Sūkta 98
- Devatā देवता
- Agni Vaiśvānara
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles virāṭtrisṭup (1); triṣṭup (2); nicṛttriṣṭup (3)
2nd set of styles triṣṭubh
-
Ṛk 1
वै॒श्वा॒न॒रस्य॑ सुम॒तौ स्या॑म॒ राजा॒ हि कं॒ भुव॑नानामभि॒श्रीः ।
इ॒तो जा॒तो विश्व॑मि॒दं वि च॑ष्टे वैश्वान॒रो य॑तते॒ सूर्ये॑ण ॥वैश्वानरस्य सुमतौ स्याम राजा हि कम् भुवनानाम् अभिश्रीः |
इतो जातो विश्वम् इदं वि चष्टे वैश्वानरो यतते सूर्येण ||vaiśvānarásya sumatáu syāma rā́jā hí kam bhúvanānāmabhiśrī́ḥ ǀ
itó jātó víśvamidám ví caṣṭe vaiśvānaró yatate sū́ryeṇa ǁvaiśvānarasya sumatau syāma rājā hi kam bhuvanānām abhiśrīḥ |
ito jāto viśvam idaṃ vi caṣṭe vaiśvānaro yatate sūryeṇa ||वै॒श्वा॒न॒रस्य॑ । सु॒ऽम॒तौ । स्या॒म॒ । राजा॑ । हि । क॒म् । भुव॑नानाम् । अ॒भि॒ऽश्रीः ।
इ॒तः । जा॒तः । विश्व॑म् । इ॒दम् । वि । च॒ष्टे॒ । वै॒श्वा॒न॒रः । य॒त॒ते॒ । सूर्ये॑ण ॥वैश्वानरस्य । सुऽमतौ । स्याम । राजा । हि । कम् । भुवनानाम् । अभिऽश्रीः ।
इतः । जातः । विश्वम् । इदम् । वि । चष्टे । वैश्वानरः । यतते । सूर्येण ॥vaiśvānarásya ǀ su-matáu ǀ syāma ǀ rā́jā ǀ hí ǀ kam ǀ bhúvanānām ǀ abhi-śrī́ḥ ǀ
itáḥ ǀ jātáḥ ǀ víśvam ǀ idám ǀ ví ǀ caṣṭe ǀ vaiśvānaráḥ ǀ yatate ǀ sū́ryeṇa ǁvaiśvānarasya ǀ su-matau ǀ syāma ǀ rājā ǀ hi ǀ kam ǀ bhuvanānām ǀ abhi-śrīḥ ǀ
itaḥ ǀ jātaḥ ǀ viśvam ǀ idam ǀ vi ǀ caṣṭe ǀ vaiśvānaraḥ ǀ yatate ǀ sūryeṇa ǁ1.98.1 Aṣṭaka 1.7.6.0
-
Ṛk 2
पृ॒ष्टो दि॒वि पृ॒ष्टो अ॒ग्निः पृ॑थि॒व्यां पृ॒ष्टो विश्वा॒ ओष॑धी॒रा वि॑वेश ।
वै॒श्वा॒न॒रः सह॑सा पृ॒ष्टो अ॒ग्निः स नो॒ दिवा॒ स रि॒षः पा॑तु॒ नक्तं॑ ॥पृष्टो दिवि पृष्टो अग्निः पृथिव्याम् पृष्टो विश्वा ओषधीर् आ विवेश |
वैश्वानरः सहसा पृष्टो अग्निः स नो दिवा स रिषः पातु नक्तम् ||pṛṣṭó diví pṛṣṭó agníḥ pṛthivyā́m pṛṣṭó víśvā óṣadhīrā́ viveśa ǀ
vaiśvānaráḥ sáhasā pṛṣṭó agníḥ sá no dívā sá riṣáḥ pātu náktam ǁpṛṣṭo divi pṛṣṭo agniḥ pṛthivyām pṛṣṭo viśvā oṣadhīr ā viveśa |
vaiśvānaraḥ sahasā pṛṣṭo agniḥ sa no divā sa riṣaḥ pātu naktam ||पृ॒ष्टः । दि॒वि । पृ॒ष्टः । अ॒ग्निः । पृ॒थि॒व्याम् । पृ॒ष्टः । विश्वाः॑ । ओष॑धीः । आ । वि॒वे॒श॒ ।
