Ṛgveda · Maṇḍala 1

Sūkta 85

Maruts · Gotama Rāhūgaṇa · 12 ṛks

Link
Devatā देवता
Maruts
Ṛṣi ऋषि
Gotama Rāhūgaṇa
Chandas छन्दस्
Jagatī, Triṣṭubh
Metres by ṛk

1st set of styles jagatī (1, 2, 6, 11); nicṛjjagatī (3, 7, 8); virāḍjagatī (4, 10); virāṭtrisṭup (5); bhuriktriṣṭup (9); triṣṭup (12)

2nd set of styles jagatī (1-4, 6-11); triṣṭubh (5, 12)

  1. Ṛk 1

    प्र ये शुंभं॑ते॒ जन॑यो॒ न सप्त॑यो॒ याम॑न्रु॒द्रस्य॑ सू॒नवः॑ सु॒दंस॑सः ।
    रोद॑सी॒ हि म॒रुत॑श्चक्रि॒रे वृ॒धे मदं॑ति वी॒रा वि॒दथे॑षु॒ घृष्व॑यः ॥

    प्र ये शुम्भन्ते जनयो न सप्तयो यामन् रुद्रस्य सूनवः सुदंससः |
    रोदसी हि मरुतश् चक्रिरे वृधे मदन्ति वीरा विदथेषु घृष्वयः ||

    prá yé śúmbhante jánayo ná sáptayo yā́manrudrásya sūnávaḥ sudáṃsasaḥ ǀ
    ródasī hí marútaścakriré vṛdhé mádanti vīrā́ vidátheṣu ghṛ́ṣvayaḥ ǁ

    pra ye śumbhante janayo na saptayo yāman rudrasya sūnavaḥ sudaṃsasaḥ |
    rodasī hi marutaś cakrire vṛdhe madanti vīrā vidatheṣu ghṛṣvayaḥ ||

    प्र । ये । शुम्भ॑न्ते । जन॑यः । न । सप्त॑यः । याम॑न् । रु॒द्रस्य॑ । सू॒नवः॑ । सु॒ऽदंस॑सः ।
    रोद॑सी॒ इति॑ । हि । म॒रुतः॑ । च॒क्रि॒रे । वृ॒धे । मद॑न्ति । वी॒राः । वि॒दथे॑षु । घृष्व॑यः ॥

    प्र । ये । शुम्भन्ते । जनयः । न । सप्तयः । यामन् । रुद्रस्य । सूनवः । सुऽदंससः ।
    रोदसी इति । हि । मरुतः । चक्रिरे । वृधे । मदन्ति । वीराः । विदथेषु । घृष्वयः ॥

    prá ǀ yé ǀ śúmbhante ǀ jánayaḥ ǀ ná ǀ sáptayaḥ ǀ yā́man ǀ rudrásya ǀ sūnávaḥ ǀ su-dáṃsasaḥ ǀ
    ródasī íti ǀ hí ǀ marútaḥ ǀ cakriré ǀ vṛdhé ǀ mádanti ǀ vīrā́ḥ ǀ vidátheṣu ǀ ghṛ́ṣvayaḥ ǁ

    pra ǀ ye ǀ śumbhante ǀ janayaḥ ǀ na ǀ saptayaḥ ǀ yāman ǀ rudrasya ǀ sūnavaḥ ǀ su-daṃsasaḥ ǀ
    rodasī iti ǀ hi ǀ marutaḥ ǀ cakrire ǀ vṛdhe ǀ madanti ǀ vīrāḥ ǀ vidatheṣu ǀ ghṛṣvayaḥ ǁ

    1.85.1 Aṣṭaka 1.6.9.0

  2. Ṛk 2

    त उ॑क्षि॒तासो॑ महि॒मान॑माशत दि॒वि रु॒द्रासो॒ अधि॑ चक्रिरे॒ सदः॑ ।
    अर्चं॑तो अ॒र्कं ज॒नयं॑त इंद्रि॒यमधि॒ श्रियो॑ दधिरे॒ पृश्नि॑मातरः ॥

    त उक्षितासो महिमानम् आशत दिवि रुद्रासो अधि चक्रिरे सदः |
    अर्चन्तो अर्कं जनयन्त इन्द्रियम् अधि श्रियो दधिरे पृश्निमातरः ||

    tá ukṣitā́so mahimā́namāśata diví rudrā́so ádhi cakrire sádaḥ ǀ
    árcanto arkám janáyanta indriyámádhi śríyo dadhire pṛ́śnimātaraḥ ǁ

    ta ukṣitāso mahimānam āśata divi rudrāso adhi cakrire sadaḥ |
    arcanto arkaṃ janayanta indriyam adhi śriyo dadhire pṛśnimātaraḥ ||

    ते । उ॒क्षि॒तासः॑ । म॒हि॒मान॑म् । आ॒श॒त॒ । दि॒वि । रु॒द्रासः॑ । अधि॑ । च॒क्रि॒रे॒ । सदः॑ ।
    अर्च॑न्तः । अ॒र्कम् । ज॒नय॑न्तः । इ॒न्द्रि॒यम् । अधि॑ । श्रियः॑ । द॒धि॒रे॒ । पृश्नि॑ऽमातरः ॥

