra who heareth, Indra who with his assaulting might gladdening both heaven and earth, is celebrated as the champion, the bountiful showerer.

Ṛk 3

Commentary

Utter happy praise for mighty luminous Indra who assaults with mind concentrated like self-born might; he of great renown, powerful, repeller of enemies, adored with his bay steeds, the showerer, hastens (hither).

Ṛk 4

Commentary

Thou hast shaken the peak of the great heaven. Assaulting, thou hast slain Shambara by thyself; exulting in the gladdening Soma thou hurlest the sharpened, bright-rayed thunderbolt against the assembled, cunning Asuras.

Ṛk 5

Translation

Indra pours delightful waters on the summits of life-sustaining Prana and renders the world of the Yajamana replete with affluent power. Likewise he pours on Shushna with his associates thereby neutralising his penchant for drying up with the result that the world of the Yajamana delights in abundance. Indra has been doing this from ancient times and indeed does so even today. Nobody can excel him.

Commentary

Roaring, thou pourest delightful (waters) on the head of wind as on Shushna with his cohorts. As of old, even today thou actest with thy opulent mind. Who can excel thee!

Ṛk 6

Translation

Narya: benefactor of men. Turvasha and Turviti: of winning gait. Vayya : skilled in extending the thread in sacrifice. Etasha: moving. Ratha: speedy.

Commentary

Thou hast protected Narya, Turvasha, Yadu and Turviti, son of Vayya. Doer of hundred deeds, thou hast protected Etasha, Ratha, in winning the wealth, thou hast demolished ninety-nine cities (of the Asuras).

Ṛk 7

Commentary

He who offers obltations and conforms to (Indra's) Law, prospers, the Yajamana, royal, lording on creatures. He who richly recites hymns in praise, to him bounteous Indra showers from heaven gifts from on high.

Ṛk 8

Commentary

Unequalled is his might, unequalled is his wisdom. May those of insufficient Soma become by their acts full. Indra, those who make offerings increase thy vast might, thy ample vigour.

Ṛk 9

Translation

In the inner context the two stones used for pressing out the Soma juice are the outer and the inner beings. The rock is the inconscient; Soma (Delight) hidden in it is drawn out and poured.

Commentary

For thee are readied these Soma-libations, plentiful, pressed out with stones, contained in the ladles, for thy quaff. Accept them, Indra, satiate thy need; then be mindful to give us the wealth.

Ṛk 10

Translation

The waters are the currents of light; they are obstructed by darkness (which is opposed to light).

The rock in which the waters are concealed has several plateaus and accordingly are the waters levelled.

Commentary

Darkness obstructed the flow of waters; the cloud was within the insides of Vritra. Indra precipitated down to the hollows all these waters concealed in succession by Vritra.

Ṛk 11

Commentary

Bestow on us, O Indra, the light that promotes peace and happiness, the great might that subdues the host of foes; make us wealthy and protect, make us wise and protect; vouchsafe us wealth with impulsions of happy issue.