Sūkta 102
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
Metres by ṛk
1st set of styles nicṛjjagatī (3, 5-8); svarāṭtriṣṭup (2, 4, 9); nicṛttriṣṭup (10, 11); jagatī (1)
2nd set of styles jagatī (1-7); triṣṭubh (8-11)
-
Ṛk 1
इ॒मां ते॒ धियं॒ प्र भ॑रे म॒हो म॒हीम॒स्य स्तो॒त्रे धि॒षणा॒ यत्त॑ आन॒जे ।
तमु॑त्स॒वे च॑ प्रस॒वे च॑ सास॒हिमिंद्रं॑ दे॒वासः॒ शव॑सामद॒न्ननु॑ ॥इमां ते धियम् प्र भरे महो महीम् अस्य स्तोत्रे धिषणा यत् त आनजे |
तम् उत्सवे च प्रसवे च सासहिम् इन्द्रं देवासः शवसामदन्न् अनु ||imā́m te dhíyam prá bhare mahó mahī́masyá stotré dhiṣáṇā yátta ānajé ǀ
támutsavé ca prasavé ca sāsahímíndram devā́saḥ śávasāmadannánu ǁimāṃ te dhiyam pra bhare maho mahīm asya stotre dhiṣaṇā yat ta ānaje |
tam utsave ca prasave ca sāsahim indraṃ devāsaḥ śavasāmadann anu ||इ॒माम् । ते॒ । धिय॑म् । प्र । भ॒रे॒ । म॒हः । म॒हीम् । अ॒स्य । स्तो॒त्रे । धि॒षणा॑ । यत् । ते॒ । आ॒न॒जे ।
तम् । उ॒त्ऽस॒वे । च॒ । प्र॒ऽस॒वे । च॒ । स॒स॒हिम् । इन्द्र॑म् । दे॒वासः॑ । शव॑सा । अ॒म॒द॒न् । अनु॑ ॥इमाम् । ते । धियम् । प्र । भरे । महः । महीम् । अस्य । स्तोत्रे । धिषणा । यत् । ते । आनजे ।
तम् । उत्ऽसवे । च । प्रऽसवे । च । ससहिम् । इन्द्रम् । देवासः । शवसा । अमदन् । अनु ॥imā́m ǀ te ǀ dhíyam ǀ prá ǀ bhare ǀ maháḥ ǀ mahī́m ǀ asyá ǀ stotré ǀ dhiṣáṇā ǀ yát ǀ te ǀ ānajé ǀ
tám ǀ ut-savé ǀ ca ǀ pra-savé ǀ ca ǀ sasahím ǀ índram ǀ devā́saḥ ǀ śávasā ǀ amadan ǀ ánu ǁimām ǀ te ǀ dhiyam ǀ pra ǀ bhare ǀ mahaḥ ǀ mahīm ǀ asya ǀ stotre ǀ dhiṣaṇā ǀ yat ǀ te ǀ ānaje ǀ
tam ǀ ut-save ǀ ca ǀ pra-save ǀ ca ǀ sasahim ǀ indram ǀ devāsaḥ ǀ śavasā ǀ amadan ǀ anu ǁ1.102.1 Aṣṭaka 1.7.14.1Anuvāka 1.15.79
-
Ṛk 2
अ॒स्य श्रवो॑ न॒द्यः॑ स॒प्त बि॑भ्रति॒ द्यावा॒क्षामा॑ पृथि॒वी द॑र्श॒तं वपुः॑ ।
अ॒स्मे सू॑र्याचंद्र॒मसा॑भि॒चक्षे॑ श्र॒द्धे कमिं॑द्र चरतो वितर्तु॒रं ॥अस्य श्रवो नद्यः सप्त बिभ्रति द्यावाक्षामा पृथिवी दर्शतं वपुः |
