Sūkta 175
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Anuṣṭubh, Skandhogrīvī, Triṣṭubh
Metres by ṛk
1st set of styles svarāḍanuṣṭup (1); virāḍanuṣṭup (2); nicṛttriṣṭup (3); uṣṇik (4); anuṣṭup (5); bhuriktriṣṭup (6)
2nd set of styles anuṣṭubh (2-5); skandhogrīvī (1); triṣṭubh (6)
-
Ṛk 1
मत्स्यपा॑यि ते॒ महः॒ पात्र॑स्येव हरिवो मत्स॒रो मदः॑ ।
वृषा॑ ते॒ वृष्ण॒ इंदु॑र्वा॒जी स॑हस्र॒सात॑मः ॥मत्स्य् अपायि ते महः पात्रस्येव हरिवो मत्सरो मदः |
वृषा ते वृष्ण इन्दुर् वाजी सहस्रसातमः ||mátsyápāyi te máhaḥ pā́trasyeva harivo matsaró mádaḥ ǀ
vṛ́ṣā te vṛ́ṣṇa índurvājī́ sahasrasā́tamaḥ ǁmatsy apāyi te mahaḥ pātrasyeva harivo matsaro madaḥ |
vṛṣā te vṛṣṇa indur vājī sahasrasātamaḥ ||मत्सि॑ । अपा॑यि । ते॒ । महः॑ । पात्र॑स्यऽइव । ह॒रि॒ऽवः॒ । म॒त्स॒रः । मदः॑ ।
वृषा॑ । ते॒ । वृष्णे॑ । इन्दुः॑ । वा॒जी । स॒ह॒स्र॒ऽसात॑मः ॥मत्सि । अपायि । ते । महः । पात्रस्यऽइव । हरिऽवः । मत्सरः । मदः ।
वृषा । ते । वृष्णे । इन्दुः । वाजी । सहस्रऽसातमः ॥mátsi ǀ ápāyi ǀ te ǀ máhaḥ ǀ pā́trasya-iva ǀ hari-vaḥ ǀ matsaráḥ ǀ mádaḥ ǀ
vṛ́ṣā ǀ te ǀ vṛ́ṣṇe ǀ índuḥ ǀ vājī́ ǀ sahasra-sā́tamaḥ ǁmatsi ǀ apāyi ǀ te ǀ mahaḥ ǀ pātrasya-iva ǀ hari-vaḥ ǀ matsaraḥ ǀ madaḥ ǀ
vṛṣā ǀ te ǀ vṛṣṇe ǀ induḥ ǀ vājī ǀ sahasra-sātamaḥ ǁ1.175.1 Aṣṭaka 2.4.18.1Anuvāka 1.23.97
-
Ṛk 2
आ न॑स्ते गंतु मत्स॒रो वृषा॒ मदो॒ वरे॑ण्यः ।
स॒हावाँ॑ इंद्र सान॒सिः पृ॑तना॒षाळम॑र्त्यः ॥आ नस् ते गन्तु मत्सरो वृषा मदो वरेण्यः |
सहावां इन्द्र सानसिः पृतनाषाऌ अमर्त्यः ||ā́ naste gantu matsaró vṛ́ṣā mádo váreṇyaḥ ǀ
sahā́vām̐ indra sānasíḥ pṛtanāṣā́ḷámartyaḥ ǁā nas te gantu matsaro vṛṣā mado vareṇyaḥ |
sahāvāṃ indra sānasiḥ pṛtanāṣāḷ amartyaḥ ||आ । नः॒ । ते॒ । ग॒न्तु॒ । म॒त्स॒रः । वृषा॑ । मदः॑ । वरे॑ण्यः ।
स॒हऽवा॑न् । इ॒न्द्र॒ । सा॒न॒सिः । पृ॒त॒ना॒षाट् । अम॑र्त्यः ॥आ । नः । ते । गन्तु । मत्सरः । वृषा । मदः । वरेण्यः ।
सहऽवान् । इन्द्र । सानसिः । पृतनाषाट् । अमर्त्यः ॥ā́ ǀ naḥ ǀ te ǀ gantu ǀ matsaráḥ ǀ vṛ́ṣā ǀ mádaḥ ǀ váreṇyaḥ ǀ
sahá-vān ǀ indra ǀ sānasíḥ ǀ pṛtanāṣā́ṭ ǀ ámartyaḥ ǁā ǀ naḥ ǀ te ǀ gantu ǀ matsaraḥ ǀ vṛṣā ǀ madaḥ ǀ vareṇyaḥ ǀ
