Sūkta 93
- Devatā देवता
- Agni, Soma
- Ṛṣi ऋषि
- Gotama Rāhūgaṇa
- Chandas छन्दस्
- Triṣṭubh, Anuṣṭubh, Gāyatrī, Jagatī Or Triṣṭubh
Metres by ṛk
1st set of styles gāyatrī (9-11); nicṛttriṣṭup (5, 7); anuṣṭup (1); bhuriguṣṇik (2); virāḍanuṣṭup (3); svarāṭpaṅkti (4); virāṭtrisṭup (6); svarāṭtriṣṭup (8); triṣṭup (12)
2nd set of styles triṣṭubh (4-7, 12); anuṣṭubh (1-3); gāyatrī (9-11); jagatī or triṣṭubh (8)
-
Ṛk 1
अग्नी॑षोमावि॒मं सु मे॑ शृणु॒तं वृ॑षणा॒ हवं॑ ।
प्रति॑ सू॒क्तानि॑ हर्यतं॒ भव॑तं दा॒शुषे॒ मयः॑ ॥अग्नीषोमाव् इमं सु मे शृणुतं वृषणा हवम् |
प्रति सूक्तानि हर्यतम् भवतं दाशुषे मयः ||ágnīṣomāvimám sú me śṛṇutám vṛṣaṇā hávam ǀ
práti sūktā́ni haryatam bhávatam dāśúṣe máyaḥ ǁagnīṣomāv imaṃ su me śṛṇutaṃ vṛṣaṇā havam |
prati sūktāni haryatam bhavataṃ dāśuṣe mayaḥ ||अग्नी॑षोमौ । इ॒मम् । सु । मे॒ । शृ॒णु॒तम् । वृ॒ष॒णा॒ । हव॑म् ।
प्रति॑ । सु॒ऽउ॒क्तानि॑ । ह॒र्य॒त॒म् । भव॑तम् । दा॒शुषे॑ । मयः॑ ॥अग्नीषोमौ । इमम् । सु । मे । शृणुतम् । वृषणा । हवम् ।
प्रति । सुऽउक्तानि । हर्यतम् । भवतम् । दाशुषे । मयः ॥ágnīṣomau ǀ imám ǀ sú ǀ me ǀ śṛṇutám ǀ vṛṣaṇā ǀ hávam ǀ
práti ǀ su-uktā́ni ǀ haryatam ǀ bhávatam ǀ dāśúṣe ǀ máyaḥ ǁagnīṣomau ǀ imam ǀ su ǀ me ǀ śṛṇutam ǀ vṛṣaṇā ǀ havam ǀ
prati ǀ su-uktāni ǀ haryatam ǀ bhavatam ǀ dāśuṣe ǀ mayaḥ ǁ1.93.1 Aṣṭaka 1.6.28.1Anuvāka 1.14.95
-
Ṛk 2
अग्नी॑षोमा॒ यो अ॒द्य वा॑मि॒दं वचः॑ सप॒र्यति॑ ।
तस्मै॑ धत्तं सु॒वीर्यं॒ गवां॒ पोषं॒ स्वश्व्यं॑ ॥अग्नीषोमा यो अद्य वाम् इदं वचः सपर्यति |
तस्मै धत्तं सुवीर्यं गवाम् पोषं स्वश्व्यम् ||ágnīṣomā yó adyá vāmidám vácaḥ saparyáti ǀ
tásmai dhattam suvī́ryam gávām póṣam sváśvyam ǁagnīṣomā yo adya vām idaṃ vacaḥ saparyati |
tasmai dhattaṃ suvīryaṃ gavām poṣaṃ svaśvyam ||अग्नी॑षोमा । यः । अ॒द्य । वा॒म् । इ॒दम् । वचः॑ । स॒प॒र्यति॑ ।
