Ṛgveda · Maṇḍala 1 · Sūkta 102
Ṛk 1.102.1
Saṃhitā
इ॒मां ते॒ धियं॒ प्र भ॑रे म॒हो म॒हीम॒स्य स्तो॒त्रे धि॒षणा॒ यत्त॑ आन॒जे ।
तमु॑त्स॒वे च॑ प्रस॒वे च॑ सास॒हिमिंद्रं॑ दे॒वासः॒ शव॑सामद॒न्ननु॑ ॥
इमां ते धियम् प्र भरे महो महीम् अस्य स्तोत्रे धिषणा यत् त आनजे |
तम् उत्सवे च प्रसवे च सासहिम् इन्द्रं देवासः शवसामदन्न् अनु ||
imā́m te dhíyam prá bhare mahó mahī́masyá stotré dhiṣáṇā yátta ānajé ǀ
támutsavé ca prasavé ca sāsahímíndram devā́saḥ śávasāmadannánu ǁ
imāṃ te dhiyam pra bhare maho mahīm asya stotre dhiṣaṇā yat ta ānaje |
tam utsave ca prasave ca sāsahim indraṃ devāsaḥ śavasāmadann anu ||
Padapāṭha
इ॒माम् । ते॒ । धिय॑म् । प्र । भ॒रे॒ । म॒हः । म॒हीम् । अ॒स्य । स्तो॒त्रे । धि॒षणा॑ । यत् । ते॒ । आ॒न॒जे ।
तम् । उ॒त्ऽस॒वे । च॒ । प्र॒ऽस॒वे । च॒ । स॒स॒हिम् । इन्द्र॑म् । दे॒वासः॑ । शव॑सा । अ॒म॒द॒न् । अनु॑ ॥
इमाम् । ते । धियम् । प्र । भरे । महः । महीम् । अस्य । स्तोत्रे । धिषणा । यत् । ते । आनजे ।
तम् । उत्ऽसवे । च । प्रऽसवे । च । ससहिम् । इन्द्रम् । देवासः । शवसा । अमदन् । अनु ॥
imā́m ǀ te ǀ dhíyam ǀ prá ǀ bhare ǀ maháḥ ǀ mahī́m ǀ asyá ǀ stotré ǀ dhiṣáṇā ǀ yát ǀ te ǀ ānajé ǀ
tám ǀ ut-savé ǀ ca ǀ pra-savé ǀ ca ǀ sasahím ǀ índram ǀ devā́saḥ ǀ śávasā ǀ amadan ǀ ánu ǁ
imām ǀ te ǀ dhiyam ǀ pra ǀ bhare ǀ mahaḥ ǀ mahīm ǀ asya ǀ stotre ǀ dhiṣaṇā ǀ yat ǀ te ǀ ānaje ǀ
tam ǀ ut-save ǀ ca ǀ pra-save ǀ ca ǀ sasahim ǀ indram ǀ devāsaḥ ǀ śavasā ǀ amadan ǀ anu ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.102.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.7.14.01
- Maṇḍala · Anuvāka · Ṛk
- 1.15.079
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.