    ते । उक्षितासः । महिमानम् । आशत । दिवि । रुद्रासः । अधि । चक्रिरे । सदः ।
    अर्चन्तः । अर्कम् । जनयन्तः । इन्द्रियम् । अधि । श्रियः । दधिरे । पृश्निऽमातरः ॥

    té ǀ ukṣitā́saḥ ǀ mahimā́nam ǀ āśata ǀ diví ǀ rudrā́saḥ ǀ ádhi ǀ cakrire ǀ sádaḥ ǀ
    árcantaḥ ǀ arkám ǀ janáyantaḥ ǀ indriyám ǀ ádhi ǀ śríyaḥ ǀ dadhire ǀ pṛ́śni-mātaraḥ ǁ

    te ǀ ukṣitāsaḥ ǀ mahimānam ǀ āśata ǀ divi ǀ rudrāsaḥ ǀ adhi ǀ cakrire ǀ sadaḥ ǀ
    arcantaḥ ǀ arkam ǀ janayantaḥ ǀ indriyam ǀ adhi ǀ śriyaḥ ǀ dadhire ǀ pṛśni-mātaraḥ ǁ

    1.85.2 Aṣṭaka 1.6.9.0

  3. Ṛk 3

    गोमा॑तरो॒ यच्छु॒भयं॑ते अं॒जिभि॑स्त॒नूषु॑ शु॒भ्रा द॑धिरे वि॒रुक्म॑तः ।
    बाधं॑ते॒ विश्व॑मभिमा॒तिन॒मप॒ वर्त्मा॑न्येषा॒मनु॑ रीयते घृ॒तं ॥

    गोमातरो यच् छुभयन्ते अञ्जिभिस् तनूषु शुभ्रा दधिरे विरुक्मतः |
    बाधन्ते विश्वम् अभिमातिनम् अप वर्त्मान्य् एषाम् अनु रीयते घृतम् ||

    gómātaro yácchubháyante añjíbhistanū́ṣu śubhrā́ dadhire virúkmataḥ ǀ
    bā́dhante víśvamabhimātínamápa vártmānyeṣāmánu rīyate ghṛtám ǁ

    gomātaro yac chubhayante añjibhis tanūṣu śubhrā dadhire virukmataḥ |
    bādhante viśvam abhimātinam apa vartmāny eṣām anu rīyate ghṛtam ||

    गोऽमा॑तरः॑ । यत् । शु॒भय॑न्ते । अ॒ञ्जिऽभिः॑ । त॒नूषु॑ । शु॒भ्राः । द॒धि॒रे॒ । वि॒रुक्म॑तः ।
    बाध॑न्ते । विश्व॑म् । अ॒भि॒ऽमा॒तिन॑म् । अप॑ । वर्त्मा॑नि । ए॒षा॒म् । अनु॑ । री॒य॒ते॒ । घृ॒तम् ॥

    गोऽमातरः । यत् । शुभयन्ते । अञ्जिऽभिः । तनूषु । शुभ्राः । दधिरे । विरुक्मतः ।
    बाधन्ते । विश्वम् । अभिऽमातिनम् । अप । वर्त्मानि । एषाम् । अनु । रीयते । घृतम् ॥

    gó-mātaraḥ ǀ yát ǀ śubháyante ǀ añjí-bhiḥ ǀ tanū́ṣu ǀ śubhrā́ḥ ǀ dadhire ǀ virúkmataḥ ǀ
    bā́dhante ǀ víśvam ǀ abhi-mātínam ǀ ápa ǀ vártmāni ǀ eṣām ǀ ánu ǀ rīyate ǀ ghṛtám ǁ

    go-mātaraḥ ǀ yat ǀ śubhayante ǀ añji-bhiḥ ǀ tanūṣu ǀ śubhrāḥ ǀ dadhire ǀ virukmataḥ ǀ
    bādhante ǀ viśvam ǀ abhi-mātinam ǀ apa ǀ vartmāni ǀ eṣām ǀ anu ǀ rīyate ǀ ghṛtam ǁ

    1.85.3 Aṣṭaka 1.6.9.0

  4. Ṛk 4

    वि ये भ्राजं॑ते॒ सुम॑खास ऋ॒ष्टिभिः॑ प्रच्या॒वयं॑तो॒ अच्यु॑ता चि॒दोज॑सा ।
    म॒नो॒जुवो॒ यन्म॑रुतो॒ रथे॒ष्वा वृष॑व्रातासः॒ पृष॑ती॒रयु॑ग्ध्वं ॥