तस्मै॑ । ध॒त्त॒म् । सु॒ऽवीर्य॑म् । गवा॑म् । पोष॑म् । सु॒ऽअश्व्य॑म् ॥अग्नीषोमा । यः । अद्य । वाम् । इदम् । वचः । सपर्यति ।
तस्मै । धत्तम् । सुऽवीर्यम् । गवाम् । पोषम् । सुऽअश्व्यम् ॥ágnīṣomā ǀ yáḥ ǀ adyá ǀ vām ǀ idám ǀ vácaḥ ǀ saparyáti ǀ
tásmai ǀ dhattam ǀ su-vī́ryam ǀ gávām ǀ póṣam ǀ su-áśvyam ǁagnīṣomā ǀ yaḥ ǀ adya ǀ vām ǀ idam ǀ vacaḥ ǀ saparyati ǀ
tasmai ǀ dhattam ǀ su-vīryam ǀ gavām ǀ poṣam ǀ su-aśvyam ǁ1.93.2 Aṣṭaka 1.6.28.2Anuvāka 1.14.96
-
Ṛk 3
अग्नी॑षोमा॒ य आहु॑तिं॒ यो वां॒ दाशा॑द्ध॒विष्कृ॑तिं ।
स प्र॒जया॑ सु॒वीर्यं॒ विश्व॒मायु॒र्व्य॑श्नवत् ॥अग्नीषोमा य आहुतिं यो वां दाशाद् धविष्कृतिम् |
स प्रजया सुवीर्यं विश्वम् आयुर् व्य् अश्नवत् ||ágnīṣomā yá ā́hutim yó vām dā́śāddhavíṣkṛtim ǀ
sá prajáyā suvī́ryam víśvamā́yurvyáśnavat ǁagnīṣomā ya āhutiṃ yo vāṃ dāśād dhaviṣkṛtim |
sa prajayā suvīryaṃ viśvam āyur vy aśnavat ||अग्नी॑षोमा । यः । आऽहु॑तिम् । यः । वा॒म् । दाशा॑त् । ह॒विःऽकृ॑तिम् ।
सः । प्र॒ऽजया॑ । सु॒ऽवीर्य॑म् । विश्व॑म् । आयुः॑ । वि । अ॒श्न॒व॒त् ॥अग्नीषोमा । यः । आऽहुतिम् । यः । वाम् । दाशात् । हविःऽकृतिम् ।
सः । प्रऽजया । सुऽवीर्यम् । विश्वम् । आयुः । वि । अश्नवत् ॥ágnīṣomā ǀ yáḥ ǀ ā́-hutim ǀ yáḥ ǀ vām ǀ dā́śāt ǀ havíḥ-kṛtim ǀ
sáḥ ǀ pra-jáyā ǀ su-vī́ryam ǀ víśvam ǀ ā́yuḥ ǀ ví ǀ aśnavat ǁagnīṣomā ǀ yaḥ ǀ ā-hutim ǀ yaḥ ǀ vām ǀ dāśāt ǀ haviḥ-kṛtim ǀ
saḥ ǀ pra-jayā ǀ su-vīryam ǀ viśvam ǀ āyuḥ ǀ vi ǀ aśnavat ǁ1.93.3 Aṣṭaka 1.6.28.3Anuvāka 1.14.97
-
Ṛk 4
अग्नी॑षोमा॒ चेति॒ तद्वी॒र्यं॑ वां॒ यदमु॑ष्णीतमव॒सं प॒णिं गाः ।
अवा॑तिरतं॒ बृस॑यस्य॒ शेषोऽविं॑दतं॒ ज्योति॒रेकं॑ ब॒हुभ्यः॑ ॥अग्नीषोमा चेति तद् वीर्यं वां यद् अमुष्णीतम् अवसम् पणिं गाः |
अवातिरतम् बृसयस्य शेषो ऽविन्दतं ज्योतिर् एकम् बहुभ्यः ||ágnīṣomā céti tádvīryám vām yádámuṣṇītamavasám paṇím gā́ḥ ǀ
ávātiratam bṛ́sayasya śéṣó’vindatam jyótirékam bahúbhyaḥ ǁagnīṣomā ceti tad vīryaṃ vāṃ yad amuṣṇītam avasam paṇiṃ gāḥ |