अस्मे सूर्याचन्द्रमसाभिचक्षे श्रद्धे कम् इन्द्र चरतो वितर्तुरम् ||asyá śrávo nadyáḥ saptá bibhrati dyā́vākṣā́mā pṛthivī́ darśatám vápuḥ ǀ
asmé sūryācandramásābhicákṣe śraddhé kámindra carato vitarturám ǁasya śravo nadyaḥ sapta bibhrati dyāvākṣāmā pṛthivī darśataṃ vapuḥ |
asme sūryācandramasābhicakṣe śraddhe kam indra carato vitarturam ||अ॒स्य । श्रवः॑ । न॒द्यः॑ । स॒प्त । बि॒भ्र॒ति॒ । द्यावा॒क्षामा॑ । पृ॒थि॒वी । द॒र्श॒तम् । वपुः॑ ।
अ॒स्मे इति॑ । सू॒र्या॒च॒न्द्र॒मसा॑ । अ॒भि॒ऽचक्षे॑ । श्र॒द्धे । कम् । इ॒न्द्र॒ । च॒र॒तः॒ । वि॒ऽत॒र्तु॒रम् ॥अस्य । श्रवः । नद्यः । सप्त । बिभ्रति । द्यावाक्षामा । पृथिवी । दर्शतम् । वपुः ।
अस्मे इति । सूर्याचन्द्रमसा । अभिऽचक्षे । श्रद्धे । कम् । इन्द्र । चरतः । विऽतर्तुरम् ॥asyá ǀ śrávaḥ ǀ nadyáḥ ǀ saptá ǀ bibhrati ǀ dyā́vākṣā́mā ǀ pṛthivī́ ǀ darśatám ǀ vápuḥ ǀ
asmé íti ǀ sūryācandramásā ǀ abhi-cákṣe ǀ śraddhé ǀ kám ǀ indra ǀ carataḥ ǀ vi-tarturám ǁasya ǀ śravaḥ ǀ nadyaḥ ǀ sapta ǀ bibhrati ǀ dyāvākṣāmā ǀ pṛthivī ǀ darśatam ǀ vapuḥ ǀ
asme iti ǀ sūryācandramasā ǀ abhi-cakṣe ǀ śraddhe ǀ kam ǀ indra ǀ carataḥ ǀ vi-tarturam ǁ1.102.2 Aṣṭaka 1.7.14.2Anuvāka 1.15.80
-
Ṛk 3
तं स्मा॒ रथं॑ मघव॒न्प्राव॑ सा॒तये॒ जैत्रं॒ यं ते॑ अनु॒मदा॑म संग॒मे ।
आ॒जा न॑ इंद्र॒ मन॑सा पुरुष्टुत त्वा॒यद्भ्यो॑ मघवं॒छर्म॑ यच्छ नः ॥तं स्मा रथम् मघवन् प्राव सातये जैत्रं यं ते अनुमदाम संगमे |
आजा न इन्द्र मनसा पुरुष्टुत त्वायद्भ्यो मघवञ् छर्म यच्छ नः ||tám smā rátham maghavanprā́va sātáye jáitram yám te anumádāma saṃgamé ǀ
ājā́ na indra mánasā puruṣṭuta tvāyádbhyo maghavañchárma yaccha naḥ ǁtaṃ smā ratham maghavan prāva sātaye jaitraṃ yaṃ te anumadāma saṃgame |
ājā na indra manasā puruṣṭuta tvāyadbhyo maghavañ charma yaccha naḥ ||तम् । स्म॒ । रथ॑म् । म॒घ॒ऽव॒न् । प्र । अ॒व॒ । सा॒तये॑ । जैत्र॑म् । यम् । ते॒ । अ॒नु॒ऽमदा॑म । स॒म्ऽग॒मे ।
