Ṛk 1.54.2
Saṃhitā
अर्चा॑ श॒क्राय॑ शा॒किने॒ शची॑वते शृ॒ण्वंत॒मिंद्रं॑ म॒हय॑न्न॒भि ष्टु॑हि ।
यो धृ॒ष्णुना॒ शव॑सा॒ रोद॑सी उ॒भे वृषा॑ वृष॒त्वा वृ॑ष॒भो न्यृं॒जते॑ ॥
अर्चा शक्राय शाकिने शचीवते शृण्वन्तम् इन्द्रम् महयन्न् अभि ष्टुहि |
यो धृष्णुना शवसा रोदसी उभे वृषा वृषत्वा वृषभो न्यृञ्जते ||
árcā śakrā́ya śākíne śácīvate śṛṇvántamíndram maháyannabhí ṣṭuhi ǀ
yó dhṛṣṇúnā śávasā ródasī ubhé vṛ́ṣā vṛṣatvā́ vṛṣabhó nyṛñjáte ǁ
arcā śakrāya śākine śacīvate śṛṇvantam indram mahayann abhi ṣṭuhi |
yo dhṛṣṇunā śavasā rodasī ubhe vṛṣā vṛṣatvā vṛṣabho nyṛñjate ||
Padapāṭha
अर्च॑ । श॒क्राय॑ । शा॒किने॑ । शची॑ऽवते । शृ॒ण्वन्त॑म् । इन्द्र॑म् । म॒हय॑न् । अ॒भि । स्तु॒हि॒ ।
यः । धृ॒ष्णुना॑ । शव॑सा । रोद॑सी॒ इति॑ । उ॒भे इति॑ । वृषा॑ । वृ॒ष॒ऽत्वा । वृ॒ष॒भः । नि॒ऽऋ॒ञ्जते॑ ॥
अर्च । शक्राय । शाकिने । शचीऽवते । शृण्वन्तम् । इन्द्रम् । महयन् । अभि । स्तुहि ।
यः । धृष्णुना । शवसा । रोदसी इति । उभे इति । वृषा । वृषऽत्वा । वृषभः । निऽऋञ्जते ॥
árca ǀ śakrā́ya ǀ śākíne ǀ śácī-vate ǀ śṛṇvántam ǀ índram ǀ maháyan ǀ abhí ǀ stuhi ǀ
yáḥ ǀ dhṛṣṇúnā ǀ śávasā ǀ ródasī íti ǀ ubhé íti ǀ vṛ́ṣā ǀ vṛṣa-tvā́ ǀ vṛṣabháḥ ǀ ni-ṛñjáte ǁ
arca ǀ śakrāya ǀ śākine ǀ śacī-vate ǀ śṛṇvantam ǀ indram ǀ mahayan ǀ abhi ǀ stuhi ǀ
yaḥ ǀ dhṛṣṇunā ǀ śavasā ǀ rodasī iti ǀ ubhe iti ǀ vṛṣā ǀ vṛṣa-tvā ǀ vṛṣabhaḥ ǀ ni-ṛñjate ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.054.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.4.17.02
- Maṇḍala · Anuvāka · Ṛk
- 1.10.043
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Savya Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.