Ṛgveda · Maṇḍala 1

Sūkta 167

Indra · Maruts · Agastya Maitrāvaruṇi · 11 ṛks

Link
Devatā देवता
1: Indra; 2-11: Maruts
Ṛṣi ऋषि
Agastya Maitrāvaruṇi
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles nicṛttriṣṭup (2, 3, 6, 8); bhurikpaṅkti (1, 4, 5); svarāṭpaṅkti (7, 9); nicṛtpaṅkti (10); paṅktiḥ (11)

2nd set of styles triṣṭubh

  1. Ṛk 1

    स॒हस्रं॑ त इंद्रो॒तयो॑ नः स॒हस्र॒मिषो॑ हरिवो गू॒र्तत॑माः ।
    स॒हस्रं॒ रायो॑ माद॒यध्यै॑ सह॒स्रिण॒ उप॑ नो यंतु॒ वाजाः॑ ॥

    सहस्रं त इन्द्रोतयो नः सहस्रम् इषो हरिवो गूर्ततमाः |
    सहस्रं रायो मादयध्यै सहस्रिण उप नो यन्तु वाजाः ||

    sahásram ta indrotáyo naḥ sahásramíṣo harivo gūrtátamāḥ ǀ
    sahásram rā́yo mādayádhyai sahasríṇa úpa no yantu vā́jāḥ ǁ

    sahasraṃ ta indrotayo naḥ sahasram iṣo harivo gūrtatamāḥ |
    sahasraṃ rāyo mādayadhyai sahasriṇa upa no yantu vājāḥ ||

    स॒हस्र॑म् । ते॒ । इ॒न्द्र॒ । ऊ॒तयः॑ । नः॒ । स॒हस्र॑म् । इषः॑ । ह॒रि॒ऽवः॒ । गू॒र्तऽत॑माः ।
    स॒हस्र॑म् । रायः॑ । मा॒द॒यध्यै॑ । स॒ह॒स्रिणः॑ । उप॑ । नः॒ । य॒न्तु॒ । वाजाः॑ ॥

    सहस्रम् । ते । इन्द्र । ऊतयः । नः । सहस्रम् । इषः । हरिऽवः । गूर्तऽतमाः ।
    सहस्रम् । रायः । मादयध्यै । सहस्रिणः । उप । नः । यन्तु । वाजाः ॥

    sahásram ǀ te ǀ indra ǀ ūtáyaḥ ǀ naḥ ǀ sahásram ǀ íṣaḥ ǀ hari-vaḥ ǀ gūrtá-tamāḥ ǀ
    sahásram ǀ rā́yaḥ ǀ mādayádhyai ǀ sahasríṇaḥ ǀ úpa ǀ naḥ ǀ yantu ǀ vā́jāḥ ǁ

    sahasram ǀ te ǀ indra ǀ ūtayaḥ ǀ naḥ ǀ sahasram ǀ iṣaḥ ǀ hari-vaḥ ǀ gūrta-tamāḥ ǀ
    sahasram ǀ rāyaḥ ǀ mādayadhyai ǀ sahasriṇaḥ ǀ upa ǀ naḥ ǀ yantu ǀ vājāḥ ǁ

    1.167.1 Aṣṭaka 2.4.4.0

  2. Ṛk 2

    आ नोऽवो॑भिर्म॒रुतो॑ यां॒त्वच्छा॒ ज्येष्ठे॑भिर्वा बृ॒हद्दि॑वैः सुमा॒याः ।
    अध॒ यदे॑षां नि॒युतः॑ पर॒माः स॑मु॒द्रस्य॑ चिद्ध॒नयं॑त पा॒रे ॥

    आ नो ऽवोभिर् मरुतो यान्त्व् अच्छा ज्येष्ठेभिर् वा बृहद्दिवैः सुमायाः |
    अध यद् एषां नियुतः परमाः समुद्रस्य चिद् धनयन्त पारे ||

    ā́ nó’vobhirmarúto yāntvácchā jyéṣṭhebhirvā bṛháddivaiḥ sumāyā́ḥ ǀ
    ádha yádeṣām niyútaḥ paramā́ḥ samudrásya ciddhanáyanta pāré ǁ

