Ṛk 1.85.11
Saṃhitā
जि॒ह्मं नु॑नुद्रेऽव॒तं तया॑ दि॒शासिं॑च॒न्नुत्सं॒ गोत॑माय तृ॒ष्णजे॑ ।
आ ग॑च्छंती॒मव॑सा चि॒त्रभा॑नवः॒ कामं॒ विप्र॑स्य तर्पयंत॒ धाम॑भिः ॥
जिह्मं नुनुद्रे ऽवतं तया दिशासिञ्चन्न् उत्सं गोतमाय तृष्णजे |
आ गच्छन्तीम् अवसा चित्रभानवः कामं विप्रस्य तर्पयन्त धामभिः ||
jihmám nunudre’vatám táyā diśā́siñcannútsam gótamāya tṛṣṇáje ǀ
ā́ gacchantīmávasā citrábhānavaḥ kā́mam víprasya tarpayanta dhā́mabhiḥ ǁ
jihmaṃ nunudre 'vataṃ tayā diśāsiñcann utsaṃ gotamāya tṛṣṇaje |
ā gacchantīm avasā citrabhānavaḥ kāmaṃ viprasya tarpayanta dhāmabhiḥ ||
Padapāṭha
जि॒ह्मम् । नु॒नु॒द्रे॒ । अ॒व॒तम् । तया॑ । दि॒शा । असि॑ञ्चन् । उत्स॑म् । गोत॑माय । तृ॒ष्णऽजे॑ ।
आ । ग॒च्छ॒न्ति॒ । ई॒म् । अव॑सा । चि॒त्रऽभा॑नवः । काम॑म् । विप्र॑स्य । त॒र्प॒य॒न्त॒ । धाम॑ऽभिः ॥
जिह्मम् । नुनुद्रे । अवतम् । तया । दिशा । असिञ्चन् । उत्सम् । गोतमाय । तृष्णऽजे ।
आ । गच्छन्ति । ईम् । अवसा । चित्रऽभानवः । कामम् । विप्रस्य । तर्पयन्त । धामऽभिः ॥
jihmám ǀ nunudre ǀ avatám ǀ táyā ǀ diśā́ ǀ ásiñcan ǀ útsam ǀ gótamāya ǀ tṛṣṇá-je ǀ
ā́ ǀ gacchanti ǀ īm ǀ ávasā ǀ citrá-bhānavaḥ ǀ kā́mam ǀ víprasya ǀ tarpayanta ǀ dhā́ma-bhiḥ ǁ
jihmam ǀ nunudre ǀ avatam ǀ tayā ǀ diśā ǀ asiñcan ǀ utsam ǀ gotamāya ǀ tṛṣṇa-je ǀ
ā ǀ gacchanti ǀ īm ǀ avasā ǀ citra-bhānavaḥ ǀ kāmam ǀ viprasya ǀ tarpayanta ǀ dhāma-bhiḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.085.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.6.10.05
- Maṇḍala · Anuvāka · Ṛk
- 1.14.011
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Gotama Rāhūgaṇa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.