avātiratam bṛsayasya śeṣo 'vindataṃ jyotir ekam bahubhyaḥ ||अग्नी॑षोमा । चेति॑ । तत् । वी॒र्य॑म् । वा॒म् । यत् । अमु॑ष्णीतम् । अ॒व॒सम् । प॒णिम् । गाः ।
अव॑ । अ॒ति॒र॒त॒म् । बृस॑यस्य । शेषः॑ । अवि॑न्दतम् । ज्योतिः॑ । एक॑म् । ब॒हुऽभ्यः॑ ॥अग्नीषोमा । चेति । तत् । वीर्यम् । वाम् । यत् । अमुष्णीतम् । अवसम् । पणिम् । गाः ।
अव । अतिरतम् । बृसयस्य । शेषः । अविन्दतम् । ज्योतिः । एकम् । बहुऽभ्यः ॥ágnīṣomā ǀ céti ǀ tát ǀ vīryám ǀ vām ǀ yát ǀ ámuṣṇītam ǀ avasám ǀ paṇím ǀ gā́ḥ ǀ
áva ǀ atiratam ǀ bṛ́sayasya ǀ śéṣaḥ ǀ ávindatam ǀ jyótiḥ ǀ ékam ǀ bahú-bhyaḥ ǁagnīṣomā ǀ ceti ǀ tat ǀ vīryam ǀ vām ǀ yat ǀ amuṣṇītam ǀ avasam ǀ paṇim ǀ gāḥ ǀ
ava ǀ atiratam ǀ bṛsayasya ǀ śeṣaḥ ǀ avindatam ǀ jyotiḥ ǀ ekam ǀ bahu-bhyaḥ ǁ1.93.4 Aṣṭaka 1.6.28.4Anuvāka 1.14.98
-
Ṛk 5
यु॒वमे॒तानि॑ दि॒वि रो॑च॒नान्य॒ग्निश्च॑ सोम॒ सक्र॑तू अधत्तं ।
यु॒वं सिंधूँ॑र॒भिश॑स्तेरव॒द्यादग्नी॑षोमा॒वमुं॑चतं गृभी॒तान् ॥युवम् एतानि दिवि रोचनान्य् अग्निश् च सोम सक्रतू अधत्तम् |
युवं सिन्धूंर् अभिशस्तेर् अवद्याद् अग्नीषोमाव् अमुञ्चतं गृभीतान् ||yuvámetā́ni diví rocanā́nyagníśca soma sákratū adhattam ǀ
yuvám síndhūm̐rabhíśasteravadyā́dágnīṣomāvámuñcatam gṛbhītā́n ǁyuvam etāni divi rocanāny agniś ca soma sakratū adhattam |
yuvaṃ sindhūṃr abhiśaster avadyād agnīṣomāv amuñcataṃ gṛbhītān ||यु॒वम् । ए॒तानि॑ । दि॒वि । रो॒च॒नानि॑ । अ॒ग्निः । च॒ । सो॒म॒ । सक्र॑तू॒ इति॒ सऽक्र॑तू । अ॒ध॒त्त॒म् ।
यु॒वम् । सिन्धू॑न् । अ॒भिऽश॑स्तेः । अ॒व॒द्यात् । अग्नी॑षोमौ । अमु॑ञ्चतम् । गृ॒भी॒तान् ॥युवम् । एतानि । दिवि । रोचनानि । अग्निः । च । सोम । सक्रतू इति सऽक्रतू । अधत्तम् ।
युवम् । सिन्धून् । अभिऽशस्तेः । अवद्यात् । अग्नीषोमौ । अमुञ्चतम् । गृभीतान् ॥yuvám ǀ etā́ni ǀ diví ǀ rocanā́ni ǀ agníḥ ǀ ca ǀ soma ǀ sákratū íti sá-kratū ǀ adhattam ǀ