saha-vān ǀ indra ǀ sānasiḥ ǀ pṛtanāṣāṭ ǀ amartyaḥ ǁ1.175.2 Aṣṭaka 2.4.18.2Anuvāka 1.23.98
-
Ṛk 3
त्वं हि शूरः॒ सनि॑ता चो॒दयो॒ मनु॑षो॒ रथं॑ ।
स॒हावा॒न्दस्यु॑मव्र॒तमोषः॒ पात्रं॒ न शो॒चिषा॑ ॥त्वं हि शूरः सनिता चोदयो मनुषो रथम् |
सहावान् दस्युम् अव्रतम् ओषः पात्रं न शोचिषा ||tvám hí śū́raḥ sánitā codáyo mánuṣo rátham ǀ
sahā́vāndásyumavratámóṣaḥ pā́tram ná śocíṣā ǁtvaṃ hi śūraḥ sanitā codayo manuṣo ratham |
sahāvān dasyum avratam oṣaḥ pātraṃ na śociṣā ||त्वम् । हि । शूरः॑ । सनि॑ता । चो॒दयः॑ । मनु॑षः । रथ॑म् ।
स॒हऽवा॑न् । दस्यु॑म् । अ॒व्र॒तम् । ओषः॑ । पात्र॑म् । न । शो॒चिषा॑ ॥त्वम् । हि । शूरः । सनिता । चोदयः । मनुषः । रथम् ।
सहऽवान् । दस्युम् । अव्रतम् । ओषः । पात्रम् । न । शोचिषा ॥tvám ǀ hí ǀ śū́raḥ ǀ sánitā ǀ codáyaḥ ǀ mánuṣaḥ ǀ rátham ǀ
sahá-vān ǀ dásyum ǀ avratám ǀ óṣaḥ ǀ pā́tram ǀ ná ǀ śocíṣā ǁtvam ǀ hi ǀ śūraḥ ǀ sanitā ǀ codayaḥ ǀ manuṣaḥ ǀ ratham ǀ
saha-vān ǀ dasyum ǀ avratam ǀ oṣaḥ ǀ pātram ǀ na ǀ śociṣā ǁ1.175.3 Aṣṭaka 2.4.18.3Anuvāka 1.23.99
-
Ṛk 4
मु॒षा॒य सूर्यं॑ कवे च॒क्रमीशा॑न॒ ओज॑सा ।
वह॒ शुष्णा॑य व॒धं कुत्सं॒ वात॒स्याश्वैः॑ ॥मुषाय सूर्यं कवे चक्रम् ईशान ओजसा |
वह शुष्णाय वधं कुत्सं वातस्याश्वैः ||muṣāyá sū́ryam kave cakrámī́śāna ójasā ǀ
váha śúṣṇāya vadhám kútsam vā́tasyā́śvaiḥ ǁmuṣāya sūryaṃ kave cakram īśāna ojasā |
vaha śuṣṇāya vadhaṃ kutsaṃ vātasyāśvaiḥ ||मु॒षा॒य । सूर्य॑म् । क॒वे॒ । च॒क्रम् । ईशा॑नः । ओज॑सा ।
वह॑ । शुष्णा॑य । व॒धम् । कुत्स॑म् । वात॑स्य । अश्वैः॑ ॥मुषाय । सूर्यम् । कवे । चक्रम् । ईशानः । ओजसा ।
वह । शुष्णाय । वधम् । कुत्सम् । वातस्य । अश्वैः ॥muṣāyá ǀ sū́ryam ǀ kave ǀ cakrám ǀ ī́śānaḥ ǀ ójasā ǀ
váha ǀ śúṣṇāya ǀ vadhám ǀ kútsam ǀ vā́tasya ǀ áśvaiḥ ǁmuṣāya ǀ sūryam ǀ kave ǀ cakram ǀ īśānaḥ ǀ ojasā ǀ
vaha ǀ śuṣṇāya ǀ vadham ǀ kutsam ǀ vātasya ǀ aśvaiḥ ǁ1.175.4 Aṣṭaka 2.4.18.4Anuvāka 1.23.100
-
Ṛk 5
शु॒ष्मिंत॑मो॒ हि ते॒ मदो॑ द्यु॒म्निंत॑म उ॒त क्रतुः॑ ।
वृ॒त्र॒घ्ना व॑रिवो॒विदा॑ मंसी॒ष्ठा अ॑श्व॒सात॑मः ॥शुष्मिन्तमो हि ते मदो द्युम्निन्तम उत क्रतुः |
वृत्रघ्ना वरिवोविदा मंसीष्ठा अश्वसातमः ||śuṣmíntamo hí te mádo dyumníntama utá krátuḥ ǀ