    वि ये भ्राजन्ते सुमखास ऋष्टिभिः प्रच्यावयन्तो अच्युता चिद् ओजसा |
    मनोजुवो यन् मरुतो रथेष्व् आ वृषव्रातासः पृषतीर् अयुग्ध्वम् ||

    ví yé bhrā́jante súmakhāsa ṛṣṭíbhiḥ pracyāváyanto ácyutā cidójasā ǀ
    manojúvo yánmaruto rátheṣvā́ vṛ́ṣavrātāsaḥ pṛ́ṣatīráyugdhvam ǁ

    vi ye bhrājante sumakhāsa ṛṣṭibhiḥ pracyāvayanto acyutā cid ojasā |
    manojuvo yan maruto ratheṣv ā vṛṣavrātāsaḥ pṛṣatīr ayugdhvam ||

    वि । ये । भ्राज॑न्ते । सुऽम॑खासः । ऋ॒ष्टिऽभिः॑ । प्र॒ऽच्य॒वय॑न्तः । अच्यु॑ता । चि॒त् । ओज॑सा ।
    म॒नः॒ऽजुवः॑ । यत् । म॒रु॒तः॒ । रथे॑षु । आ । वृष॑ऽव्रातासः । पृष॑तीः । अयु॑ग्ध्वम् ॥

    वि । ये । भ्राजन्ते । सुऽमखासः । ऋष्टिऽभिः । प्रऽच्यवयन्तः । अच्युता । चित् । ओजसा ।
    मनःऽजुवः । यत् । मरुतः । रथेषु । आ । वृषऽव्रातासः । पृषतीः । अयुग्ध्वम् ॥

    ví ǀ yé ǀ bhrā́jante ǀ sú-makhāsaḥ ǀ ṛṣṭí-bhiḥ ǀ pra-cyaváyantaḥ ǀ ácyutā ǀ cit ǀ ójasā ǀ
    manaḥ-júvaḥ ǀ yát ǀ marutaḥ ǀ rátheṣu ǀ ā́ ǀ vṛ́ṣa-vrātāsaḥ ǀ pṛ́ṣatīḥ ǀ áyugdhvam ǁ

    vi ǀ ye ǀ bhrājante ǀ su-makhāsaḥ ǀ ṛṣṭi-bhiḥ ǀ pra-cyavayantaḥ ǀ acyutā ǀ cit ǀ ojasā ǀ
    manaḥ-juvaḥ ǀ yat ǀ marutaḥ ǀ ratheṣu ǀ ā ǀ vṛṣa-vrātāsaḥ ǀ pṛṣatīḥ ǀ ayugdhvam ǁ

    1.85.4 Aṣṭaka 1.6.9.0

  5. Ṛk 5

    प्र यद्रथे॑षु॒ पृष॑ती॒रयु॑ग्ध्वं॒ वाजे॒ अद्रिं॑ मरुतो रं॒हयं॑तः ।
    उ॒तारु॒षस्य॒ वि ष्यं॑ति॒ धारा॒श्चर्मे॑वो॒दभि॒र्व्युं॑दंति॒ भूम॑ ॥

    प्र यद् रथेषु पृषतीर् अयुग्ध्वं वाजे अद्रिम् मरुतो रंहयन्तः |
    उतारुषस्य वि ष्यन्ति धाराश् चर्मेवोदभिर् व्य् उन्दन्ति भूम ||

    prá yádrátheṣu pṛ́ṣatīráyugdhvam vā́je ádrim maruto raṃháyantaḥ ǀ
    utā́ruṣásya ví ṣyanti dhā́rāścármevodábhirvyúndanti bhū́ma ǁ

    pra yad ratheṣu pṛṣatīr ayugdhvaṃ vāje adrim maruto raṃhayantaḥ |
    utāruṣasya vi ṣyanti dhārāś carmevodabhir vy undanti bhūma ||

    प्र । यत् । रथे॑षु । पृष॑तीः । अयु॑ग्ध्वम् । वाजे॑ । अद्रि॑म् । म॒रु॒तः॒ । रं॒हय॑न्तः ।
    उ॒त । अ॒रु॒षस्य॑ । वि । स्य॒न्ति॒ । धाराः॑ । चर्म॑ऽइव । उ॒दऽभिः॑ । वि । उ॒न्द॒न्ति॒ । भूम॑ ॥

    प्र । यत् । रथेषु । पृषतीः । अयुग्ध्वम् । वाजे । अद्रिम् । मरुतः । रंहयन्तः ।
    उत । अरुषस्य । वि । स्यन्ति । धाराः । चर्मऽइव । उदऽभिः । वि । उन्दन्ति । भूम ॥

    prá ǀ yát ǀ rátheṣu ǀ pṛ́ṣatīḥ ǀ áyugdhvam ǀ vā́je ǀ ádrim ǀ marutaḥ ǀ raṃháyantaḥ ǀ
    utá ǀ aruṣásya ǀ ví ǀ syanti ǀ dhā́rāḥ ǀ cárma-iva ǀ udá-bhiḥ ǀ ví ǀ undanti ǀ bhū́ma ǁ

    pra ǀ yat ǀ ratheṣu ǀ pṛṣatīḥ ǀ ayugdhvam ǀ vāje ǀ adrim ǀ marutaḥ ǀ raṃhayantaḥ ǀ
    uta ǀ aruṣasya ǀ vi ǀ syanti ǀ dhārāḥ ǀ carma-iva ǀ uda-bhiḥ ǀ vi ǀ undanti ǀ bhūma ǁ

