Ṛk 1.85.5
Saṃhitā
प्र यद्रथे॑षु॒ पृष॑ती॒रयु॑ग्ध्वं॒ वाजे॒ अद्रिं॑ मरुतो रं॒हयं॑तः ।
उ॒तारु॒षस्य॒ वि ष्यं॑ति॒ धारा॒श्चर्मे॑वो॒दभि॒र्व्युं॑दंति॒ भूम॑ ॥
प्र यद् रथेषु पृषतीर् अयुग्ध्वं वाजे अद्रिम् मरुतो रंहयन्तः |
उतारुषस्य वि ष्यन्ति धाराश् चर्मेवोदभिर् व्य् उन्दन्ति भूम ||
prá yádrátheṣu pṛ́ṣatīráyugdhvam vā́je ádrim maruto raṃháyantaḥ ǀ
utā́ruṣásya ví ṣyanti dhā́rāścármevodábhirvyúndanti bhū́ma ǁ
pra yad ratheṣu pṛṣatīr ayugdhvaṃ vāje adrim maruto raṃhayantaḥ |
utāruṣasya vi ṣyanti dhārāś carmevodabhir vy undanti bhūma ||
Padapāṭha
प्र । यत् । रथे॑षु । पृष॑तीः । अयु॑ग्ध्वम् । वाजे॑ । अद्रि॑म् । म॒रु॒तः॒ । रं॒हय॑न्तः ।
उ॒त । अ॒रु॒षस्य॑ । वि । स्य॒न्ति॒ । धाराः॑ । चर्म॑ऽइव । उ॒दऽभिः॑ । वि । उ॒न्द॒न्ति॒ । भूम॑ ॥
प्र । यत् । रथेषु । पृषतीः । अयुग्ध्वम् । वाजे । अद्रिम् । मरुतः । रंहयन्तः ।
उत । अरुषस्य । वि । स्यन्ति । धाराः । चर्मऽइव । उदऽभिः । वि । उन्दन्ति । भूम ॥
prá ǀ yát ǀ rátheṣu ǀ pṛ́ṣatīḥ ǀ áyugdhvam ǀ vā́je ǀ ádrim ǀ marutaḥ ǀ raṃháyantaḥ ǀ
utá ǀ aruṣásya ǀ ví ǀ syanti ǀ dhā́rāḥ ǀ cárma-iva ǀ udá-bhiḥ ǀ ví ǀ undanti ǀ bhū́ma ǁ
pra ǀ yat ǀ ratheṣu ǀ pṛṣatīḥ ǀ ayugdhvam ǀ vāje ǀ adrim ǀ marutaḥ ǀ raṃhayantaḥ ǀ
uta ǀ aruṣasya ǀ vi ǀ syanti ǀ dhārāḥ ǀ carma-iva ǀ uda-bhiḥ ǀ vi ǀ undanti ǀ bhūma ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.085.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.6.09.00
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Gotama Rāhūgaṇa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.