आ॒जा । नः॒ । इ॒न्द्र॒ । मन॑सा । पु॒रु॒ऽस्तु॒त॒ । त्वा॒यत्ऽभ्यः॑ । म॒घ॒ऽव॒न् । शर्म॑ । य॒च्छ॒ । नः॒ ॥तम् । स्म । रथम् । मघऽवन् । प्र । अव । सातये । जैत्रम् । यम् । ते । अनुऽमदाम । सम्ऽगमे ।
आजा । नः । इन्द्र । मनसा । पुरुऽस्तुत । त्वायत्ऽभ्यः । मघऽवन् । शर्म । यच्छ । नः ॥tám ǀ sma ǀ rátham ǀ magha-van ǀ prá ǀ ava ǀ sātáye ǀ jáitram ǀ yám ǀ te ǀ anu-mádāma ǀ sam-gamé ǀ
ājā́ ǀ naḥ ǀ indra ǀ mánasā ǀ puru-stuta ǀ tvāyát-bhyaḥ ǀ magha-van ǀ śárma ǀ yaccha ǀ naḥ ǁtam ǀ sma ǀ ratham ǀ magha-van ǀ pra ǀ ava ǀ sātaye ǀ jaitram ǀ yam ǀ te ǀ anu-madāma ǀ sam-game ǀ
ājā ǀ naḥ ǀ indra ǀ manasā ǀ puru-stuta ǀ tvāyat-bhyaḥ ǀ magha-van ǀ śarma ǀ yaccha ǀ naḥ ǁ1.102.3 Aṣṭaka 1.7.14.3Anuvāka 1.15.81
-
Ṛk 4
व॒यं ज॑येम॒ त्वया॑ यु॒जा वृत॑म॒स्माक॒मंश॒मुद॑वा॒ भरे॑भरे ।
अ॒स्मभ्य॑मिंद्र॒ वरि॑वः सु॒गं कृ॑धि॒ प्र शत्रू॑णां मघव॒न्वृष्ण्या॑ रुज ॥वयं जयेम त्वया युजा वृतम् अस्माकम् अंशम् उद् अवा भरे-भरे |
अस्मभ्यम् इन्द्र वरिवः सुगं कृधि प्र शत्रूणाम् मघवन् वृष्ण्या रुज ||vayám jayema tváyā yujā́ vṛ́tamasmā́kamáṃśamúdavā bhárebhare ǀ
asmábhyamindra várivaḥ sugám kṛdhi prá śátrūṇām maghavanvṛ́ṣṇyā ruja ǁvayaṃ jayema tvayā yujā vṛtam asmākam aṃśam ud avā bhare-bhare |
asmabhyam indra varivaḥ sugaṃ kṛdhi pra śatrūṇām maghavan vṛṣṇyā ruja ||व॒यम् । ज॒ये॒म॒ । त्वया॑ । यु॒जा । वृत॑म् । अ॒स्माक॑म् । अंश॑म् । उत् । अ॒व॒ । भरे॑ऽभरे ।
अ॒स्मभ्य॑म् । इ॒न्द्र॒ । वरि॑वः । सु॒ऽगम् । कृ॒धि॒ । प्र । शत्रू॑णाम् । म॒घ॒ऽव॒न् । वृष्ण्या॑ । रु॒ज॒ ॥वयम् । जयेम । त्वया । युजा । वृतम् । अस्माकम् । अंशम् । उत् । अव । भरेऽभरे ।
अस्मभ्यम् । इन्द्र । वरिवः । सुऽगम् । कृधि । प्र । शत्रूणाम् । मघऽवन् । वृष्ण्या । रुज ॥vayám ǀ jayema ǀ tváyā ǀ yujā́ ǀ vṛ́tam ǀ asmā́kam ǀ áṃśam ǀ út ǀ ava ǀ bháre-bhare ǀ
asmábhyam ǀ indra ǀ várivaḥ ǀ su-gám ǀ kṛdhi ǀ prá ǀ śátrūṇām ǀ magha-van ǀ vṛ́ṣṇyā ǀ ruja ǁvayam ǀ jayema ǀ tvayā ǀ yujā ǀ vṛtam ǀ asmākam ǀ aṃśam ǀ ut ǀ ava ǀ bhare-bhare ǀ