    ā no 'vobhir maruto yāntv acchā jyeṣṭhebhir vā bṛhaddivaiḥ sumāyāḥ |
    adha yad eṣāṃ niyutaḥ paramāḥ samudrasya cid dhanayanta pāre ||

    आ । नः॒ । अवः॑ऽभिः । म॒रुतः॑ । या॒न्तु॒ । अच्छ॑ । ज्येष्ठे॑भिः । वा॒ । बृ॒हत्ऽदि॑वैः । सु॒ऽमा॒याः ।
    अध॑ । यत् । ए॒षा॒म् । नि॒ऽयुतः॑ । प॒र॒माः । स॒मु॒द्रस्य॑ । चि॒त् । ध॒नय॑न्त । पा॒रे ॥

    आ । नः । अवःऽभिः । मरुतः । यान्तु । अच्छ । ज्येष्ठेभिः । वा । बृहत्ऽदिवैः । सुऽमायाः ।
    अध । यत् । एषाम् । निऽयुतः । परमाः । समुद्रस्य । चित् । धनयन्त । पारे ॥

    ā́ ǀ naḥ ǀ ávaḥ-bhiḥ ǀ marútaḥ ǀ yāntu ǀ áccha ǀ jyéṣṭhebhiḥ ǀ vā ǀ bṛhát-divaiḥ ǀ su-māyā́ḥ ǀ
    ádha ǀ yát ǀ eṣām ǀ ni-yútaḥ ǀ paramā́ḥ ǀ samudrásya ǀ cit ǀ dhanáyanta ǀ pāré ǁ

    ā ǀ naḥ ǀ avaḥ-bhiḥ ǀ marutaḥ ǀ yāntu ǀ accha ǀ jyeṣṭhebhiḥ ǀ vā ǀ bṛhat-divaiḥ ǀ su-māyāḥ ǀ
    adha ǀ yat ǀ eṣām ǀ ni-yutaḥ ǀ paramāḥ ǀ samudrasya ǀ cit ǀ dhanayanta ǀ pāre ǁ

    1.167.2 Aṣṭaka 2.4.4.0

  3. Ṛk 3

    मि॒म्यक्ष॒ येषु॒ सुधि॑ता घृ॒ताची॒ हिर॑ण्यनिर्णि॒गुप॑रा॒ न ऋ॒ष्टिः ।
    गुहा॒ चरं॑ती॒ मनु॑षो॒ न योषा॑ स॒भाव॑ती विद॒थ्ये॑व॒ सं वाक् ॥

    मिम्यक्ष येषु सुधिता घृताची हिरण्यनिर्णिग् उपरा न ऋष्टिः |
    गुहा चरन्ती मनुषो न योषा सभावती विदथ्येव सं वाक् ||

    mimyákṣa yéṣu súdhitā ghṛtā́cī híraṇyanirṇigúparā ná ṛṣṭíḥ ǀ
    gúhā cárantī mánuṣo ná yóṣā sabhā́vatī vidathyéva sám vā́k ǁ

    mimyakṣa yeṣu sudhitā ghṛtācī hiraṇyanirṇig uparā na ṛṣṭiḥ |
    guhā carantī manuṣo na yoṣā sabhāvatī vidathyeva saṃ vāk ||

    मि॒म्यक्ष॑ । येषु॑ । सुऽधि॑ता । घृ॒ताची॑ । हिर॑ण्यऽनिर्निक् । उप॑रा । न । ऋ॒ष्टिः ।
    गुहा॑ । चर॑न्ती । मनु॑षः । न । योषा॑ । स॒भाऽव॑ती । वि॒द॒थ्या॑ऽइव । सम् । वाक् ॥

