Ṛgveda · Maṇḍala 1 · Sūkta 102
Ṛk 1.102.9
Saṃhitā
त्वां दे॒वेषु॑ प्रथ॒मं ह॑वामहे॒ त्वं ब॑भूथ॒ पृत॑नासु सास॒हिः ।
सेमं नः॑ का॒रुमु॑पम॒न्युमु॒द्भिद॒मिंद्रः॑ कृणोतु प्रस॒वे रथं॑ पु॒रः ॥
त्वां देवेषु प्रथमं हवामहे त्वम् बभूथ पृतनासु सासहिः |
सेमं नः कारुम् उपमन्युम् उद्भिदम् इन्द्रः कृणोतु प्रसवे रथम् पुरः ||
tvā́m devéṣu prathamám havāmahe tvám babhūtha pṛ́tanāsu sāsahíḥ ǀ
sémám naḥ kārúmupamanyúmudbhídamíndraḥ kṛṇotu prasavé rátham puráḥ ǁ
tvāṃ deveṣu prathamaṃ havāmahe tvam babhūtha pṛtanāsu sāsahiḥ |
semaṃ naḥ kārum upamanyum udbhidam indraḥ kṛṇotu prasave ratham puraḥ ||
Padapāṭha
त्वाम् । दे॒वेषु॑ । प्र॒थ॒मम् । ह॒वा॒म॒हे॒ । त्वम् । ब॒भू॒थ॒ । पृत॑नासु । स॒स॒हिः ।
सः । इ॒मम् । नः॒ । का॒रुम् । उ॒प॒ऽम॒न्युम् । उ॒त्ऽभिद॑म् । इन्द्रः॑ । कृ॒णो॒तु॒ । प्र॒ऽस॒वे । रथ॑म् । पु॒रः ॥
त्वाम् । देवेषु । प्रथमम् । हवामहे । त्वम् । बभूथ । पृतनासु । ससहिः ।
सः । इमम् । नः । कारुम् । उपऽमन्युम् । उत्ऽभिदम् । इन्द्रः । कृणोतु । प्रऽसवे । रथम् । पुरः ॥
tvā́m ǀ devéṣu ǀ prathamám ǀ havāmahe ǀ tvám ǀ babhūtha ǀ pṛ́tanāsu ǀ sasahíḥ ǀ
sáḥ ǀ imám ǀ naḥ ǀ kārúm ǀ upa-manyúm ǀ ut-bhídam ǀ índraḥ ǀ kṛṇotu ǀ pra-savé ǀ rátham ǀ puráḥ ǁ
tvām ǀ deveṣu ǀ prathamam ǀ havāmahe ǀ tvam ǀ babhūtha ǀ pṛtanāsu ǀ sasahiḥ ǀ
saḥ ǀ imam ǀ naḥ ǀ kārum ǀ upa-manyum ǀ ut-bhidam ǀ indraḥ ǀ kṛṇotu ǀ pra-save ǀ ratham ǀ puraḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.102.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.7.15.04
- Maṇḍala · Anuvāka · Ṛk
- 1.15.087
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.