asmabhyam ǀ indra ǀ varivaḥ ǀ su-gam ǀ kṛdhi ǀ pra ǀ śatrūṇām ǀ magha-van ǀ vṛṣṇyā ǀ ruja ǁ1.102.4 Aṣṭaka 1.7.14.4Anuvāka 1.15.82
-
Ṛk 5
नाना॒ हि त्वा॒ हव॑माना॒ जना॑ इ॒मे धना॑नां धर्त॒रव॑सा विप॒न्यवः॑ ।
अ॒स्माकं॑ स्मा॒ रथ॒मा ति॑ष्ठ सा॒तये॒ जैत्रं॒ हीं॑द्र॒ निभृ॑तं॒ मन॒स्तव॑ ॥नाना हि त्वा हवमाना जना इमे धनानां धर्तर् अवसा विपन्यवः |
अस्माकं स्मा रथम् आ तिष्ठ सातये जैत्रं हीन्द्र निभृतम् मनस् तव ||nā́nā hí tvā hávamānā jánā imé dhánānām dhartarávasā vipanyávaḥ ǀ
asmā́kam smā ráthamā́ tiṣṭha sātáye jáitram hī́ndra níbhṛtam mánastáva ǁnānā hi tvā havamānā janā ime dhanānāṃ dhartar avasā vipanyavaḥ |
asmākaṃ smā ratham ā tiṣṭha sātaye jaitraṃ hīndra nibhṛtam manas tava ||नाना॑ । हि । त्वा॒ । हव॑मानाः । जनाः॑ । इ॒मे । धना॑नाम् । ध॒र्तः॒ । अव॑सा । वि॒प॒न्यवः॑ ।
अ॒स्माक॑म् । स्म॒ । रथ॑म् । आ । ति॒ष्ठ॒ । सा॒तये॑ । जैत्र॑म् । हि । इ॒न्द्र॒ । निऽभृ॑तम् । मनः॑ । तव॑ ॥नाना । हि । त्वा । हवमानाः । जनाः । इमे । धनानाम् । धर्तः । अवसा । विपन्यवः ।
अस्माकम् । स्म । रथम् । आ । तिष्ठ । सातये । जैत्रम् । हि । इन्द्र । निऽभृतम् । मनः । तव ॥nā́nā ǀ hí ǀ tvā ǀ hávamānāḥ ǀ jánāḥ ǀ imé ǀ dhánānām ǀ dhartaḥ ǀ ávasā ǀ vipanyávaḥ ǀ
asmā́kam ǀ sma ǀ rátham ǀ ā́ ǀ tiṣṭha ǀ sātáye ǀ jáitram ǀ hí ǀ indra ǀ ní-bhṛtam ǀ mánaḥ ǀ táva ǁnānā ǀ hi ǀ tvā ǀ havamānāḥ ǀ janāḥ ǀ ime ǀ dhanānām ǀ dhartaḥ ǀ avasā ǀ vipanyavaḥ ǀ
asmākam ǀ sma ǀ ratham ǀ ā ǀ tiṣṭha ǀ sātaye ǀ jaitram ǀ hi ǀ indra ǀ ni-bhṛtam ǀ manaḥ ǀ tava ǁ1.102.5 Aṣṭaka 1.7.14.5Anuvāka 1.15.83
-
Ṛk 6
गो॒जिता॑ बा॒हू अमि॑तक्रतुः सि॒मः कर्म॑न्कर्मंछ॒तमू॑तिः खजंक॒रः ।
अ॒क॒ल्प इंद्रः॑ प्रति॒मान॒मोज॒साथा॒ जना॒ वि ह्व॑यंते सिषा॒सवः॑ ॥गोजिता बाहू अमितक्रतुः सिमः कर्मन्-कर्मञ् छतमूतिः खजङ्करः |
अकल्प इन्द्रः प्रतिमानम् ओजसाथा जना वि ह्वयन्ते सिषासवः ||gojítā bāhū́ ámitakratuḥ simáḥ kármankarmañchatámūtiḥ khajaṃkaráḥ ǀ