yuvám ǀ síndhūn ǀ abhí-śasteḥ ǀ avadyā́t ǀ ágnīṣomau ǀ ámuñcatam ǀ gṛbhītā́n ǁyuvam ǀ etāni ǀ divi ǀ rocanāni ǀ agniḥ ǀ ca ǀ soma ǀ sakratū iti sa-kratū ǀ adhattam ǀ
yuvam ǀ sindhūn ǀ abhi-śasteḥ ǀ avadyāt ǀ agnīṣomau ǀ amuñcatam ǀ gṛbhītān ǁ1.93.5 Aṣṭaka 1.6.28.5Anuvāka 1.14.99
-
Ṛk 6
आन्यं दि॒वो मा॑त॒रिश्वा॑ जभा॒राम॑थ्नाद॒न्यं परि॑ श्ये॒नो अद्रेः॑ ।
अग्नी॑षोमा॒ ब्रह्म॑णा वावृधा॒नोरुं य॒ज्ञाय॑ चक्रथुरु लो॒कं ॥आन्यं दिवो मातरिश्वा जभारामथ्नाद् अन्यम् परि श्येनो अद्रेः |
अग्नीषोमा ब्रह्मणा वावृधानोरुं यज्ञाय चक्रथुर् उ लोकम् ||ā́nyám divó mātaríśvā jabhārā́mathnādanyám pári śyenó ádreḥ ǀ
ágnīṣomā bráhmaṇā vāvṛdhānórúm yajñā́ya cakrathuru lokám ǁānyaṃ divo mātariśvā jabhārāmathnād anyam pari śyeno adreḥ |
agnīṣomā brahmaṇā vāvṛdhānoruṃ yajñāya cakrathur u lokam ||आ । अ॒न्यम् । दि॒वः । मा॒त॒रिश्वा॑ । ज॒भा॒र॒ । अम॑थ्नात् । अ॒न्यम् । परि॑ । श्ये॒नः । अद्रेः॑ ।
अग्नी॑षोमा । ब्रह्म॑णा । व॒वृ॒धा॒ना । उ॒रुम् । य॒ज्ञाय॑ । च॒क्र॒थुः॒ । ऊं॒ इति॑ । लो॒कम् ॥आ । अन्यम् । दिवः । मातरिश्वा । जभार । अमथ्नात् । अन्यम् । परि । श्येनः । अद्रेः ।
अग्नीषोमा । ब्रह्मणा । ववृधाना । उरुम् । यज्ञाय । चक्रथुः । ऊं इति । लोकम् ॥ā́ ǀ anyám ǀ diváḥ ǀ mātaríśvā ǀ jabhāra ǀ ámathnāt ǀ anyám ǀ pári ǀ śyenáḥ ǀ ádreḥ ǀ
ágnīṣomā ǀ bráhmaṇā ǀ vavṛdhānā́ ǀ urúm ǀ yajñā́ya ǀ cakrathuḥ ǀ ūṃ íti ǀ lokám ǁā ǀ anyam ǀ divaḥ ǀ mātariśvā ǀ jabhāra ǀ amathnāt ǀ anyam ǀ pari ǀ śyenaḥ ǀ adreḥ ǀ
agnīṣomā ǀ brahmaṇā ǀ vavṛdhānā ǀ urum ǀ yajñāya ǀ cakrathuḥ ǀ ūṃ iti ǀ lokam ǁ1.93.6 Aṣṭaka 1.6.28.6Anuvāka 1.14.100
-
Ṛk 7
अग्नी॑षोमा ह॒विषः॒ प्रस्थि॑तस्य वी॒तं हर्य॑तं वृषणा जु॒षेथां॑ ।
सु॒शर्मा॑णा॒ स्वव॑सा॒ हि भू॒तमथा॑ धत्तं॒ यज॑मानाय॒ शं योः ॥अग्नीषोमा हविषः प्रस्थितस्य वीतं हर्यतं वृषणा जुषेथाम् |
सुशर्माणा स्ववसा हि भूतम् अथा धत्तं यजमानाय शं योः ||ágnīṣomā havíṣaḥ prásthitasya vītám háryatam vṛṣaṇā juṣéthām ǀ
