Ṛk 1.54.3
Saṃhitā
अर्चा॑ दि॒वे बृ॑ह॒ते शू॒ष्यं१॒॑ वचः॒ स्वक्ष॑त्रं॒ यस्य॑ धृष॒तो धृ॒षन्मनः॑ ।
बृ॒हच्छ्र॑वा॒ असु॑रो ब॒र्हणा॑ कृ॒तः पु॒रो हरि॑भ्यां वृष॒भो रथो॒ हि षः ॥
अर्चा दिवे बृहते शूष्यं वचः स्वक्षत्रं यस्य धृषतो धृषन् मनः |
बृहच्छ्रवा असुरो बर्हणा कृतः पुरो हरिभ्यां वृषभो रथो हि षः ||
árcā divé bṛhaté śūṣyám vácaḥ svákṣatram yásya dhṛṣató dhṛṣánmánaḥ ǀ
bṛhácchravā ásuro barháṇā kṛtáḥ puró háribhyām vṛṣabhó rátho hí ṣáḥ ǁ
arcā dive bṛhate śūṣyaṃ vacaḥ svakṣatraṃ yasya dhṛṣato dhṛṣan manaḥ |
bṛhacchravā asuro barhaṇā kṛtaḥ puro haribhyāṃ vṛṣabho ratho hi ṣaḥ ||
Padapāṭha
अर्च॑ । दि॒वे । बृ॒ह॒ते । शू॒ष्य॑म् । वचः॑ । स्वऽक्ष॑त्रम् । यस्य॑ । धृ॒ष॒तः । धृ॒षत् । मनः॑ ।
बृ॒हत्ऽश्र॑वाः । असु॑रः । ब॒र्हणा॑ । कृ॒तः । पु॒रः । हरि॑ऽभ्याम् । वृ॒ष॒भः । रथः॑ । हि । सः ॥
अर्च । दिवे । बृहते । शूष्यम् । वचः । स्वऽक्षत्रम् । यस्य । धृषतः । धृषत् । मनः ।
बृहत्ऽश्रवाः । असुरः । बर्हणा । कृतः । पुरः । हरिऽभ्याम् । वृषभः । रथः । हि । सः ॥
árca ǀ divé ǀ bṛhaté ǀ śūṣyám ǀ vácaḥ ǀ svá-kṣatram ǀ yásya ǀ dhṛṣatáḥ ǀ dhṛṣát ǀ mánaḥ ǀ
bṛhát-śravāḥ ǀ ásuraḥ ǀ barháṇā ǀ kṛtáḥ ǀ puráḥ ǀ hári-bhyām ǀ vṛṣabháḥ ǀ ráthaḥ ǀ hí ǀ sáḥ ǁ
arca ǀ dive ǀ bṛhate ǀ śūṣyam ǀ vacaḥ ǀ sva-kṣatram ǀ yasya ǀ dhṛṣataḥ ǀ dhṛṣat ǀ manaḥ ǀ
bṛhat-śravāḥ ǀ asuraḥ ǀ barhaṇā ǀ kṛtaḥ ǀ puraḥ ǀ hari-bhyām ǀ vṛṣabhaḥ ǀ rathaḥ ǀ hi ǀ saḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.054.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.4.17.03
- Maṇḍala · Anuvāka · Ṛk
- 1.10.044
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Savya Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.