वै॒श्वा॒न॒रः । सह॑सा । पृ॒ष्टः । अ॒ग्निः । सः । नः॒ । दिवा॑ । सः । रि॒षः । पा॒तु॒ । नक्त॑म् ॥पृष्टः । दिवि । पृष्टः । अग्निः । पृथिव्याम् । पृष्टः । विश्वाः । ओषधीः । आ । विवेश ।
वैश्वानरः । सहसा । पृष्टः । अग्निः । सः । नः । दिवा । सः । रिषः । पातु । नक्तम् ॥pṛṣṭáḥ ǀ diví ǀ pṛṣṭáḥ ǀ agníḥ ǀ pṛthivyā́m ǀ pṛṣṭáḥ ǀ víśvāḥ ǀ óṣadhīḥ ǀ ā́ ǀ viveśa ǀ
vaiśvānaráḥ ǀ sáhasā ǀ pṛṣṭáḥ ǀ agníḥ ǀ sáḥ ǀ naḥ ǀ dívā ǀ sáḥ ǀ riṣáḥ ǀ pātu ǀ náktam ǁpṛṣṭaḥ ǀ divi ǀ pṛṣṭaḥ ǀ agniḥ ǀ pṛthivyām ǀ pṛṣṭaḥ ǀ viśvāḥ ǀ oṣadhīḥ ǀ ā ǀ viveśa ǀ
vaiśvānaraḥ ǀ sahasā ǀ pṛṣṭaḥ ǀ agniḥ ǀ saḥ ǀ naḥ ǀ divā ǀ saḥ ǀ riṣaḥ ǀ pātu ǀ naktam ǁ1.98.2 Aṣṭaka 1.7.6.0
-
Ṛk 3
वैश्वा॑नर॒ तव॒ तत्स॒त्यम॑स्त्व॒स्मान्रायो॑ म॒घवा॑नः सचंतां ।
तन्नो॑ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी उ॒त द्यौः ॥वैश्वानर तव तत् सत्यम् अस्त्व् अस्मान् रायो मघवानः सचन्ताम् |
तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ||váiśvānara táva tátsatyámastvasmā́nrā́yo maghávānaḥ sacantām ǀ
tánno mitró váruṇo māmahantāmáditiḥ síndhuḥ pṛthivī́ utá dyáuḥ ǁvaiśvānara tava tat satyam astv asmān rāyo maghavānaḥ sacantām |
tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||वैश्वा॑नर । तव॑ । तत् । स॒त्यम् । अ॒स्तु॒ । अ॒स्मान् । रायः॑ । म॒घऽवा॑नः । स॒च॒न्ता॒म् ।
तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥वैश्वानर । तव । तत् । सत्यम् । अस्तु । अस्मान् । रायः । मघऽवानः । सचन्ताम् ।
तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥váiśvānara ǀ táva ǀ tát ǀ satyám ǀ astu ǀ asmā́n ǀ rā́yaḥ ǀ maghá-vānaḥ ǀ sacantām ǀ
tát ǀ naḥ ǀ mitráḥ ǀ váruṇaḥ ǀ mamahantām ǀ áditiḥ ǀ síndhuḥ ǀ pṛthivī́ ǀ utá ǀ dyáuḥ ǁvaiśvānara ǀ tava ǀ tat ǀ satyam ǀ astu ǀ asmān ǀ rāyaḥ ǀ magha-vānaḥ ǀ sacantām ǀ
tat ǀ naḥ ǀ mitraḥ ǀ varuṇaḥ ǀ mamahantām ǀ aditiḥ ǀ sindhuḥ ǀ pṛthivī ǀ uta ǀ dyauḥ ǁ1.98.3 Aṣṭaka 1.7.6.0
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.