suśármāṇā svávasā hí bhūtámáthā dhattam yájamānāya śám yóḥ ǁagnīṣomā haviṣaḥ prasthitasya vītaṃ haryataṃ vṛṣaṇā juṣethām |
suśarmāṇā svavasā hi bhūtam athā dhattaṃ yajamānāya śaṃ yoḥ ||अग्नी॑षोमा । ह॒विषः॑ । प्रऽस्थि॑तस्य । वी॒तम् । हर्य॑तम् । वृ॒ष॒णा॒ । जु॒षेथा॑म् ।
सु॒ऽशर्मा॑णा । सु॒ऽअव॑सा । हि । भू॒तम् । अथ॑ । ध॒त्त॒म् । यज॑मानाय । शम् । योः ॥अग्नीषोमा । हविषः । प्रऽस्थितस्य । वीतम् । हर्यतम् । वृषणा । जुषेथाम् ।
सुऽशर्माणा । सुऽअवसा । हि । भूतम् । अथ । धत्तम् । यजमानाय । शम् । योः ॥ágnīṣomā ǀ havíṣaḥ ǀ prá-sthitasya ǀ vītám ǀ háryatam ǀ vṛṣaṇā ǀ juṣéthām ǀ
su-śármāṇā ǀ su-ávasā ǀ hí ǀ bhūtám ǀ átha ǀ dhattam ǀ yájamānāya ǀ śám ǀ yóḥ ǁagnīṣomā ǀ haviṣaḥ ǀ pra-sthitasya ǀ vītam ǀ haryatam ǀ vṛṣaṇā ǀ juṣethām ǀ
su-śarmāṇā ǀ su-avasā ǀ hi ǀ bhūtam ǀ atha ǀ dhattam ǀ yajamānāya ǀ śam ǀ yoḥ ǁ1.93.7 Aṣṭaka 1.6.29.1Anuvāka 1.14.101
-
Ṛk 8
यो अ॒ग्नीषोमा॑ ह॒विषा॑ सप॒र्याद्दे॑व॒द्रीचा॒ मन॑सा॒ यो घृ॒तेन॑ ।
तस्य॑ व्र॒तं र॑क्षतं पा॒तमंह॑सो वि॒शे जना॑य॒ महि॒ शर्म॑ यच्छतं ॥यो अग्नीषोमा हविषा सपर्याद् देवद्रीचा मनसा यो घृतेन |
तस्य व्रतं रक्षतम् पातम् अंहसो विशे जनाय महि शर्म यच्छतम् ||yó agnī́ṣómā havíṣā saparyā́ddevadrī́cā mánasā yó ghṛténa ǀ
tásya vratám rakṣatam pātámáṃhaso viśé jánāya máhi śárma yacchatam ǁyo agnīṣomā haviṣā saparyād devadrīcā manasā yo ghṛtena |
tasya vrataṃ rakṣatam pātam aṃhaso viśe janāya mahi śarma yacchatam ||यः । अ॒ग्नीषोमा॑ । ह॒विषा॑ । स॒प॒र्यात् । दे॒व॒द्रीचा॑ । मन॑सा । यः । घृ॒तेन॑ ।
तस्य॑ । व्र॒तम् । र॒क्ष॒त॒म् । पा॒तम् । अंह॑सः । वि॒शे । जना॑य । महि॑ । शर्म॑ । य॒च्छ॒त॒म् ॥यः । अग्नीषोमा । हविषा । सपर्यात् । देवद्रीचा । मनसा । यः । घृतेन ।
तस्य । व्रतम् । रक्षतम् । पातम् । अंहसः । विशे । जनाय । महि । शर्म । यच्छतम् ॥yáḥ ǀ agnī́ṣómā ǀ havíṣā ǀ saparyā́t ǀ devadrī́cā ǀ mánasā ǀ yáḥ ǀ ghṛténa ǀ