vṛtraghnā́ varivovídā maṃsīṣṭhā́ aśvasā́tamaḥ ǁśuṣmintamo hi te mado dyumnintama uta kratuḥ |
vṛtraghnā varivovidā maṃsīṣṭhā aśvasātamaḥ ||शु॒ष्मिन्ऽत॑मः । हि । ते॒ । मदः॑ । द्यु॒म्निन्ऽत॑मः । उ॒त । क्रतुः॑ ।
वृ॒त्र॒ऽघ्ना । व॒रि॒वः॒ऽविदा॑ । मं॒सी॒ष्ठाः । अ॒श्व॒ऽसात॑मः ॥शुष्मिन्ऽतमः । हि । ते । मदः । द्युम्निन्ऽतमः । उत । क्रतुः ।
वृत्रऽघ्ना । वरिवःऽविदा । मंसीष्ठाः । अश्वऽसातमः ॥śuṣmín-tamaḥ ǀ hí ǀ te ǀ mádaḥ ǀ dyumnín-tamaḥ ǀ utá ǀ krátuḥ ǀ
vṛtra-ghnā́ ǀ varivaḥ-vídā ǀ maṃsīṣṭhā́ḥ ǀ aśva-sā́tamaḥ ǁśuṣmin-tamaḥ ǀ hi ǀ te ǀ madaḥ ǀ dyumnin-tamaḥ ǀ uta ǀ kratuḥ ǀ
vṛtra-ghnā ǀ varivaḥ-vidā ǀ maṃsīṣṭhāḥ ǀ aśva-sātamaḥ ǁ1.175.5 Aṣṭaka 2.4.18.5Anuvāka 1.23.101
-
Ṛk 6
यथा॒ पूर्वे॑भ्यो जरि॒तृभ्य॑ इंद्र॒ मय॑ इ॒वापो॒ न तृष्य॑ते ब॒भूथ॑ ।
तामनु॑ त्वा नि॒विदं॑ जोहवीमि वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥यथा पूर्वेभ्यो जरितृभ्य इन्द्र मय इवापो न तृष्यते बभूथ |
ताम् अनु त्वा निविदं जोहवीमि विद्यामेषं वृजनं जीरदानुम् ||yáthā pū́rvebhyo jaritṛ́bhya indra máya ivā́po ná tṛ́ṣyate babhū́tha ǀ
tā́mánu tvā nivídam johavīmi vidyā́meṣám vṛjánam jīrádānum ǁyathā pūrvebhyo jaritṛbhya indra maya ivāpo na tṛṣyate babhūtha |
tām anu tvā nividaṃ johavīmi vidyāmeṣaṃ vṛjanaṃ jīradānum ||यथा॑ । पूर्वे॑भ्यः । ज॒रि॒तृऽभ्यः॑ । इ॒न्द्र॒ । मयः॑ऽइव । आपः॑ । न । तृष्य॑ते । ब॒भूथ॑ ।
ताम् । अनु॑ । त्वा॒ । नि॒ऽविद॑म् । जो॒ह॒वी॒मि॒ । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥यथा । पूर्वेभ्यः । जरितृऽभ्यः । इन्द्र । मयःऽइव । आपः । न । तृष्यते । बभूथ ।
ताम् । अनु । त्वा । निऽविदम् । जोहवीमि । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥yáthā ǀ pū́rvebhyaḥ ǀ jaritṛ́-bhyaḥ ǀ indra ǀ máyaḥ-iva ǀ ā́paḥ ǀ ná ǀ tṛ́ṣyate ǀ babhū́tha ǀ
tā́m ǀ ánu ǀ tvā ǀ ni-vídam ǀ johavīmi ǀ vidyā́ma ǀ iṣám ǀ vṛjánam ǀ jīrá-dānum ǁyathā ǀ pūrvebhyaḥ ǀ jaritṛ-bhyaḥ ǀ indra ǀ mayaḥ-iva ǀ āpaḥ ǀ na ǀ tṛṣyate ǀ babhūtha ǀ
tām ǀ anu ǀ tvā ǀ ni-vidam ǀ johavīmi ǀ vidyāma ǀ iṣam ǀ vṛjanam ǀ jīra-dānum ǁ1.175.6 Aṣṭaka 2.4.18.6Anuvāka 1.23.102
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.