    1.85.5 Aṣṭaka 1.6.9.0

  6. Ṛk 6

    आ वो॑ वहंतु॒ सप्त॑यो रघु॒ष्यदो॑ रघु॒पत्वा॑नः॒ प्र जि॑गात बा॒हुभिः॑ ।
    सीद॒ता ब॒र्हिरु॒रु वः॒ सद॑स्कृ॒तं मा॒दय॑ध्वं मरुतो॒ मध्वो॒ अंध॑सः ॥

    आ वो वहन्तु सप्तयो रघुष्यदो रघुपत्वानः प्र जिगात बाहुभिः |
    सीदता बर्हिर् उरु वः सदस् कृतम् मादयध्वम् मरुतो मध्वो अन्धसः ||

    ā́ vo vahantu sáptayo raghuṣyádo raghupátvānaḥ prá jigāta bāhúbhiḥ ǀ
    sī́datā́ barhírurú vaḥ sádaskṛtám mādáyadhvam maruto mádhvo ándhasaḥ ǁ

    ā vo vahantu saptayo raghuṣyado raghupatvānaḥ pra jigāta bāhubhiḥ |
    sīdatā barhir uru vaḥ sadas kṛtam mādayadhvam maruto madhvo andhasaḥ ||

    आ । वः॒ । व॒ह॒न्तु॒ । सप्त॑यः । र॒घु॒ऽस्यदः॑ । र॒घु॒ऽपत्वा॑नः । प्र । जि॒गा॒त॒ । बा॒हुऽभिः॑ ।
    सीद॑त । आ । ब॒र्हिः । उ॒रु । वः॒ । सदः॑ । कृ॒तम् । मा॒दय॑ध्वम् । म॒रु॒तः॒ । मध्वः॑ । अन्ध॑सः ॥

    आ । वः । वहन्तु । सप्तयः । रघुऽस्यदः । रघुऽपत्वानः । प्र । जिगात । बाहुऽभिः ।
    सीदत । आ । बर्हिः । उरु । वः । सदः । कृतम् । मादयध्वम् । मरुतः । मध्वः । अन्धसः ॥

    ā́ ǀ vaḥ ǀ vahantu ǀ sáptayaḥ ǀ raghu-syádaḥ ǀ raghu-pátvānaḥ ǀ prá ǀ jigāta ǀ bāhú-bhiḥ ǀ
    sī́data ǀ ā́ ǀ barhíḥ ǀ urú ǀ vaḥ ǀ sádaḥ ǀ kṛtám ǀ mādáyadhvam ǀ marutaḥ ǀ mádhvaḥ ǀ ándhasaḥ ǁ

    ā ǀ vaḥ ǀ vahantu ǀ saptayaḥ ǀ raghu-syadaḥ ǀ raghu-patvānaḥ ǀ pra ǀ jigāta ǀ bāhu-bhiḥ ǀ
    sīdata ǀ ā ǀ barhiḥ ǀ uru ǀ vaḥ ǀ sadaḥ ǀ kṛtam ǀ mādayadhvam ǀ marutaḥ ǀ madhvaḥ ǀ andhasaḥ ǁ

    1.85.6 Aṣṭaka 1.6.9.0

  7. Ṛk 7

    ते॑ऽवर्धंत॒ स्वत॑वसो महित्व॒ना नाकं॑ त॒स्थुरु॒रु च॑क्रिरे॒ सदः॑ ।
    विष्णु॒र्यद्धाव॒द्वृष॑णं मद॒च्युतं॒ वयो॒ न सी॑द॒न्नधि॑ ब॒र्हिषि॑ प्रि॒ये ॥

    ते ऽवर्धन्त स्वतवसो महित्वना नाकं तस्थुर् उरु चक्रिरे सदः |
    विष्णुर् यद् धावद् वृषणम् मदच्युतं वयो न सीदन्न् अधि बर्हिषि प्रिये ||

    té’vardhanta svátavaso mahitvanā́ nā́kam tasthúrurú cakrire sádaḥ ǀ
    víṣṇuryáddhā́vadvṛ́ṣaṇam madacyútam váyo ná sīdannádhi barhíṣi priyé ǁ

    te 'vardhanta svatavaso mahitvanā nākaṃ tasthur uru cakrire sadaḥ |
    viṣṇur yad dhāvad vṛṣaṇam madacyutaṃ vayo na sīdann adhi barhiṣi priye ||

    ते । अ॒व॒र्ध॒न्त॒ । स्वऽत॑वसः । म॒हि॒ऽत्व॒ना । आ । नाक॑म् । त॒स्थुः । उ॒रु । च॒क्रि॒रे॒ । सदः॑ ।
    विष्णुः॑ । यत् । ह॒ । आव॑त् । वृष॑णम् । म॒द॒ऽच्युत॑म् । वयः॑ । न । सी॒द॒न् । अधि॑ । ब॒र्हिषि॑ । प्रि॒ये ॥

