Ṛgveda · Maṇḍala 1 · Sūkta 102
Ṛk 1.102.2
Saṃhitā
अ॒स्य श्रवो॑ न॒द्यः॑ स॒प्त बि॑भ्रति॒ द्यावा॒क्षामा॑ पृथि॒वी द॑र्श॒तं वपुः॑ ।
अ॒स्मे सू॑र्याचंद्र॒मसा॑भि॒चक्षे॑ श्र॒द्धे कमिं॑द्र चरतो वितर्तु॒रं ॥
अस्य श्रवो नद्यः सप्त बिभ्रति द्यावाक्षामा पृथिवी दर्शतं वपुः |
अस्मे सूर्याचन्द्रमसाभिचक्षे श्रद्धे कम् इन्द्र चरतो वितर्तुरम् ||
asyá śrávo nadyáḥ saptá bibhrati dyā́vākṣā́mā pṛthivī́ darśatám vápuḥ ǀ
asmé sūryācandramásābhicákṣe śraddhé kámindra carato vitarturám ǁ
asya śravo nadyaḥ sapta bibhrati dyāvākṣāmā pṛthivī darśataṃ vapuḥ |
asme sūryācandramasābhicakṣe śraddhe kam indra carato vitarturam ||
Padapāṭha
अ॒स्य । श्रवः॑ । न॒द्यः॑ । स॒प्त । बि॒भ्र॒ति॒ । द्यावा॒क्षामा॑ । पृ॒थि॒वी । द॒र्श॒तम् । वपुः॑ ।
अ॒स्मे इति॑ । सू॒र्या॒च॒न्द्र॒मसा॑ । अ॒भि॒ऽचक्षे॑ । श्र॒द्धे । कम् । इ॒न्द्र॒ । च॒र॒तः॒ । वि॒ऽत॒र्तु॒रम् ॥
अस्य । श्रवः । नद्यः । सप्त । बिभ्रति । द्यावाक्षामा । पृथिवी । दर्शतम् । वपुः ।
अस्मे इति । सूर्याचन्द्रमसा । अभिऽचक्षे । श्रद्धे । कम् । इन्द्र । चरतः । विऽतर्तुरम् ॥
asyá ǀ śrávaḥ ǀ nadyáḥ ǀ saptá ǀ bibhrati ǀ dyā́vākṣā́mā ǀ pṛthivī́ ǀ darśatám ǀ vápuḥ ǀ
asmé íti ǀ sūryācandramásā ǀ abhi-cákṣe ǀ śraddhé ǀ kám ǀ indra ǀ carataḥ ǀ vi-tarturám ǁ
asya ǀ śravaḥ ǀ nadyaḥ ǀ sapta ǀ bibhrati ǀ dyāvākṣāmā ǀ pṛthivī ǀ darśatam ǀ vapuḥ ǀ
asme iti ǀ sūryācandramasā ǀ abhi-cakṣe ǀ śraddhe ǀ kam ǀ indra ǀ carataḥ ǀ vi-tarturam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.102.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.7.14.02
- Maṇḍala · Anuvāka · Ṛk
- 1.15.080
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.