    मिम्यक्ष । येषु । सुऽधिता । घृताची । हिरण्यऽनिर्निक् । उपरा । न । ऋष्टिः ।
    गुहा । चरन्ती । मनुषः । न । योषा । सभाऽवती । विदथ्याऽइव । सम् । वाक् ॥

    mimyákṣa ǀ yéṣu ǀ sú-dhitā ǀ ghṛtā́cī ǀ híraṇya-nirnik ǀ úparā ǀ ná ǀ ṛṣṭíḥ ǀ
    gúhā ǀ cárantī ǀ mánuṣaḥ ǀ ná ǀ yóṣā ǀ sabhā́-vatī ǀ vidathyā́-iva ǀ sám ǀ vā́k ǁ

    mimyakṣa ǀ yeṣu ǀ su-dhitā ǀ ghṛtācī ǀ hiraṇya-nirnik ǀ uparā ǀ na ǀ ṛṣṭiḥ ǀ
    guhā ǀ carantī ǀ manuṣaḥ ǀ na ǀ yoṣā ǀ sabhā-vatī ǀ vidathyā-iva ǀ sam ǀ vāk ǁ

    1.167.3 Aṣṭaka 2.4.4.0

  4. Ṛk 4

    परा॑ शु॒भ्रा अ॒यासो॑ य॒व्या सा॑धार॒ण्येव॑ म॒रुतो॑ मिमिक्षुः ।
    न रो॑द॒सी अप॑ नुदंत घो॒रा जु॒षंत॒ वृधं॑ स॒ख्याय॑ दे॒वाः ॥

    परा शुभ्रा अयासो यव्या साधारण्येव मरुतो मिमिक्षुः |
    न रोदसी अप नुदन्त घोरा जुषन्त वृधं सख्याय देवाः ||

    párā śubhrā́ ayā́so yavyā́ sādhāraṇyéva marúto mimikṣuḥ ǀ
    ná rodasī́ ápa nudanta ghorā́ juṣánta vṛ́dham sakhyā́ya devā́ḥ ǁ

    parā śubhrā ayāso yavyā sādhāraṇyeva maruto mimikṣuḥ |
    na rodasī apa nudanta ghorā juṣanta vṛdhaṃ sakhyāya devāḥ ||

    परा॑ । शु॒भ्राः । अ॒यासः॑ । य॒व्या । सा॒धा॒र॒ण्याऽइ॑व । म॒रुतः॑ । मि॒मि॒क्षुः॒ ।
    न । रो॒द॒सी इति॑ । अप॑ । नु॒द॒न्त॒ । घो॒राः । जु॒षन्त॑ । वृध॑म् । स॒ख्याय॑ । दे॒वाः ॥

    परा । शुभ्राः । अयासः । यव्या । साधारण्याऽइव । मरुतः । मिमिक्षुः ।
    न । रोदसी इति । अप । नुदन्त । घोराः । जुषन्त । वृधम् । सख्याय । देवाः ॥

    párā ǀ śubhrā́ḥ ǀ ayā́saḥ ǀ yavyā́ ǀ sādhāraṇyā́-iva ǀ marútaḥ ǀ mimikṣuḥ ǀ
    ná ǀ rodasī́ íti ǀ ápa ǀ nudanta ǀ ghorā́ḥ ǀ juṣánta ǀ vṛ́dham ǀ sakhyā́ya ǀ devā́ḥ ǁ

    parā ǀ śubhrāḥ ǀ ayāsaḥ ǀ yavyā ǀ sādhāraṇyā-iva ǀ marutaḥ ǀ mimikṣuḥ ǀ
    na ǀ rodasī iti ǀ apa ǀ nudanta ǀ ghorāḥ ǀ juṣanta ǀ vṛdham ǀ sakhyāya ǀ devāḥ ǁ

    1.167.4 Aṣṭaka 2.4.4.0

  5. Ṛk 5

    जोष॒द्यदी॑मसु॒र्या॑ स॒चध्यै॒ विषि॑तस्तुका रोद॒सी नृ॒मणाः॑ ।
    आ सू॒र्येव॑ विध॒तो रथं॑ गात्त्वे॒षप्र॑तीका॒ नभ॑सो॒ नेत्या ॥