tásya ǀ vratám ǀ rakṣatam ǀ pātám ǀ áṃhasaḥ ǀ viśé ǀ jánāya ǀ máhi ǀ śárma ǀ yacchatam ǁyaḥ ǀ agnīṣomā ǀ haviṣā ǀ saparyāt ǀ devadrīcā ǀ manasā ǀ yaḥ ǀ ghṛtena ǀ
tasya ǀ vratam ǀ rakṣatam ǀ pātam ǀ aṃhasaḥ ǀ viśe ǀ janāya ǀ mahi ǀ śarma ǀ yacchatam ǁ1.93.8 Aṣṭaka 1.6.29.2Anuvāka 1.14.102
-
Ṛk 9
अग्नी॑षोमा॒ सवे॑दसा॒ सहू॑ती वनतं॒ गिरः॑ ।
सं दे॑व॒त्रा ब॑भूवथुः ॥अग्नीषोमा सवेदसा सहूती वनतं गिरः |
सं देवत्रा बभूवथुः ||ágnīṣomā sávedasā sáhūtī vanatam gíraḥ ǀ
sám devatrā́ babhūvathuḥ ǁagnīṣomā savedasā sahūtī vanataṃ giraḥ |
saṃ devatrā babhūvathuḥ ||अग्नी॑षोमा । सऽवे॑दसा । सहू॑ती॒ इति॒ सऽहू॑ती । व॒न॒त॒म् । गिरः॑ ।
सम् । दे॒व॒ऽत्रा । ब॒भू॒व॒थुः॒ ॥अग्नीषोमा । सऽवेदसा । सहूती इति सऽहूती । वनतम् । गिरः ।
सम् । देवऽत्रा । बभूवथुः ॥ágnīṣomā ǀ sá-vedasā ǀ sáhūtī íti sá-hūtī ǀ vanatam ǀ gíraḥ ǀ
sám ǀ deva-trā́ ǀ babhūvathuḥ ǁagnīṣomā ǀ sa-vedasā ǀ sahūtī iti sa-hūtī ǀ vanatam ǀ giraḥ ǀ
sam ǀ deva-trā ǀ babhūvathuḥ ǁ1.93.9 Aṣṭaka 1.6.29.3Anuvāka 1.14.103
-
Ṛk 10
अग्नी॑षोमाव॒नेन॑ वां॒ यो वां॑ घृ॒तेन॒ दाश॑ति ।
तस्मै॑ दीदयतं बृ॒हत् ॥अग्नीषोमाव् अनेन वां यो वां घृतेन दाशति |
तस्मै दीदयतम् बृहत् ||ágnīṣomāvanéna vām yó vām ghṛténa dā́śati ǀ
tásmai dīdayatam bṛhát ǁagnīṣomāv anena vāṃ yo vāṃ ghṛtena dāśati |
tasmai dīdayatam bṛhat ||अग्नी॑षोमौ । अ॒नेन॑ । वा॒म् । यः । वा॒म् । घृ॒तेन॑ । दाश॑ति ।
तस्मै॑ । दी॒द॒य॒त॒म् । बृ॒हत् ॥अग्नीषोमौ । अनेन । वाम् । यः । वाम् । घृतेन । दाशति ।
तस्मै । दीदयतम् । बृहत् ॥ágnīṣomau ǀ anéna ǀ vām ǀ yáḥ ǀ vām ǀ ghṛténa ǀ dā́śati ǀ
tásmai ǀ dīdayatam ǀ bṛhát ǁagnīṣomau ǀ anena ǀ vām ǀ yaḥ ǀ vām ǀ ghṛtena ǀ dāśati ǀ
tasmai ǀ dīdayatam ǀ bṛhat ǁ1.93.10 Aṣṭaka 1.6.29.4Anuvāka 1.14.104
-
Ṛk 11
अग्नी॑षोमावि॒मानि॑ नो यु॒वं ह॒व्या जु॑जोषतं ।
आ या॑त॒मुप॑ नः॒ सचा॑ ॥अग्नीषोमाव् इमानि नो युवं हव्या जुजोषतम् |
आ यातम् उप नः सचा ||ágnīṣomāvimā́ni no yuvám havyā́ jujoṣatam ǀ