    ते । अवर्धन्त । स्वऽतवसः । महिऽत्वना । आ । नाकम् । तस्थुः । उरु । चक्रिरे । सदः ।
    विष्णुः । यत् । ह । आवत् । वृषणम् । मदऽच्युतम् । वयः । न । सीदन् । अधि । बर्हिषि । प्रिये ॥

    té ǀ avardhanta ǀ svá-tavasaḥ ǀ mahi-tvanā́ ǀ ā́ ǀ nā́kam ǀ tasthúḥ ǀ urú ǀ cakrire ǀ sádaḥ ǀ
    víṣṇuḥ ǀ yát ǀ ha ǀ ā́vat ǀ vṛ́ṣaṇam ǀ mada-cyútam ǀ váyaḥ ǀ ná ǀ sīdan ǀ ádhi ǀ barhíṣi ǀ priyé ǁ

    te ǀ avardhanta ǀ sva-tavasaḥ ǀ mahi-tvanā ǀ ā ǀ nākam ǀ tasthuḥ ǀ uru ǀ cakrire ǀ sadaḥ ǀ
    viṣṇuḥ ǀ yat ǀ ha ǀ āvat ǀ vṛṣaṇam ǀ mada-cyutam ǀ vayaḥ ǀ na ǀ sīdan ǀ adhi ǀ barhiṣi ǀ priye ǁ

    1.85.7 Aṣṭaka 1.6.10.1Anuvāka 1.14.7

  8. Ṛk 8

    शूरा॑ इ॒वेद्युयु॑धयो॒ न जग्म॑यः श्रव॒स्यवो॒ न पृत॑नासु येतिरे ।
    भयं॑ते॒ विश्वा॒ भुव॑ना म॒रुद्भ्यो॒ राजा॑न इव त्वे॒षसं॑दृशो॒ नरः॑ ॥

    शूरा इवेद् युयुधयो न जग्मयः श्रवस्यवो न पृतनासु येतिरे |
    भयन्ते विश्वा भुवना मरुद्भ्यो राजान इव त्वेषसंदृशो नरः ||

    śū́rā ivédyúyudhayo ná jágmayaḥ śravasyávo ná pṛ́tanāsu yetire ǀ
    bháyante víśvā bhúvanā marúdbhyo rā́jāna iva tveṣásaṃdṛśo náraḥ ǁ

    śūrā ived yuyudhayo na jagmayaḥ śravasyavo na pṛtanāsu yetire |
    bhayante viśvā bhuvanā marudbhyo rājāna iva tveṣasaṃdṛśo naraḥ ||

    शूराः॑ऽइव । इत् । युयु॑धयः । न । जग्म॑यः । श्र॒व॒स्यवः॑ । न । पृत॑नासु । ये॒ति॒रे॒ ।
    भय॑न्ते । विश्वा॑ । भुव॑ना । म॒रुत्ऽभ्यः॑ । राजा॑नःऽइव । त्वे॒षऽस॑न्दृशः । नरः॑ ॥

    शूराःऽइव । इत् । युयुधयः । न । जग्मयः । श्रवस्यवः । न । पृतनासु । येतिरे ।
    भयन्ते । विश्वा । भुवना । मरुत्ऽभ्यः । राजानःऽइव । त्वेषऽसन्दृशः । नरः ॥

    śū́rāḥ-iva ǀ ít ǀ yúyudhayaḥ ǀ ná ǀ jágmayaḥ ǀ śravasyávaḥ ǀ ná ǀ pṛ́tanāsu ǀ yetire ǀ
    bháyante ǀ víśvā ǀ bhúvanā ǀ marút-bhyaḥ ǀ rā́jānaḥ-iva ǀ tveṣá-sandṛśaḥ ǀ náraḥ ǁ

    śūrāḥ-iva ǀ it ǀ yuyudhayaḥ ǀ na ǀ jagmayaḥ ǀ śravasyavaḥ ǀ na ǀ pṛtanāsu ǀ yetire ǀ
    bhayante ǀ viśvā ǀ bhuvanā ǀ marut-bhyaḥ ǀ rājānaḥ-iva ǀ tveṣa-sandṛśaḥ ǀ naraḥ ǁ

    1.85.8 Aṣṭaka 1.6.10.2Anuvāka 1.14.8

  9. Ṛk 9

    त्वष्टा॒ यद्वज्रं॒ सुकृ॑तं हिर॒ण्ययं॑ स॒हस्र॑भृष्टिं॒ स्वपा॒ अव॑र्तयत् ।
    ध॒त्त इंद्रो॒ नर्यपां॑सि॒ कर्त॒वेऽह॑न्वृ॒त्रं निर॒पामौ॑ब्जदर्ण॒वं ॥

