Ṛgveda · Maṇḍala 1 · Sūkta 102
Ṛk 1.102.6
Saṃhitā
गो॒जिता॑ बा॒हू अमि॑तक्रतुः सि॒मः कर्म॑न्कर्मंछ॒तमू॑तिः खजंक॒रः ।
अ॒क॒ल्प इंद्रः॑ प्रति॒मान॒मोज॒साथा॒ जना॒ वि ह्व॑यंते सिषा॒सवः॑ ॥
गोजिता बाहू अमितक्रतुः सिमः कर्मन्-कर्मञ् छतमूतिः खजङ्करः |
अकल्प इन्द्रः प्रतिमानम् ओजसाथा जना वि ह्वयन्ते सिषासवः ||
gojítā bāhū́ ámitakratuḥ simáḥ kármankarmañchatámūtiḥ khajaṃkaráḥ ǀ
akalpá índraḥ pratimā́namójasā́thā jánā ví hvayante siṣāsávaḥ ǁ
gojitā bāhū amitakratuḥ simaḥ karman-karmañ chatamūtiḥ khajaṅkaraḥ |
akalpa indraḥ pratimānam ojasāthā janā vi hvayante siṣāsavaḥ ||
Padapāṭha
गो॒ऽजिता॑ । बा॒हू इति॑ । अमि॑तऽक्रतुः । सि॒मः । कर्म॑न्ऽकर्मन् । श॒तम्ऽऊ॑तिः । ख॒ज॒म्ऽक॒रः ।
अ॒क॒ल्पः । इन्द्रः॑ । प्र॒ति॒ऽमान॑म् । ओज॑सा । अथ॑ । जनाः॑ । वि । ह्व॒य॒न्ते॒ । सि॒सा॒सवः॑ ॥
गोऽजिता । बाहू इति । अमितऽक्रतुः । सिमः । कर्मन्ऽकर्मन् । शतम्ऽऊतिः । खजम्ऽकरः ।
अकल्पः । इन्द्रः । प्रतिऽमानम् । ओजसा । अथ । जनाः । वि । ह्वयन्ते । सिसासवः ॥
go-jítā ǀ bāhū́ íti ǀ ámita-kratuḥ ǀ simáḥ ǀ kárman-karman ǀ śatám-ūtiḥ ǀ khajam-karáḥ ǀ
akalpáḥ ǀ índraḥ ǀ prati-mā́nam ǀ ójasā ǀ átha ǀ jánāḥ ǀ ví ǀ hvayante ǀ sisāsávaḥ ǁ
go-jitā ǀ bāhū iti ǀ amita-kratuḥ ǀ simaḥ ǀ karman-karman ǀ śatam-ūtiḥ ǀ khajam-karaḥ ǀ
akalpaḥ ǀ indraḥ ǀ prati-mānam ǀ ojasā ǀ atha ǀ janāḥ ǀ vi ǀ hvayante ǀ sisāsavaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.102.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.7.15.01
- Maṇḍala · Anuvāka · Ṛk
- 1.15.084
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.