akalpá índraḥ pratimā́namójasā́thā jánā ví hvayante siṣāsávaḥ ǁgojitā bāhū amitakratuḥ simaḥ karman-karmañ chatamūtiḥ khajaṅkaraḥ |
akalpa indraḥ pratimānam ojasāthā janā vi hvayante siṣāsavaḥ ||गो॒ऽजिता॑ । बा॒हू इति॑ । अमि॑तऽक्रतुः । सि॒मः । कर्म॑न्ऽकर्मन् । श॒तम्ऽऊ॑तिः । ख॒ज॒म्ऽक॒रः ।
अ॒क॒ल्पः । इन्द्रः॑ । प्र॒ति॒ऽमान॑म् । ओज॑सा । अथ॑ । जनाः॑ । वि । ह्व॒य॒न्ते॒ । सि॒सा॒सवः॑ ॥गोऽजिता । बाहू इति । अमितऽक्रतुः । सिमः । कर्मन्ऽकर्मन् । शतम्ऽऊतिः । खजम्ऽकरः ।
अकल्पः । इन्द्रः । प्रतिऽमानम् । ओजसा । अथ । जनाः । वि । ह्वयन्ते । सिसासवः ॥go-jítā ǀ bāhū́ íti ǀ ámita-kratuḥ ǀ simáḥ ǀ kárman-karman ǀ śatám-ūtiḥ ǀ khajam-karáḥ ǀ
akalpáḥ ǀ índraḥ ǀ prati-mā́nam ǀ ójasā ǀ átha ǀ jánāḥ ǀ ví ǀ hvayante ǀ sisāsávaḥ ǁgo-jitā ǀ bāhū iti ǀ amita-kratuḥ ǀ simaḥ ǀ karman-karman ǀ śatam-ūtiḥ ǀ khajam-karaḥ ǀ
akalpaḥ ǀ indraḥ ǀ prati-mānam ǀ ojasā ǀ atha ǀ janāḥ ǀ vi ǀ hvayante ǀ sisāsavaḥ ǁ1.102.6 Aṣṭaka 1.7.15.1Anuvāka 1.15.84
-
Ṛk 7
उत्ते॑ श॒तान्म॑घव॒न्नुच्च॒ भूय॑स॒ उत्स॒हस्रा॑द्रिरिचे कृ॒ष्टिषु॒ श्रवः॑ ।
अ॒मा॒त्रं त्वा॑ धि॒षणा॑ तित्विषे म॒ह्यधा॑ वृ॒त्राणि॑ जिघ्नसे पुरंदर ॥उत् ते शतान् मघवन्न् उच् च भूयस उत् सहस्राद् रिरिचे कृष्टिषु श्रवः |
अमात्रं त्वा धिषणा तित्विषे मह्य् अधा वृत्राणि जिघ्नसे पुरन्दर ||útte śatā́nmaghavannúcca bhū́yasa útsahásrādririce kṛṣṭíṣu śrávaḥ ǀ
amātrám tvā dhiṣáṇā titviṣe mahyádhā vṛtrā́ṇi jighnase puraṃdara ǁut te śatān maghavann uc ca bhūyasa ut sahasrād ririce kṛṣṭiṣu śravaḥ |
amātraṃ tvā dhiṣaṇā titviṣe mahy adhā vṛtrāṇi jighnase purandara ||उत् । ते॒ । श॒तात् । म॒घ॒ऽव॒न् । उत् । च॒ । भूय॑सः । उत् । स॒हस्रा॑त् । रि॒रि॒चे॒ । कृ॒ष्टिषु॑ । श्रवः॑ ।
अ॒मा॒त्रम् । त्वा॒ । धि॒षणा॑ । ति॒त्वि॒षे॒ । म॒ही । अध॑ । वृ॒त्राणि॑ । जि॒घ्न॒से॒ । पु॒र॒म्ऽद॒र॒ ॥उत् । ते । शतात् । मघऽवन् । उत् । च । भूयसः । उत् । सहस्रात् । रिरिचे । कृष्टिषु । श्रवः ।