    त्वष्टा यद् वज्रं सुकृतं हिरण्ययं सहस्रभृष्टिं स्वपा अवर्तयत् |
    धत्त इन्द्रो नर्य् अपांसि कर्तवे ऽहन् वृत्रं निर् अपाम् औब्जद् अर्णवम् ||

    tváṣṭā yádvájram súkṛtam hiraṇyáyam sahásrabhṛṣṭim svápā ávartayat ǀ
    dhattá índro náryápāṃsi kártavé’hanvṛtrám nírapā́maubjadarṇavám ǁ

    tvaṣṭā yad vajraṃ sukṛtaṃ hiraṇyayaṃ sahasrabhṛṣṭiṃ svapā avartayat |
    dhatta indro nary apāṃsi kartave 'han vṛtraṃ nir apām aubjad arṇavam ||

    त्वष्टा॑ । यत् । वज्र॑म् । सुऽकृ॑तम् । हि॒र॒ण्यय॑म् । स॒हस्र॑ऽभृष्टिम् । सु॒ऽअपाः॑ । अव॑र्तयत् ।
    ध॒त्ते । इन्द्रः॑ । नरि॑ । अपां॑सि । कर्त॑वे । अह॑न् । वृ॒त्रम् । निः । अ॒पाम् । औ॒ब्ज॒त् । अ॒र्ण॒वम् ॥

    त्वष्टा । यत् । वज्रम् । सुऽकृतम् । हिरण्ययम् । सहस्रऽभृष्टिम् । सुऽअपाः । अवर्तयत् ।
    धत्ते । इन्द्रः । नरि । अपांसि । कर्तवे । अहन् । वृत्रम् । निः । अपाम् । औब्जत् । अर्णवम् ॥

    tváṣṭā ǀ yát ǀ vájram ǀ sú-kṛtam ǀ hiraṇyáyam ǀ sahásra-bhṛṣṭim ǀ su-ápāḥ ǀ ávartayat ǀ
    dhatté ǀ índraḥ ǀ nári ǀ ápāṃsi ǀ kártave ǀ áhan ǀ vṛtrám ǀ níḥ ǀ apā́m ǀ aubjat ǀ arṇavám ǁ

    tvaṣṭā ǀ yat ǀ vajram ǀ su-kṛtam ǀ hiraṇyayam ǀ sahasra-bhṛṣṭim ǀ su-apāḥ ǀ avartayat ǀ
    dhatte ǀ indraḥ ǀ nari ǀ apāṃsi ǀ kartave ǀ ahan ǀ vṛtram ǀ niḥ ǀ apām ǀ aubjat ǀ arṇavam ǁ

    1.85.9 Aṣṭaka 1.6.10.3Anuvāka 1.14.9

  10. Ṛk 10

    ऊ॒र्ध्वं नु॑नुद्रेऽव॒तं त ओज॑सा दादृहा॒णं चि॑द्बिभिदु॒र्वि पर्व॑तं ।
    धमं॑तो वा॒णं म॒रुतः॑ सु॒दान॑वो॒ मदे॒ सोम॑स्य॒ रण्या॑नि चक्रिरे ॥

    ऊर्ध्वं नुनुद्रे ऽवतं त ओजसा दादृहाणं चिद् बिभिदुर् वि पर्वतम् |
    धमन्तो वाणम् मरुतः सुदानवो मदे सोमस्य रण्यानि चक्रिरे ||

    ūrdhvám nunudre’vatám tá ójasā dādṛhāṇám cidbibhidurví párvatam ǀ
    dhámanto vāṇám marútaḥ sudā́navo máde sómasya ráṇyāni cakrire ǁ

    ūrdhvaṃ nunudre 'vataṃ ta ojasā dādṛhāṇaṃ cid bibhidur vi parvatam |
    dhamanto vāṇam marutaḥ sudānavo made somasya raṇyāni cakrire ||

    ऊ॒र्ध्वम् । नु॒नु॒द्रे॒ । अ॒व॒तम् । ते । ओज॑सा । द॒दृ॒हा॒णम् । चि॒त् । बि॒भि॒दुः॒ । वि । पर्व॑तम् ।
    धम॑न्तः । वा॒णम् । म॒रुतः॑ । सु॒ऽदान॑वः । मदे॑ । सोम॑स्य । रण्या॑नि । च॒क्रि॒रे॒ ॥

    ऊर्ध्वम् । नुनुद्रे । अवतम् । ते । ओजसा । ददृहाणम् । चित् । बिभिदुः । वि । पर्वतम् ।
    धमन्तः । वाणम् । मरुतः । सुऽदानवः । मदे । सोमस्य । रण्यानि । चक्रिरे ॥

    ūrdhvám ǀ nunudre ǀ avatám ǀ té ǀ ójasā ǀ dadṛhāṇám ǀ cit ǀ bibhiduḥ ǀ ví ǀ párvatam ǀ
    dhámantaḥ ǀ vāṇám ǀ marútaḥ ǀ su-dā́navaḥ ǀ máde ǀ sómasya ǀ ráṇyāni ǀ cakrire ǁ