    जोषद् यद् ईम् असुर्या सचध्यै विषितस्तुका रोदसी नृमणाः |
    आ सूर्येव विधतो रथं गात् त्वेषप्रतीका नभसो नेत्या ||

    jóṣadyádīmasuryā́ sacádhyai víṣitastukā rodasī́ nṛmáṇāḥ ǀ
    ā́ sūryéva vidható rátham gāttveṣápratīkā nábhaso nétyā́ ǁ

    joṣad yad īm asuryā sacadhyai viṣitastukā rodasī nṛmaṇāḥ |
    ā sūryeva vidhato rathaṃ gāt tveṣapratīkā nabhaso netyā ||

    जोष॑त् । यत् । ई॒म् । अ॒सु॒र्या॑ । स॒चध्यै॑ । विसि॑तऽस्तुका । रो॒द॒सी । नृ॒ऽमनाः॑ ।
    आ । सू॒र्याऽइ॑व । वि॒ध॒तः । रथ॑म् । गा॒त् । त्वे॒षऽप्र॑तीका । नभ॑सः । न । इ॒त्या ॥

    जोषत् । यत् । ईम् । असुर्या । सचध्यै । विसितऽस्तुका । रोदसी । नृऽमनाः ।
    आ । सूर्याऽइव । विधतः । रथम् । गात् । त्वेषऽप्रतीका । नभसः । न । इत्या ॥

    jóṣat ǀ yát ǀ īm ǀ asuryā́ ǀ sacádhyai ǀ vísita-stukā ǀ rodasī́ ǀ nṛ-mánāḥ ǀ
    ā́ ǀ sūryā́-iva ǀ vidhatáḥ ǀ rátham ǀ gāt ǀ tveṣá-pratīkā ǀ nábhasaḥ ǀ ná ǀ ityā́ ǁ

    joṣat ǀ yat ǀ īm ǀ asuryā ǀ sacadhyai ǀ visita-stukā ǀ rodasī ǀ nṛ-manāḥ ǀ
    ā ǀ sūryā-iva ǀ vidhataḥ ǀ ratham ǀ gāt ǀ tveṣa-pratīkā ǀ nabhasaḥ ǀ na ǀ ityā ǁ

    1.167.5 Aṣṭaka 2.4.4.0

  6. Ṛk 6

    आस्था॑पयंत युव॒तिं युवा॑नः शु॒भे निमि॑श्लां वि॒दथे॑षु प॒ज्रां ।
    अ॒र्को यद्वो॑ मरुतो ह॒विष्मा॒न्गाय॑द्गा॒थं सु॒तसो॑मो दुव॒स्यन् ॥

    आस्थापयन्त युवतिं युवानः शुभे निमिश्लां विदथेषु पज्राम् |
    अर्को यद् वो मरुतो हविष्मान् गायद् गाथं सुतसोमो दुवस्यन् ||

    ā́sthāpayanta yuvatím yúvānaḥ śubhé nímiślām vidátheṣu pajrā́m ǀ
    arkó yádvo maruto havíṣmāngā́yadgāthám sutásomo duvasyán ǁ

    āsthāpayanta yuvatiṃ yuvānaḥ śubhe nimiślāṃ vidatheṣu pajrām |
    arko yad vo maruto haviṣmān gāyad gāthaṃ sutasomo duvasyan ||

    आ । अ॒स्था॒प॒य॒न्त॒ । यु॒व॒तिम् । युवा॑नः । शु॒भे । निऽमि॑श्लाम् । वि॒दथे॑षु । प॒ज्राम् ।
    अ॒र्कः । यत् । वः॒ । म॒रु॒तः॒ । ह॒विष्मा॑न् । गाय॑त् । गा॒थम् । सु॒तऽसो॑मः । दु॒व॒स्यन् ॥

    आ । अस्थापयन्त । युवतिम् । युवानः । शुभे । निऽमिश्लाम् । विदथेषु । पज्राम् ।
    अर्कः । यत् । वः । मरुतः । हविष्मान् । गायत् । गाथम् । सुतऽसोमः । दुवस्यन् ॥