अमात्रम् । त्वा । धिषणा । तित्विषे । मही । अध । वृत्राणि । जिघ्नसे । पुरम्ऽदर ॥út ǀ te ǀ śatā́t ǀ magha-van ǀ út ǀ ca ǀ bhū́yasaḥ ǀ út ǀ sahásrāt ǀ ririce ǀ kṛṣṭíṣu ǀ śrávaḥ ǀ
amātrám ǀ tvā ǀ dhiṣáṇā ǀ titviṣe ǀ mahī́ ǀ ádha ǀ vṛtrā́ṇi ǀ jighnase ǀ puram-dara ǁut ǀ te ǀ śatāt ǀ magha-van ǀ ut ǀ ca ǀ bhūyasaḥ ǀ ut ǀ sahasrāt ǀ ririce ǀ kṛṣṭiṣu ǀ śravaḥ ǀ
amātram ǀ tvā ǀ dhiṣaṇā ǀ titviṣe ǀ mahī ǀ adha ǀ vṛtrāṇi ǀ jighnase ǀ puram-dara ǁ1.102.7 Aṣṭaka 1.7.15.2Anuvāka 1.15.85
-
Ṛk 8
त्रि॒वि॒ष्टि॒धातु॑ प्रति॒मान॒मोज॑सस्ति॒स्रो भूमी॑र्नृपते॒ त्रीणि॑ रोच॒ना ।
अती॒दं विश्वं॒ भुव॑नं ववक्षिथाश॒त्रुरिं॑द्र ज॒नुषा॑ स॒नाद॑सि ॥त्रिविष्टिधातु प्रतिमानम् ओजसस् तिस्रो भूमीर् नृपते त्रीणि रोचना |
अतीदं विश्वम् भुवनं ववक्षिथाशत्रुर् इन्द्र जनुषा सनाद् असि ||triviṣṭidhā́tu pratimā́namójasastisró bhū́mīrnṛpate trī́ṇi rocanā́ ǀ
átīdám víśvam bhúvanam vavakṣithāśatrúrindra janúṣā sanā́dasi ǁtriviṣṭidhātu pratimānam ojasas tisro bhūmīr nṛpate trīṇi rocanā |
atīdaṃ viśvam bhuvanaṃ vavakṣithāśatrur indra januṣā sanād asi ||त्रि॒वि॒ष्टि॒ऽधातु॑ । प्र॒ति॒ऽमान॑म् । ओज॑सः । ति॒स्रः । भूमीः॑ । नृ॒ऽप॒ते॒ । त्रीणि॑ । रो॒च॒ना ।
अति॑ । इ॒दम् । विश्व॑म् । भुव॑नम् । व॒व॒क्षि॒थ॒ । अ॒श॒त्रुः । इ॒न्द्र॒ । ज॒नुषा॑ । स॒नात् । अ॒सि॒ ॥त्रिविष्टिऽधातु । प्रतिऽमानम् । ओजसः । तिस्रः । भूमीः । नृऽपते । त्रीणि । रोचना ।
अति । इदम् । विश्वम् । भुवनम् । ववक्षिथ । अशत्रुः । इन्द्र । जनुषा । सनात् । असि ॥triviṣṭi-dhā́tu ǀ prati-mā́nam ǀ ójasaḥ ǀ tisráḥ ǀ bhū́mīḥ ǀ nṛ-pate ǀ trī́ṇi ǀ rocanā́ ǀ
áti ǀ idám ǀ víśvam ǀ bhúvanam ǀ vavakṣitha ǀ aśatrúḥ ǀ indra ǀ janúṣā ǀ sanā́t ǀ asi ǁtriviṣṭi-dhātu ǀ prati-mānam ǀ ojasaḥ ǀ tisraḥ ǀ bhūmīḥ ǀ nṛ-pate ǀ trīṇi ǀ rocanā ǀ
ati ǀ idam ǀ viśvam ǀ bhuvanam ǀ vavakṣitha ǀ aśatruḥ ǀ indra ǀ januṣā ǀ sanāt ǀ asi ǁ1.102.8 Aṣṭaka 1.7.15.3Anuvāka 1.15.86
-
Ṛk 9
त्वां दे॒वेषु॑ प्रथ॒मं ह॑वामहे॒ त्वं ब॑भूथ॒ पृत॑नासु सास॒हिः ।
