Ṛgveda · Maṇḍala 1 · Sūkta 175
Ṛk 1.175.3
Saṃhitā
त्वं हि शूरः॒ सनि॑ता चो॒दयो॒ मनु॑षो॒ रथं॑ ।
स॒हावा॒न्दस्यु॑मव्र॒तमोषः॒ पात्रं॒ न शो॒चिषा॑ ॥
त्वं हि शूरः सनिता चोदयो मनुषो रथम् |
सहावान् दस्युम् अव्रतम् ओषः पात्रं न शोचिषा ||
tvám hí śū́raḥ sánitā codáyo mánuṣo rátham ǀ
sahā́vāndásyumavratámóṣaḥ pā́tram ná śocíṣā ǁ
tvaṃ hi śūraḥ sanitā codayo manuṣo ratham |
sahāvān dasyum avratam oṣaḥ pātraṃ na śociṣā ||
Padapāṭha
त्वम् । हि । शूरः॑ । सनि॑ता । चो॒दयः॑ । मनु॑षः । रथ॑म् ।
स॒हऽवा॑न् । दस्यु॑म् । अ॒व्र॒तम् । ओषः॑ । पात्र॑म् । न । शो॒चिषा॑ ॥
त्वम् । हि । शूरः । सनिता । चोदयः । मनुषः । रथम् ।
सहऽवान् । दस्युम् । अव्रतम् । ओषः । पात्रम् । न । शोचिषा ॥
tvám ǀ hí ǀ śū́raḥ ǀ sánitā ǀ codáyaḥ ǀ mánuṣaḥ ǀ rátham ǀ
sahá-vān ǀ dásyum ǀ avratám ǀ óṣaḥ ǀ pā́tram ǀ ná ǀ śocíṣā ǁ
tvam ǀ hi ǀ śūraḥ ǀ sanitā ǀ codayaḥ ǀ manuṣaḥ ǀ ratham ǀ
saha-vān ǀ dasyum ǀ avratam ǀ oṣaḥ ǀ pātram ǀ na ǀ śociṣā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.175.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.4.18.03
- Maṇḍala · Anuvāka · Ṛk
- 1.23.099
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Anuṣṭubh, Skandhogrīvī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.