    ūrdhvam ǀ nunudre ǀ avatam ǀ te ǀ ojasā ǀ dadṛhāṇam ǀ cit ǀ bibhiduḥ ǀ vi ǀ parvatam ǀ
    dhamantaḥ ǀ vāṇam ǀ marutaḥ ǀ su-dānavaḥ ǀ made ǀ somasya ǀ raṇyāni ǀ cakrire ǁ

    1.85.10 Aṣṭaka 1.6.10.4Anuvāka 1.14.10

  11. Ṛk 11

    जि॒ह्मं नु॑नुद्रेऽव॒तं तया॑ दि॒शासिं॑च॒न्नुत्सं॒ गोत॑माय तृ॒ष्णजे॑ ।
    आ ग॑च्छंती॒मव॑सा चि॒त्रभा॑नवः॒ कामं॒ विप्र॑स्य तर्पयंत॒ धाम॑भिः ॥

    जिह्मं नुनुद्रे ऽवतं तया दिशासिञ्चन्न् उत्सं गोतमाय तृष्णजे |
    आ गच्छन्तीम् अवसा चित्रभानवः कामं विप्रस्य तर्पयन्त धामभिः ||

    jihmám nunudre’vatám táyā diśā́siñcannútsam gótamāya tṛṣṇáje ǀ
    ā́ gacchantīmávasā citrábhānavaḥ kā́mam víprasya tarpayanta dhā́mabhiḥ ǁ

    jihmaṃ nunudre 'vataṃ tayā diśāsiñcann utsaṃ gotamāya tṛṣṇaje |
    ā gacchantīm avasā citrabhānavaḥ kāmaṃ viprasya tarpayanta dhāmabhiḥ ||

    जि॒ह्मम् । नु॒नु॒द्रे॒ । अ॒व॒तम् । तया॑ । दि॒शा । असि॑ञ्चन् । उत्स॑म् । गोत॑माय । तृ॒ष्णऽजे॑ ।
    आ । ग॒च्छ॒न्ति॒ । ई॒म् । अव॑सा । चि॒त्रऽभा॑नवः । काम॑म् । विप्र॑स्य । त॒र्प॒य॒न्त॒ । धाम॑ऽभिः ॥

    जिह्मम् । नुनुद्रे । अवतम् । तया । दिशा । असिञ्चन् । उत्सम् । गोतमाय । तृष्णऽजे ।
    आ । गच्छन्ति । ईम् । अवसा । चित्रऽभानवः । कामम् । विप्रस्य । तर्पयन्त । धामऽभिः ॥

    jihmám ǀ nunudre ǀ avatám ǀ táyā ǀ diśā́ ǀ ásiñcan ǀ útsam ǀ gótamāya ǀ tṛṣṇá-je ǀ
    ā́ ǀ gacchanti ǀ īm ǀ ávasā ǀ citrá-bhānavaḥ ǀ kā́mam ǀ víprasya ǀ tarpayanta ǀ dhā́ma-bhiḥ ǁ

    jihmam ǀ nunudre ǀ avatam ǀ tayā ǀ diśā ǀ asiñcan ǀ utsam ǀ gotamāya ǀ tṛṣṇa-je ǀ
    ā ǀ gacchanti ǀ īm ǀ avasā ǀ citra-bhānavaḥ ǀ kāmam ǀ viprasya ǀ tarpayanta ǀ dhāma-bhiḥ ǁ

    1.85.11 Aṣṭaka 1.6.10.5Anuvāka 1.14.11

  12. Ṛk 12

    या वः॒ शर्म॑ शशमा॒नाय॒ संति॑ त्रि॒धातू॑नि दा॒शुषे॑ यच्छ॒ताधि॑ ।
    अ॒स्मभ्यं॒ तानि॑ मरुतो॒ वि यं॑त र॒यिं नो॑ धत्त वृषणः सु॒वीरं॑ ॥

    या वः शर्म शशमानाय सन्ति त्रिधातूनि दाशुषे यच्छताधि |
    अस्मभ्यं तानि मरुतो वि यन्त रयिं नो धत्त वृषणः सुवीरम् ||

    yā́ vaḥ śárma śaśamānā́ya sánti tridhā́tūni dāśúṣe yacchatā́dhi ǀ
    asmábhyam tā́ni maruto ví yanta rayím no dhatta vṛṣaṇaḥ suvī́ram ǁ

    yā vaḥ śarma śaśamānāya santi tridhātūni dāśuṣe yacchatādhi |
    asmabhyaṃ tāni maruto vi yanta rayiṃ no dhatta vṛṣaṇaḥ suvīram ||

    या । वः॒ । शर्म॑ । श॒श॒मा॒नाय॑ । सन्ति॑ । त्रि॒ऽधातू॑नि । दा॒शुषे॑ । य॒च्छ॒त॒ । अधि॑ ।
    अ॒स्मभ्य॑म् । तानि॑ । म॒रु॒तः॒ । वि । य॒न्त॒ । र॒यिम् । नः॒ । ध॒त्त॒ । वृ॒ष॒णः॒ । सु॒ऽवीर॑म् ॥