सेमं नः॑ का॒रुमु॑पम॒न्युमु॒द्भिद॒मिंद्रः॑ कृणोतु प्रस॒वे रथं॑ पु॒रः ॥त्वां देवेषु प्रथमं हवामहे त्वम् बभूथ पृतनासु सासहिः |
सेमं नः कारुम् उपमन्युम् उद्भिदम् इन्द्रः कृणोतु प्रसवे रथम् पुरः ||tvā́m devéṣu prathamám havāmahe tvám babhūtha pṛ́tanāsu sāsahíḥ ǀ
sémám naḥ kārúmupamanyúmudbhídamíndraḥ kṛṇotu prasavé rátham puráḥ ǁtvāṃ deveṣu prathamaṃ havāmahe tvam babhūtha pṛtanāsu sāsahiḥ |
semaṃ naḥ kārum upamanyum udbhidam indraḥ kṛṇotu prasave ratham puraḥ ||त्वाम् । दे॒वेषु॑ । प्र॒थ॒मम् । ह॒वा॒म॒हे॒ । त्वम् । ब॒भू॒थ॒ । पृत॑नासु । स॒स॒हिः ।
सः । इ॒मम् । नः॒ । का॒रुम् । उ॒प॒ऽम॒न्युम् । उ॒त्ऽभिद॑म् । इन्द्रः॑ । कृ॒णो॒तु॒ । प्र॒ऽस॒वे । रथ॑म् । पु॒रः ॥त्वाम् । देवेषु । प्रथमम् । हवामहे । त्वम् । बभूथ । पृतनासु । ससहिः ।
सः । इमम् । नः । कारुम् । उपऽमन्युम् । उत्ऽभिदम् । इन्द्रः । कृणोतु । प्रऽसवे । रथम् । पुरः ॥tvā́m ǀ devéṣu ǀ prathamám ǀ havāmahe ǀ tvám ǀ babhūtha ǀ pṛ́tanāsu ǀ sasahíḥ ǀ
sáḥ ǀ imám ǀ naḥ ǀ kārúm ǀ upa-manyúm ǀ ut-bhídam ǀ índraḥ ǀ kṛṇotu ǀ pra-savé ǀ rátham ǀ puráḥ ǁtvām ǀ deveṣu ǀ prathamam ǀ havāmahe ǀ tvam ǀ babhūtha ǀ pṛtanāsu ǀ sasahiḥ ǀ
saḥ ǀ imam ǀ naḥ ǀ kārum ǀ upa-manyum ǀ ut-bhidam ǀ indraḥ ǀ kṛṇotu ǀ pra-save ǀ ratham ǀ puraḥ ǁ1.102.9 Aṣṭaka 1.7.15.4Anuvāka 1.15.87
-
Ṛk 10
त्वं जि॑गेथ॒ न धना॑ रुरोधि॒थार्भे॑ष्वा॒जा म॑घवन्म॒हत्सु॑ च ।
त्वामु॒ग्रमव॑से॒ सं शि॑शीम॒स्यथा॑ न इंद्र॒ हव॑नेषु चोदय ॥त्वं जिगेथ न धना रुरोधिथार्भेष्व् आजा मघवन् महत्सु च |
त्वाम् उग्रम् अवसे सं शिशीमस्य् अथा न इन्द्र हवनेषु चोदय ||tvám jigetha ná dhánā rurodhithā́rbheṣvājā́ maghavanmahátsu ca ǀ
tvā́mugrámávase sám śiśīmasyáthā na indra hávaneṣu codaya ǁtvaṃ jigetha na dhanā rurodhithārbheṣv ājā maghavan mahatsu ca |
tvām ugram avase saṃ śiśīmasy athā na indra havaneṣu codaya ||त्वम् । जि॒गे॒थ॒ । न । धना॑ । रु॒रो॒धि॒थ॒ । अर्भे॑षु । आ॒जा । म॒घ॒ऽव॒न् । म॒हत्ऽसु॑ । च॒ ।