ā́ yātamúpa naḥ sácā ǁagnīṣomāv imāni no yuvaṃ havyā jujoṣatam |
ā yātam upa naḥ sacā ||अग्नी॑षोमौ । इ॒मानि॑ । नः॒ । यु॒वम् । ह॒व्या । जु॒जो॒ष॒त॒म् ।
आ । या॒त॒म् । उप॑ । नः॒ । सचा॑ ॥अग्नीषोमौ । इमानि । नः । युवम् । हव्या । जुजोषतम् ।
आ । यातम् । उप । नः । सचा ॥ágnīṣomau ǀ imā́ni ǀ naḥ ǀ yuvám ǀ havyā́ ǀ jujoṣatam ǀ
ā́ ǀ yātam ǀ úpa ǀ naḥ ǀ sácā ǁagnīṣomau ǀ imāni ǀ naḥ ǀ yuvam ǀ havyā ǀ jujoṣatam ǀ
ā ǀ yātam ǀ upa ǀ naḥ ǀ sacā ǁ1.93.11 Aṣṭaka 1.6.29.5Anuvāka 1.14.105
-
Ṛk 12
अग्नी॑षोमा पिपृ॒तमर्व॑तो न॒ आ प्या॑यंतामु॒स्रिया॑ हव्य॒सूदः॑ ।
अ॒स्मे बला॑नि म॒घव॑त्सु धत्तं कृणु॒तं नो॑ अध्व॒रं श्रु॑ष्टि॒मंतं॑ ॥अग्नीषोमा पिपृतम् अर्वतो न आ प्यायन्ताम् उस्रिया हव्यसूदः |
अस्मे बलानि मघवत्सु धत्तं कृणुतं नो अध्वरं श्रुष्टिमन्तम् ||ágnīṣomā pipṛtámárvato na ā́ pyāyantāmusríyā havyasū́daḥ ǀ
asmé bálāni maghávatsu dhattam kṛṇutám no adhvarám śruṣṭimántam ǁagnīṣomā pipṛtam arvato na ā pyāyantām usriyā havyasūdaḥ |
asme balāni maghavatsu dhattaṃ kṛṇutaṃ no adhvaraṃ śruṣṭimantam ||अग्नी॑षोमा । पि॒पृ॒तम् । अर्व॑तः । नः॒ । आ । प्या॒य॒न्ता॒म् । उ॒स्रियाः॑ । ह॒व्य॒ऽसूदः॑ ।
अ॒स्मे इति॑ । बला॑नि । म॒घव॑त्ऽसु । ध॒त्त॒म् । कृ॒णु॒तम् । नः॒ । अ॒ध्व॒रम् । श्रु॒ष्टि॒ऽमन्त॑म् ॥अग्नीषोमा । पिपृतम् । अर्वतः । नः । आ । प्यायन्ताम् । उस्रियाः । हव्यऽसूदः ।
अस्मे इति । बलानि । मघवत्ऽसु । धत्तम् । कृणुतम् । नः । अध्वरम् । श्रुष्टिऽमन्तम् ॥ágnīṣomā ǀ pipṛtám ǀ árvataḥ ǀ naḥ ǀ ā́ ǀ pyāyantām ǀ usríyāḥ ǀ havya-sū́daḥ ǀ
asmé íti ǀ bálāni ǀ maghávat-su ǀ dhattam ǀ kṛṇutám ǀ naḥ ǀ adhvarám ǀ śruṣṭi-mántam ǁagnīṣomā ǀ pipṛtam ǀ arvataḥ ǀ naḥ ǀ ā ǀ pyāyantām ǀ usriyāḥ ǀ havya-sūdaḥ ǀ
asme iti ǀ balāni ǀ maghavat-su ǀ dhattam ǀ kṛṇutam ǀ naḥ ǀ adhvaram ǀ śruṣṭi-mantam ǁ1.93.12 Aṣṭaka 1.6.29.6Anuvāka 1.14.106
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.