Ṛk 1.54.11
Saṃhitā
स शेवृ॑ध॒मधि॑ धा द्यु॒म्नम॒स्मे महि॑ क्ष॒त्रं ज॑ना॒षाळिं॑द्र॒ तव्यं॑ ।
रक्षा॑ च नो म॒घोनः॑ पा॒हि सू॒रीन्रा॒ये च॑ नः स्वप॒त्या इ॒षे धाः॑ ॥
स शेवृधम् अधि धा द्युम्नम् अस्मे महि क्षत्रं जनाषाऌ इन्द्र तव्यम् |
रक्षा च नो मघोनः पाहि सूरीन् राये च नः स्वपत्या इषे धाः ||
sá śévṛdhamádhi dhā dyumnámasmé máhi kṣatrám janāṣā́ḷindra távyam ǀ
rákṣā ca no maghónaḥ pāhí sūrī́nrāyé ca naḥ svapatyā́ iṣé dhāḥ ǁ
sa śevṛdham adhi dhā dyumnam asme mahi kṣatraṃ janāṣāḷ indra tavyam |
rakṣā ca no maghonaḥ pāhi sūrīn rāye ca naḥ svapatyā iṣe dhāḥ ||
Padapāṭha
सः । शेऽवृ॑धम् । अधि॑ । धाः॒ । द्यु॒म्नम् । अ॒स्मे इति॑ । महि॑ । क्ष॒त्रम् । ज॒ना॒षाट् । इ॒न्द्र॒ । तव्य॑म् ।
रक्ष॑ । च॒ । नः॒ । म॒घोनः॑ । पा॒हि । सू॒रीन् । रा॒ये । च॒ । नः॒ । सु॒ऽअ॒प॒त्यै । इ॒षे । धाः॒ ॥
सः । शेऽवृधम् । अधि । धाः । द्युम्नम् । अस्मे इति । महि । क्षत्रम् । जनाषाट् । इन्द्र । तव्यम् ।
रक्ष । च । नः । मघोनः । पाहि । सूरीन् । राये । च । नः । सुऽअपत्यै । इषे । धाः ॥
sáḥ ǀ śé-vṛdham ǀ ádhi ǀ dhāḥ ǀ dyumnám ǀ asmé íti ǀ máhi ǀ kṣatrám ǀ janāṣā́ṭ ǀ indra ǀ távyam ǀ
rákṣa ǀ ca ǀ naḥ ǀ maghónaḥ ǀ pāhí ǀ sūrī́n ǀ rāyé ǀ ca ǀ naḥ ǀ su-apatyái ǀ iṣé ǀ dhāḥ ǁ
saḥ ǀ śe-vṛdham ǀ adhi ǀ dhāḥ ǀ dyumnam ǀ asme iti ǀ mahi ǀ kṣatram ǀ janāṣāṭ ǀ indra ǀ tavyam ǀ
rakṣa ǀ ca ǀ naḥ ǀ maghonaḥ ǀ pāhi ǀ sūrīn ǀ rāye ǀ ca ǀ naḥ ǀ su-apatyai ǀ iṣe ǀ dhāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.054.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.4.18.06
- Maṇḍala · Anuvāka · Ṛk
- 1.10.052
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Savya Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.