    ā́ ǀ asthāpayanta ǀ yuvatím ǀ yúvānaḥ ǀ śubhé ǀ ní-miślām ǀ vidátheṣu ǀ pajrā́m ǀ
    arkáḥ ǀ yát ǀ vaḥ ǀ marutaḥ ǀ havíṣmān ǀ gā́yat ǀ gāthám ǀ sutá-somaḥ ǀ duvasyán ǁ

    ā ǀ asthāpayanta ǀ yuvatim ǀ yuvānaḥ ǀ śubhe ǀ ni-miślām ǀ vidatheṣu ǀ pajrām ǀ
    arkaḥ ǀ yat ǀ vaḥ ǀ marutaḥ ǀ haviṣmān ǀ gāyat ǀ gātham ǀ suta-somaḥ ǀ duvasyan ǁ

    1.167.6 Aṣṭaka 2.4.5.0

  7. Ṛk 7

    प्र तं वि॑वक्मि॒ वक्म्यो॒ य ए॑षां म॒रुतां॑ महि॒मा स॒त्यो अस्ति॑ ।
    सचा॒ यदीं॒ वृष॑मणा अहं॒युः स्थि॒रा चि॒ज्जनी॒र्वह॑ते सुभा॒गाः ॥

    प्र तं विवक्मि वक्म्यो य एषाम् मरुताम् महिमा सत्यो अस्ति |
    सचा यद् ईं वृषमणा अहंयु स्थिरा चिज् जनीर् वहते सुभागाः ||

    prá tám vivakmi vákmyo yá eṣām marútām mahimā́ satyó ásti ǀ
    sácā yádīm vṛ́ṣamaṇā ahaṃyúḥ sthirā́ cijjánīrváhate subhāgā́ḥ ǁ

    pra taṃ vivakmi vakmyo ya eṣām marutām mahimā satyo asti |
    sacā yad īṃ vṛṣamaṇā ahaṃyu sthirā cij janīr vahate subhāgāḥ ||

    प्र । तम् । वि॒व॒क्मि॒ । वक्म्यः॑ । यः । ए॒षा॒म् । म॒रुता॑म् । म॒हि॒मा । स॒त्यः । अस्ति॑ ।
    सचा॑ । यत् । ई॒म् । वृष॑ऽमनाः । अ॒ह॒म्ऽयुः । स्थि॒रा । चि॒त् । जनीः॑ । वह॑ते । सु॒ऽभा॒गाः ॥

    प्र । तम् । विवक्मि । वक्म्यः । यः । एषाम् । मरुताम् । महिमा । सत्यः । अस्ति ।
    सचा । यत् । ईम् । वृषऽमनाः । अहम्ऽयुः । स्थिरा । चित् । जनीः । वहते । सुऽभागाः ॥

    prá ǀ tám ǀ vivakmi ǀ vákmyaḥ ǀ yáḥ ǀ eṣām ǀ marútām ǀ mahimā́ ǀ satyáḥ ǀ ásti ǀ
    sácā ǀ yát ǀ īm ǀ vṛ́ṣa-manāḥ ǀ aham-yúḥ ǀ sthirā́ ǀ cit ǀ jánīḥ ǀ váhate ǀ su-bhāgā́ḥ ǁ

    pra ǀ tam ǀ vivakmi ǀ vakmyaḥ ǀ yaḥ ǀ eṣām ǀ marutām ǀ mahimā ǀ satyaḥ ǀ asti ǀ
    sacā ǀ yat ǀ īm ǀ vṛṣa-manāḥ ǀ aham-yuḥ ǀ sthirā ǀ cit ǀ janīḥ ǀ vahate ǀ su-bhāgāḥ ǁ

    1.167.7 Aṣṭaka 2.4.5.0

  8. Ṛk 8

    पांति॑ मि॒त्रावरु॑णावव॒द्याच्चय॑त ईमर्य॒मो अप्र॑शस्तान् ।
    उ॒त च्य॑वंते॒ अच्यु॑ता ध्रु॒वाणि॑ वावृ॒ध ईं॑ मरुतो॒ दाति॑वारः ॥