    या । वः । शर्म । शशमानाय । सन्ति । त्रिऽधातूनि । दाशुषे । यच्छत । अधि ।
    अस्मभ्यम् । तानि । मरुतः । वि । यन्त । रयिम् । नः । धत्त । वृषणः । सुऽवीरम् ॥

    yā́ ǀ vaḥ ǀ śárma ǀ śaśamānā́ya ǀ sánti ǀ tri-dhā́tūni ǀ dāśúṣe ǀ yacchata ǀ ádhi ǀ
    asmábhyam ǀ tā́ni ǀ marutaḥ ǀ ví ǀ yanta ǀ rayím ǀ naḥ ǀ dhatta ǀ vṛṣaṇaḥ ǀ su-vī́ram ǁ

    yā ǀ vaḥ ǀ śarma ǀ śaśamānāya ǀ santi ǀ tri-dhātūni ǀ dāśuṣe ǀ yacchata ǀ adhi ǀ
    asmabhyam ǀ tāni ǀ marutaḥ ǀ vi ǀ yanta ǀ rayim ǀ naḥ ǀ dhatta ǀ vṛṣaṇaḥ ǀ su-vīram ǁ

    1.85.12 Aṣṭaka 1.6.10.6Anuvāka 1.14.12

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.85 · Maruts

Interpretations

Kapali Shastri

Ṛk 1

Translation

Women: Like women who gaining control over their spouses, place themselves at their disposal, the Maruts born of the regions of Life-Force, grow into Powers of Mind with ingressions of the might of Indra, gain control over the Yajamana and then become subservient to him.

Heaven and Earth: the upper and the lower states of consciousness, energised by the luminous Powers of the Mind, the Maruts.

Commentary

They who like women are radiant on the way, gliders, doers of mighty deeds, sons of Rudra, the Maruts have created Heaven and Earth for their growth (in the Yajamana); heroes, assailers, they rejoice in sacrifices.

Ṛk 2

Commentary

Satiated, they attained greatness; they enhanced (the glory of) Indra's home in Heaven. Worshipping lustrous Indra, manifesting his glory, the sons of Prishni, acquired riches in abundance.

Ṛk 3

Translation

Light: of the intellect.

Commentary

When the sons of the Cow shine with their radiances, pure, they are resplendent on their persons; they strike at every adversary. Light trails in their path.

Ṛk 4

Translation

O Maruts, swift as thought, in companies of showerers, when ye yoke the spotted deer to your cars (things are overthrown).

Commentary

Worthily worshipped, they shine with their spears (of sight); they strike down even what cannot be over-thrown.

Ṛk 5

Commentary

O Maruts, when ye have harnessed the spotted deer to your car for sake of wealth, urging the Cloud to shower, streams are released from the radiant (Indra). And they soak the earth, like a skin, with Waters.

Ṛk 6

Translation

Place: is in the inner consecrated seat of the Yajamana.

Commentary

O Maruts, may the swift-gliding coursers bear ye hither. Moving swift, go forward with your arms (aloft). O Maruts, your place is spread wide; seated on the sacred grass, rejoice in the sweet intake (of Soma).

Ṛk 7

Translation

Even as the hymns exalt the happier aspect (Shiva) of Rudra, the terrible father of the Maruts, and praise the calmer side of the impetuous Maruts, so do some hymns speak of the fiery deeds of Vishnu, the preserver, who is lauded as the support of the Maruts.

Commentary

Self-confident, fully grown, by their greatness they have attained Heaven and made their abode wide. For whom Vishnu himself guards the bounteous, delightful Soma, may they come like birds and be seated upon our pleasing altar (of grass).

Ṛk 8

Commentary

Like heroes, rushing eager for fight, like men seeking renown , they engage in battles. All creatures fear these Maruts – leaders awful to behold, king-like.

Footnote

Or, inspired Knowledge.

Ṛk 9

Commentary

For heroic deeds of the Maruts, Indra wields the well-fashioned, golden thunderbolt with many several edges which Twashtri has made for him; with it he slew Vritra, caused the ocean of Waters to flow down.

Ṛk 10

Translation

Well: the store-well of potencies in the nether regions of the physical. These Waters are brought up to the levels of life and mind.

Mountain: of many plateaus, dense, stone-like.

Commentary

By their power they impelled the Well aloft, clove even the strong mountain. Blowing upon their pipe, exhilarated by Soma, the bounteous givers wrought delectable deeds.

Ṛk 11

Translation

Devious: so as to cover the entire being, in all its parts.

Commentary

They impelled the Well deviously and brought the flood to thirsting Gotama. The variously lustrous (Maruts) bring him succour fulfilling the longing of the sage with sustaining Waters.

Ṛk 12

Translation

Triple: relating to the three worlds.

Commentary

O Maruts, bestow on us whatever triple blessings are in your gift for him who lauds and offers. Showerers, bestow on us the wealth that is potent.