त्वाम् । उ॒ग्रम् । अव॑से । सम् । शि॒शी॒म॒सि॒ । अथ॑ । नः॒ । इ॒न्द्र॒ । हव॑नेषु । चो॒द॒य॒ ॥त्वम् । जिगेथ । न । धना । रुरोधिथ । अर्भेषु । आजा । मघऽवन् । महत्ऽसु । च ।
त्वाम् । उग्रम् । अवसे । सम् । शिशीमसि । अथ । नः । इन्द्र । हवनेषु । चोदय ॥tvám ǀ jigetha ǀ ná ǀ dhánā ǀ rurodhitha ǀ árbheṣu ǀ ājā́ ǀ magha-van ǀ mahát-su ǀ ca ǀ
tvā́m ǀ ugrám ǀ ávase ǀ sám ǀ śiśīmasi ǀ átha ǀ naḥ ǀ indra ǀ hávaneṣu ǀ codaya ǁtvam ǀ jigetha ǀ na ǀ dhanā ǀ rurodhitha ǀ arbheṣu ǀ ājā ǀ magha-van ǀ mahat-su ǀ ca ǀ
tvām ǀ ugram ǀ avase ǀ sam ǀ śiśīmasi ǀ atha ǀ naḥ ǀ indra ǀ havaneṣu ǀ codaya ǁ1.102.10 Aṣṭaka 1.7.15.5Anuvāka 1.15.88
-
Ṛk 11
वि॒श्वाहेंद्रो॑ अधिव॒क्ता नो॑ अ॒स्त्वप॑रिह्वृताः सनुयाम॒ वाजं॑ ।
तन्नो॑ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी उ॒त द्यौः ॥विश्वाहेन्द्रो अधिवक्ता नो अस्त्व् अपरिह्वृताः सनुयाम वाजम् |
तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ||viśvā́héndro adhivaktā́ no astváparihvṛtāḥ sanuyāma vā́jam ǀ
tánno mitró váruṇo māmahantāmáditiḥ síndhuḥ pṛthivī́ utá dyáuḥ ǁviśvāhendro adhivaktā no astv aparihvṛtāḥ sanuyāma vājam |
tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||वि॒श्वाहा॑ । इन्द्रः॑ । अ॒धि॒ऽव॒क्ता । नः॒ । अ॒स्तु॒ । अप॑रिऽह्वृताः । स॒नु॒या॒म॒ । वाज॑म् ।
तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥विश्वाहा । इन्द्रः । अधिऽवक्ता । नः । अस्तु । अपरिऽह्वृताः । सनुयाम । वाजम् ।
तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥viśvā́hā ǀ índraḥ ǀ adhi-vaktā́ ǀ naḥ ǀ astu ǀ ápari-hvṛtāḥ ǀ sanuyāma ǀ vā́jam ǀ
tát ǀ naḥ ǀ mitráḥ ǀ váruṇaḥ ǀ mamahantām ǀ áditiḥ ǀ síndhuḥ ǀ pṛthivī́ ǀ utá ǀ dyáuḥ ǁviśvāhā ǀ indraḥ ǀ adhi-vaktā ǀ naḥ ǀ astu ǀ apari-hvṛtāḥ ǀ sanuyāma ǀ vājam ǀ
tat ǀ naḥ ǀ mitraḥ ǀ varuṇaḥ ǀ mamahantām ǀ aditiḥ ǀ sindhuḥ ǀ pṛthivī ǀ uta ǀ dyauḥ ǁ1.102.11 Aṣṭaka 1.7.15.6Anuvāka 1.15.89
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.