    पान्ति मित्रावरुणाव् अवद्याच् चयत ईम् अर्यमो अप्रशस्तान् |
    उत च्यवन्ते अच्युता ध्रुवाणि वावृध ईम् मरुतो दातिवारः ||

    pā́nti mitrā́váruṇāvavadyā́ccáyata īmaryamó ápraśastān ǀ
    utá cyavante ácyutā dhruvā́ṇi vāvṛdhá īm maruto dā́tivāraḥ ǁ

    pānti mitrāvaruṇāv avadyāc cayata īm aryamo apraśastān |
    uta cyavante acyutā dhruvāṇi vāvṛdha īm maruto dātivāraḥ ||

    पान्ति॑ । मि॒त्रावरु॑णौ । अ॒व॒द्यात् । चय॑ते । ई॒म् । अ॒र्य॒मो इति॑ । अप्र॑ऽशस्तान् ।
    उ॒त । च्य॒व॒न्ते॒ । अच्यु॑ता । ध्रु॒वाणि॑ । व॒वृ॒धे । ई॒म् । म॒रु॒तः॒ । दाति॑ऽवारः ॥

    पान्ति । मित्रावरुणौ । अवद्यात् । चयते । ईम् । अर्यमो इति । अप्रऽशस्तान् ।
    उत । च्यवन्ते । अच्युता । ध्रुवाणि । ववृधे । ईम् । मरुतः । दातिऽवारः ॥

    pā́nti ǀ mitrā́váruṇau ǀ avadyā́t ǀ cáyate ǀ īm ǀ aryamó íti ǀ ápra-śastān ǀ
    utá ǀ cyavante ǀ ácyutā ǀ dhruvā́ṇi ǀ vavṛdhé ǀ īm ǀ marutaḥ ǀ dā́ti-vāraḥ ǁ

    pānti ǀ mitrāvaruṇau ǀ avadyāt ǀ cayate ǀ īm ǀ aryamo iti ǀ apra-śastān ǀ
    uta ǀ cyavante ǀ acyutā ǀ dhruvāṇi ǀ vavṛdhe ǀ īm ǀ marutaḥ ǀ dāti-vāraḥ ǁ

    1.167.8 Aṣṭaka 2.4.5.0

  9. Ṛk 9

    न॒ही नु वो॑ मरुतो॒ अंत्य॒स्मे आ॒रात्ता॑च्चि॒च्छव॑सो॒ अंत॑मा॒पुः ।
    ते धृ॒ष्णुना॒ शव॑सा शूशु॒वांसोऽर्णो॒ न द्वेषो॑ धृष॒ता परि॑ ष्ठुः ॥

    नही नु वो मरुतो अन्त्य् अस्मे आरात्ताच् चिच् छवसो अन्तम् आपुः |
    ते धृष्णुना शवसा शूशुवांसो ऽर्णो न द्वेषो धृषता परि ष्ठुः ||

    nahī́ nú vo maruto ántyasmé ārā́ttāccicchávaso ántamāpúḥ ǀ
    té dhṛṣṇúnā śávasā śūśuvā́ṃsó’rṇo ná dvéṣo dhṛṣatā́ pári ṣṭhuḥ ǁ

    nahī nu vo maruto anty asme ārāttāc cic chavaso antam āpuḥ |
    te dhṛṣṇunā śavasā śūśuvāṃso 'rṇo na dveṣo dhṛṣatā pari ṣṭhuḥ ||

    न॒हि । नु । वः॒ । म॒रु॒तः॒ । अन्ति॑ । अ॒स्मे इति॑ । आ॒रात्ता॑त् । चि॒त् । शव॑सः । अन्त॑म् । आ॒पुः ।
    ते । धृ॒ष्णुना॑ । शव॑सा । शू॒शु॒ऽवांसः॑ । अर्णः॑ । न । द्वेषः॑ । धृ॒ष॒ता । परि॑ । स्थुः॒ ॥

    नहि । नु । वः । मरुतः । अन्ति । अस्मे इति । आरात्तात् । चित् । शवसः । अन्तम् । आपुः ।
    ते । धृष्णुना । शवसा । शूशुऽवांसः । अर्णः । न । द्वेषः । धृषता । परि । स्थुः ॥

    nahí ǀ nú ǀ vaḥ ǀ marutaḥ ǀ ánti ǀ asmé íti ǀ ārā́ttāt ǀ cit ǀ śávasaḥ ǀ ántam ǀ āpúḥ ǀ
    té ǀ dhṛṣṇúnā ǀ śávasā ǀ śūśu-vā́ṃsaḥ ǀ árṇaḥ ǀ ná ǀ dvéṣaḥ ǀ dhṛṣatā́ ǀ pári ǀ sthuḥ ǁ

    nahi ǀ nu ǀ vaḥ ǀ marutaḥ ǀ anti ǀ asme iti ǀ ārāttāt ǀ cit ǀ śavasaḥ ǀ antam ǀ āpuḥ ǀ
    te ǀ dhṛṣṇunā ǀ śavasā ǀ śūśu-vāṃsaḥ ǀ arṇaḥ ǀ na ǀ dveṣaḥ ǀ dhṛṣatā ǀ pari ǀ sthuḥ ǁ

    1.167.9 Aṣṭaka 2.4.5.0

  10. Ṛk 10

    व॒यम॒द्येंद्र॑स्य॒ प्रेष्ठा॑ व॒यं श्वो वो॑चेमहि सम॒र्ये ।
    व॒यं पु॒रा महि॑ च नो॒ अनु॒ द्यूंतन्न॑ ऋभु॒क्षा न॒रामनु॑ ष्यात् ॥

    वयम् अद्येन्द्रस्य प्रेष्ठा वयं श्वो वोचेमहि समर्ये |
    वयम् पुरा महि च नो अनु द्यून् तन् न ऋभुक्षा नराम् अनु ष्यात् ||

    vayámadyéndrasya préṣṭhā vayám śvó vocemahi samaryé ǀ
    vayám purā́ máhi ca no ánu dyū́ntánna ṛbhukṣā́ narā́mánu ṣyāt ǁ

    vayam adyendrasya preṣṭhā vayaṃ śvo vocemahi samarye |
    vayam purā mahi ca no anu dyūn tan na ṛbhukṣā narām anu ṣyāt ||

    व॒यम् । अ॒द्य । इन्द्र॑स्य । प्रेष्ठाः॑ । व॒यम् । श्वः । वो॒चे॒म॒हि॒ । स॒ऽम॒र्ये ।
    व॒यम् । पु॒रा । महि॑ । च॒ । नः॒ । अनु॑ । द्यून् । तत् । नः॒ । ऋ॒भु॒क्षाः । न॒राम् । अनु॑ । स्या॒त् ॥

    वयम् । अद्य । इन्द्रस्य । प्रेष्ठाः । वयम् । श्वः । वोचेमहि । सऽमर्ये ।
    वयम् । पुरा । महि । च । नः । अनु । द्यून् । तत् । नः । ऋभुक्षाः । नराम् । अनु । स्यात् ॥

    vayám ǀ adyá ǀ índrasya ǀ préṣṭhāḥ ǀ vayám ǀ śváḥ ǀ vocemahi ǀ sa-maryé ǀ
    vayám ǀ purā́ ǀ máhi ǀ ca ǀ naḥ ǀ ánu ǀ dyū́n ǀ tát ǀ naḥ ǀ ṛbhukṣā́ḥ ǀ narā́m ǀ ánu ǀ syāt ǁ

    vayam ǀ adya ǀ indrasya ǀ preṣṭhāḥ ǀ vayam ǀ śvaḥ ǀ vocemahi ǀ sa-marye ǀ
    vayam ǀ purā ǀ mahi ǀ ca ǀ naḥ ǀ anu ǀ dyūn ǀ tat ǀ naḥ ǀ ṛbhukṣāḥ ǀ narām ǀ anu ǀ syāt ǁ

    1.167.10 Aṣṭaka 2.4.5.0

  11. Ṛk 11

    ए॒ष वः॒ स्तोमो॑ मरुत इ॒यं गीर्मां॑दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः ।
    एषा या॑सीष्ट त॒न्वे॑ व॒यां वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥

    एष व स्तोमो मरुत इयं गीर् मान्दार्यस्य मान्यस्य कारोः |
    एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ||

    eṣá vaḥ stómo maruta iyám gī́rmāndāryásya mānyásya kāróḥ ǀ
    éṣā́ yāsīṣṭa tanvé vayā́m vidyā́meṣám vṛjánam jīrádānum ǁ

    eṣa va stomo maruta iyaṃ gīr māndāryasya mānyasya kāroḥ |
    eṣā yāsīṣṭa tanve vayāṃ vidyāmeṣaṃ vṛjanaṃ jīradānum ||

    ए॒षः । वः॒ । स्तोमः॑ । म॒रु॒तः॒ । इ॒यम् । गीः । मा॒न्दा॒र्यस्य॑ । मा॒न्यस्य॑ । का॒रोः ।
    आ । इषा । या॒सी॒ष्ट॒ । त॒न्वे॑ । व॒याम् । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥

    एषः । वः । स्तोमः । मरुतः । इयम् । गीः । मान्दार्यस्य । मान्यस्य । कारोः ।
    आ । इषा । यासीष्ट । तन्वे । वयाम् । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥

    eṣáḥ ǀ vaḥ ǀ stómaḥ ǀ marutaḥ ǀ iyám ǀ gī́ḥ ǀ māndāryásya ǀ mānyásya ǀ kāróḥ ǀ
    ā́ ǀ íṣā́ ǀ yāsīṣṭa ǀ tanvé ǀ vayā́m ǀ vidyā́ma ǀ iṣám ǀ vṛjánam ǀ jīrá-dānum ǁ

    eṣaḥ ǀ vaḥ ǀ stomaḥ ǀ marutaḥ ǀ iyam ǀ gīḥ ǀ māndāryasya ǀ mānyasya ǀ kāroḥ ǀ
    ā ǀ iṣā ǀ yāsīṣṭa ǀ tanve ǀ vayām ǀ vidyāma ǀ iṣam ǀ vṛjanam ǀ jīra-dānum ǁ

    1.167.11 Aṣṭaka 2.4.5.0

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.167 · Indra · Maruts

Interpretations

Ralph T. H. Griffith

Ṛk 1

A THOUSAND are thy helps for us, O Indra: a thousand, Lord of Bays, thy choice refreshments. Wealth of a thousand sorts hast thou to cheer us: may precious goods come nigh to us in thousands.

Ṛk 2

May the most sapient Maruts, with protection, with best boons brought from lofty heaven, approach us, Now when their team of the most noble horses speeds even on the sea's extremest limit.

Ṛk 3

Close to them clings one moving in seclusion, like a man's wife, like a spear carried rearward, Well grasped, bright, decked with gold there is Vāk also, like to a courtly, eloquent dame, among them.

Ṛk 4

Far off the brilliant, never-weary Maruts cling to the young Maid as a joint possession. The fierce Gods drave not Rodasī before them, but wished for her to grow their friend and fellow.

Ṛk 5

When chose immortal Rodasī to follow—she with loose tresses and heroic spirit— She climbed her servant's chariot, she like Sūrya with cloud-like motion and refulgent aspect.

Ṛk 6

Upon their car the young men set the Maiden wedded to glory, mighty in assemblies, When your song, Maruts, rose, and, with oblation, the Soma-pourer sang his hymn in worship.

Ṛk 7

I will declare the greatness of these Maruts, their real greatness, worthy to be lauded, How, with them, she though firm, strong-minded, haughty, travels to women happy in their fortune.

Ṛk 8

Mitra and Varuṇa they guard from censure: Aryaman too, discovers worthless sinners Firm things are overthrown that ne’er were shaken: he prospers, Maruts, who gives choice oblations.

Ṛk 9

None of us, Maruts, near or at a distance, hath ever reached the limit of your vigour. They in courageous might still waxing boldly have compassed round their foemen like an ocean.

Ṛk 10

May we this day be dearest friends of Indra, and let us call on him in fight to-morrow. So were we erst. New might attend us daily! So be with us! Ṛbhukṣan of the Heroes!